________________ 130 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका नुमितिरिति परामर्शार्थः कारणं तत्र।अथव्यापकतापरामर्शस्य कारणतां व्यवस्थापयन् वादीप्रत्यवतिष्ठते / अन्ये त्विति मूलम् / स्वेति / स्वं साधनम्, तर(त्)समानाधिकरणोऽत्यन्ताभावो घटादीनाम्, तदप्रतियोगित्वं वह्नौ वर्तते इति वह्नित्वं व्यापकत्वमित्यर्थः / वहिव्या(ा)पकः / तदिति / तत्पदेन वह्निः, तत्सामानाधिकरण्यं व्याप्यत्वम्, तत् तु धूमत्वम् / तथा चेति मूलम् / व्यापकताज्ञानमनुमितिकारणम्, तस्य व्याप्यताज्ञानापेक्षया लघुत्वम् / यतः पर्वतवृत्तिधूमव्यापको वह्रिरित्येतादृशं ज्ञानं कारणम्, न तु वह्निव्याप्यधूमवान् इत्याकारकम्। कथम् ? व्याप्यत्वलक्षणे व्यापकत्वलक्षणापेक्षया सामानाधिकरण्यस्याधिकस्य प्रवेशात् / साध्यस्येति / [64 A] वह्नः पक्षधर्मो धूमः, तद्व्यापकताज्ञानं परामर्शो वाच्यः। न त्विति मूलम्। साध्यव्याप्तस्य धूमस्य पक्षधर्मताज्ञानमनुमितिकारणं न भवति, गौरवात् सामानाधिकरण्यरूपाधिकप्रवेशगौरवादित्यर्थः।साध्येति मूलम् / साध्यव्याप्यवान् यः पक्षस्तज्ज्ञानं वा नानुमितिकारणम्, गौरवात्, इत्यर्थः / अत एवेति मूलम् / यतो व्यापकताज्ञानमनुमितिकारणमत एव।साध्यायोगेति।साध्येन सहयोऽयोगव्यवच्छेदोऽसम्बन्धव्यवच्छेदः तेन / यो यो धूमवान् स इति। अस्यार्थः धूमसमानाधिकरणात्यन्ताभावाप्रतियोगिवह्निमान् इत्येवंरूपः / अन्यथेति मूलम्।यदि उदाहरणवाक्येन व्यापकतानोपदर्श्यते तदावह्रिमानेवधूमवान् इतिअन्ययोगव्यवच्छेदेनोदाहरणशरीर स्यात्। तथा चधूमवदस्मिन् वढेर्योगो नास्तीतिअन्ययोगव्यवच्छेदरूपं व्याप्यत्वंप्रदर्श्यते।न वैतादृशमुदाहरणवाक्यम् / अनेन वह्रिमानेव धूमवान् इति रूपेण व्याप्यता प्रदर्श्यते / यतोऽयोगव्यवच्छेदो व्यापकत्वमुच्यते, अन्ययोगव्यवच्छेदस्तु व्याप्यत्वमिति / एतादृशं व्याप्यत्वरूपम् उदाहरणवाक्ये यो य इत्यादिरूपे नास्तीति व्यापकतापरामर्श एव तत्र कारणम् / दोषोऽपीति मूलम् / एवं दोषोऽपि व्यभिचारादिरीदृश एवोद्भाव्यः यत् पक्षधर्मस्य साध्यं व्यापकंन।अयंभावः - व्यापकतापरामर्शपक्षे यत्र व्यभिचारादिर्भवति तत्रस कथमुद्भाव्यः ?, यतः पर्वतवृत्तिहेतुव्यापकं न साध्यम् न तु हेतुः साध्यव्यभिचारीत्यादिरूपः। ___ अथ पर्वतवृत्तिधूमव्यापको वह्निरिति परामर्शो यदि तदा पर्वतीयधूमं प्रति व्यापकतायाः पूर्वतधूमसामानाधिकरण्यनैयत्यात्पर्वतवह्निः परामर्शविषयएवेति किमनुमेयमिति चेत्, तर्हि पर्वतीयधूमे नियतसाध्यसामानाधिकरण्यस्य व्याप्यत्वस्यभानंसाध्यसामानाधिकरण्यभाननियतमिति व्याप्यत्वभानेऽपितुल्यम्।यदिचस्मृताव्याप्तिधूमेऽवगम्यते तदा व्यापकत्वेऽपि समानम् / वस्तुतस्तु व्यापकत्वं तद्वन्निष्ठात्यन्ताभावाप्रतियोगित्वम्, न तु धूमसामानाधिकरण्यम्, व्याप्यत्वं तु सामानाधिकरण्यविशेष इति तवैवानुमितिरफला स्यात्। न चैवं परामर्शस्य चाक्षुषत्वं न स्यात् व्यापकस्य विशेष्य