________________ परामर्शनिरूपणम् 127 धूमत्वावच्छेदेन वह्रिमत्त्वं ज्ञातं सामान्यलक्षणया यथा यो धूमवान् सोऽग्निमान् इति, तदनन्तरं पर्वते वह्निः भासते / ननु पूर्वं विशिष्य ज्ञानं नास्तीति कृत्वा कथं पर्वते तद् भासते इत्यत आह - विशिष्येति टीका / तथा च विशिष्य ज्ञानमप्रयोजकम्, ज्ञानमात्रं कारणम्। अन्यथेति टीका। यदि वह्निमात्रं व्याप्तिप्रत्यक्षे प्रयोजकं तदा पर्वतीयधूमेऽपि व्याप्तिप्रत्यक्षं न स्यात् इत्यर्थः / [62 B] आशङ्काकार एव स्वाभिप्रायं विशदयति - वस्तुत इति टीका / यदवच्छेदेन यो धर्मो वह्निमत्त्वधर्मो ज्ञातः तदवच्छेदेन धूमवत्त्वावच्छेदेन वह्निमत्त्वज्ञानम्, वह्निमत्त्वोपनयसामग्री इयम्, तथा चधूमत्वेन ज्ञातो यः पर्वतस्तत्र वह्निमत्त्वोपनयो भविष्यत्येव।वह्निप्रत्यक्षज्ञानं ज्ञानरूपप्रत्यासत्त्या भविष्यतीत्याशङ्कार्थः / ज्ञानेति टीका / अतस्त्वया ज्ञानलक्षणया प्रत्यासत्त्या वह्निप्रत्यक्षमापद्यते, तदुपनयः स्यात् इत्यापादनं यथा कृतं तदलौकिकमेव वह्रिप्रत्यक्षं भविष्यति / न चेति टीका / तत्सामग्री अलौकिकसामग्री सा प्रमाणान्तरप्रवृत्तेः प्रतिबन्धिका न भवति / तत्र युक्तिमाह - समान इति / अलौकिकप्रत्यक्षसामग्र याः समाने विषये अनुमित्यादिसामा यपेक्षया दुर्बलत्वात् / अन्यथेति टीका / सर्वत्र कस्यचिदलौकिकप्रत्यासत्तेः सत्त्वात् अलौकिकमेव प्रत्यक्षं स्यात् न तु अनुमित्यादिरिति दुर्बलत्वात् तस्याः इत्यर्थः / यस्यैवालौकिकप्रत्यक्षं तस्यैवानुमितिरिति समानविषयत्वम् / वढेरिति / प्रमाणान्तरसामा या बलवत्त्वमेवोपपादयति।शब्देति टीका। यद्यलौकिकप्रत्यक्षसामा यपेक्षया प्रमाणान्तरसाम या बलवत्त्वं नास्ति तदा शाब्दज्ञानस्थले कविकाव्यमूलीभूतमानसवत् मनसैव संसर्गप्रत्यक्षं भविष्यति, शब्दप्रमाणमप्रयोजकं स्यात् इत्यर्थः / बलेति टीका।अलौकिकप्रत्यक्षसामण्यपेक्षया प्रमाणान्तरसामा या अनुमानादिप्रमाणसामा याः फलबलेन बलवत्त्वं सिद्धमित्यर्थः / शङ्कते - यद्यपीति टीका। करादिभ्रमात् संशयोत्तरपुरुषप्रत्यक्षभ्रमो जायते यथा पुरुष एवायमिति, [सभ्रमो] न स्यात् / तत्र हेतुमाह - तस्येति / भ्रमस्येत्यर्थः / यथेदं रजतमिति ज्ञानमिदमंशे लौकिकम् रजतांशेऽथालौकिकम्, लौकिकसन्निकर्षाभावात् अलौकिकसन्निकर्षः, रजतस्मरणमितिवत्प्रकृतेऽपिप्रत्यक्षभ्रमः कथं भवेत् ?; अलौकिकप्रत्यक्षसामग्र यादुर्बलत्वात्। ततोऽलौकिकसामा यपि बलवतीतिवाच्ये धूमभ्रमात् वहिप्रत्यक्षम् अलौकिकप्रत्यासत्त्या भविष्यति, न तु भ्रमरूपा अनुमितिः इत्याशङ्कार्थः / समाधत्ते - तथापीति / फलबलात् अनुमितित्वम्, अप्रत्यक्षभ्रमरूपफलबलात् / तत्र अदोषस्यैव बलवत्त्वम् न तु अलौकिकप्रत्यक्षसामग्याज्ञानादिरूपायाः, ततः एकत्रभ्रमानुमितिः अपरत्रभ्रमपुरुषप्रत्यक्षम् तत्रापिपुरुषस्य लौकिकप्रत्यक्षत्वम् / तस्मादिति टीका।वह्नः प्रत्यक्षानुमित्योर्विषयत्वे तुल्ये लौकिकप्रत्यक्षसामा या इन्द्रियसन्निकर्षरूपाया बलवत्त्वात् वढेः ज्ञानं प्रत्यक्षमेव परं नानुमितिः स्यात् इति मीमांसकाभिमतम् / न लौकिकेति टीका।लौकिकं यत् वह्रिविषयं प्रत्यक्षं तत्सामग्री नास्ति। तत्र हेतुमाह - वढेरिति। लौकिकप्रत्यक्षोपायं शङ्कते - नन्विति / यदुक्तं त्वया लौकिकं प्रत्यक्षं वह्निविषयकं न भवति तत्रोच्यते - विशेषणसन्निकर्षस्य कारणतायांप्रमाणं नास्ति, किन्तु [63AJविशिष्टज्ञाने विशेषणज्ञानमपेक्ष्यते तत् तु वर्तते एव यथा वह्निरूपविशेषणज्ञानं वर्तते, विशेष्यः पर्वतस्तेन