________________ 128 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका सहेन्द्रियसन्निकर्षोऽपिवर्तते, इति कृत्वालौकिकप्रत्यक्षसामग्रीवर्ततेएव, इति लौकिकप्रत्यक्षमेव वह्निविषयकं भवतुन तु अलौकिकप्रत्यक्षम्, इत्याशङ्कार्थः। तदितरेति। तत्पदेन विशेषणसन्निकर्षः। तदितरसकलानुमितिसामग्रीसत्त्वे पर्वते या अनुमितिर्जायते तत्काले वह्निविशिष्टप्रत्यक्षसामग्रीसत्त्वे अनुमितिसामग्री बलवतीति वक्तुं न शक्यते, प्रत्यक्षसामा या अपि विद्यमानत्वात् / न चेति / इष्टापत्तिः / तत्र प्रत्यक्षमेव भवतु इति न च वाच्यम्, वह्निमनुमिनोमि इत्यनुव्यवसायस्य बाधकत्वात्। समाधानान्तरमुपन्यस्य दूषयति - यत्तु इति। विशेष्यः विषयविशेषोभवति इति कृत्वा तत्सन्निकर्षापेक्षया विशेष्यसन्निकर्षापेक्षयालाघवाविषयसन्निकर्षत्वेनैव कारणता / तथा चविशिष्टज्ञाने विशेषणसन्निकर्षस्यापि कारणताभवतु, उभयविषयकज्ञानत्वात् विशिष्टज्ञानस्य।ततो वढेरसन्निकर्षात् वह्निविषयकंज्ञानं नभवतिइति क(के)चित् तन्नेति दूषयति - एवं हीति। यदि विशिष्टप्रत्यक्षे विषयसन्निकर्षत्वेन कारणता तदा पर्वते वह्रिप्रत्यक्षं भवेदेव, हेतुमाह - पर्वतरूपेति। दूषणान्तरमाह - विशेषणेति / ननु विशेष्यसन्निकर्षस्य कारणता नवाच्यैवेत्यत आह - विशेषणेति।कुत्रापि विशेषणसन्निकर्षे सति विशेष्येण सहयदा सन्निकर्षो नास्ति तदापि विशिष्टप्रत्यक्ष स्यात्। न चैवं ततो विशेष्यसन्निकर्षोऽपि कारणं वाच्य इत्यर्थः / न त्वेवं वक्तव्यं यावद्विषयसन्निकर्षत्वेन कारणता वाच्या। तथा च यत्र विशेष्येण सह सन्निकर्षो नास्ति तत्र यावद्विषयसन्निकर्षाभावात् कारणतावच्छेदकावच्छिन्नता [ना]स्तीति कृत्वा विशेष्यासन्निकर्षस्थले प्रत्यक्षं न भवतीत्यर्थः / एतदिति / यावद्विषयसन्निकर्षापेक्षया विशेष्यसन्निकर्षस्यैव लाघवेन हेतुत्वं वाच्यमित्यर्थः / संसर्गस्येति। पूर्वमुक्तं विशेष्यसन्निकर्षस्यैव लाघवात् कारणत्वम् / अथ वदति यदि यावद्विषयसन्निकर्षत्वेन कारणता तदाभ्रमस्थले व्यभिचारः। तथाहि - संसर्गस्यविशेषणविशेष्ययोः सम्बन्धस्यपूर्वज्ञातस्यभासमानत्वात्, कथम्?, यथा इदं रजतम् इतिभ्रमे रजतं रजतत्वं तत्सम्बन्धोऽपि भासते इदं रजतमितिप्रत्ययात्, तथा च संसर्गेण सहसन्निकर्षाभावात्व्यभिचारः। ततोयावद्विषयसन्निकर्षण कारणतानवाच्याइतिभावः। यावद्विषयसन्निकर्षस्य विशिष्टज्ञानकारणत्वे दूषणान्तरमाह - किञ्चेति। विशेषणसन्निकर्षे विशेष(ष्य)सन्निकर्षे च एकं कारणतावच्छेदकं नास्ति / कुतः ?, इत्यत आह - अलौकिकेति। विशेषणसन्निकर्षः - लौकिकसन्निकर्षः कारणम् क्वचित् अलौकिकोऽपि कारणम् / भ्रमेति। यतो भ्रमे रजतत्वेन सह लौकिकः सन्निकर्षो नास्ति तत्र रजतत्वेन एवंसन्निकर्षः (=अलौकिकः सन्निकर्षः) / विशेष्यसन्निकर्षों लौकिक एव संयोगादिः चक्षुःसहकारी / अन्यथेति / यद्येवं नोच्यते तदा दण्डस्मरणे सति पुरुषास्यापि स्मृतिः वर्तेत / दण्डीति चाक्षुषबुद्धिः कुतो न भवेदिति [63 B] पुरुषेण सह ज्ञानलक्षणसन्निकर्षस्य विद्यमानत्वात् / ततो लौकिक एव सन्निकर्षः विशिष्टलौकिकप्रत्यक्ष प्रति कारणम् इति सिद्धम् / असंसर्गाग्रहदशायामिति / यदा दण्डपुरुषयोः संसर्गाग्रहो नास्ति यथा नायं दण्डी इतिरूपः तदा दण्डस्मरणं वर्ततेऽथ च पुरुषेण सह सन्निकर्षो वर्तते दण्डो व्यवहितः तत्र दण्डीति [चाक्षुषाबुद्धिर्न भवतीति सर्वजनसिद्धम् इति कृत्वा विशेषणसन्निकर्षस्यापि लौकिकस्यैव कारण