________________ परामर्शनिरूपणम् 129 त्वमन्वयव्यतिरेकाभ्यामेव हेतुत्वं विशिष्टप्रत्यक्षं प्रति / तथा च लौकिकविशिष्टप्रत्यक्षे लौकिकविशेषणसन्निकर्षोऽपि(र्षः एव) कारणमिति वह्नः प्रत्यक्षं न भवति वह्वेरसन्निकर्षादित्याहुः / भवतु तावदेवं तथापि जातिरेव लिङ्गं स्यात् न तु व्यक्तिः, तथा च सर्वोपसंहारेण व्यक्तौ व्याप्तिग्रहार्थं सामान्यलक्षणप्रत्यासत्त्युपादानमफलं स्यात्, दृश्यते च परम्परासम्बन्धज्ञानं विना जातिव्याप्तिमविदुषोऽपि धूमात् वह्नयनुमानम्, न हि व्याप्यतावच्छेदकतयाभासमानस्यावश्यं व्याप्यताग्रहः, मानाभावात्। तस्मात् पक्षधर्मे व्याप्तिविशिष्टज्ञानं तदनन्तरं विशिष्टवैशिष्टयज्ञानं पक्षे वा तृतीयलिङ्गपरामर्शः / अन्ये तु स्वसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं व्यापकत्वम्, तत्सामानाधिकरण्यं च व्याप्यत्वम्, तथा चलाघवात् व्यापकताज्ञानमनुमितिहेतुः, साध्यस्य पक्षधर्मव्यापकताज्ञानं च परामर्शः, न तु साध्यव्याप्तस्य पक्षधर्मताज्ञानं साध्यव्याप्यवत्पक्षज्ञानं वा गौरवात्। अत एव यो योधूमवान् सोऽग्निमान् इत्युदाहरणवाक्ये साध्यायोगव्यवच्छेदेन धूमव्यापकता वह्नरुपदर्श्यते, अन्यथा वह्निमानेवधूमवान् इति अन्ययोगव्यवच्छेदेनोदाहरणशरीरं स्यात्, दोषोऽपि व्यभिचारादिर्न पक्षधर्मव्यापकं साध्यमित्येवोद्भाव्यः / तथापीतिमूलम्। पूर्वमुक्तंधूमत्वव्याप्यत्वपरामर्शादेवानुमितिरित्युक्तम्। तथा चधूमत्वं वह्रिव्याप्तिव्याप्यं धूमवांश्चायमिति ज्ञानद्वयं तदेव परामर्श इति मतं दूषयितुमाह - जातिरेवेति। पर्वतो वह्निमान् धूमत्वात् इत्येव हेतुः स्यात्, तथा चव्यक्तौ व्याप्तिग्रहार्थं पूर्वे सामान्यलक्षणा व्युत्पादिता साऽपि व्यर्था स्यात्, तथाहि धूमत्वसामान्यलक्षणया पूर्वं सकलधूमज्ञानमप्रयोजकं स्यात् / दृश्यते चेति / यस्य परम्परासम्बन्धज्ञानं नास्ति जातिनिरूपितव्याप्तिज्ञानमपि नास्ति तस्यापि धूमात् वह्नयनुमानं भवत्येव / तथाहि धूमत्वं धूमे वर्तते स धूमो वहिव्याप्य इति परम्परासम्बन्धज्ञानं विना वह्नयनुमानं जायते। तत्र व्यभिचारः / जातिनिरूपितं व्याप्तिज्ञानं यथा धूमत्वं वह्विव्याप्यम् इतिरूपम्, एतज्ज्ञानं विनाऽप्यनुमितिसम्भवात् एतत् ज्ञानमनुमितिकारणं न भवति अन्वयव्यतिरेकव्यभिचारात् / ततो धूमत्वात् इति हेतुर्न कर्तव्यः, धूमात् इत्येव वाच्यम् / नैयायिकः स्वमतमुपसंहरति - तस्मादिति / पक्षधर्मस्य व्याप्तिविशिष्टत्वज्ञानं धूमो वह्निव्याप्य इति प्रथमं ज्ञानम् / तदनन्तरं पर्वतवृत्तिधूमें वह्निव्याप्तिः इति द्वितीयम् / व्याप्ति(प्तिः) विशेषणं धूमस्य, तस्या वैशिष्ट्यं पर्वते भासते इति विशिष्टवैशिष्टयरूपं दितीयं पर्वते एव / तदनन्तरं वह्नयनुमितिः इति मूलफक्किकार्थः / पक्षवृत्तिरिति टीका। . महानसे भवति। तदनन्तरं वह्रिव्याप्यधूमवान् इति विशिष्टवैशिष्टयज्ञानं पर्वते तृतीयं परामर्शो वर्तते, अनन्तरम