________________ 126 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका सत्त्वात्। एकैवेतिः।यापूर्वं महानसेप्रत्यक्षेण गृहीतासापर्वतवृत्तिधूमे स्मर्यते। तथा चव्याप्तिधूमयोरसंसर्गाग्रहो वर्तते / अथ च धूमत्वरूपविशेषदर्शनं वर्तते / अथ च व्याप्तिविशिष्टो यो धूमस्तेन सममिन्द्रियसन्निकर्षोऽपि वर्तते / ततो व्याप्तिः प्रत्यक्षेणैव गृह्यत इत्यर्थः / वढेः पुनर्विशिष्टसामग्री नास्ति, लौकिकसन्निकर्षस्य तेन सहाभावात् / ततो वह्निप्रत्यक्षज्ञानं न स्यात् / धूमत्वे यत्परम्परासम्बन्धेन धूमघटितसम्बन्धेन वह्निव्याप्यत्वं गृहीतमभूत् तत्संस्कारोपनीते पर्वतवृत्तिधूमत्वे तस्य वह्निव्याप्तिव्याप्यत्वस्य प्रत्यभिज्ञानं जायते, तदेतत् पर्वतवृत्तिधूमत्वं वह्निव्याप्तिव्याप्यमिति परामर्शात् प्रत्यभिज्ञानरूपात्धूमत्वव्याप्यत्वपरामर्शात् अनुमितिरिति केचित् प्राञ्चः / [62 A] अन्ये त्विति टीका / धूमत्वावच्छेदेन उपनी(ने)या व्याप्तिः यथा महानसे ज्ञाता साऽत्र पर्वते भासते इत्युपनेया व्याप्तिः, ततो धूमत्वस्य दर्शनं विशिष्टप्रत्यक्षे कारणमित्यभिप्रायेण विशेषदर्शनमित्युक्तं मूलकारण, परं संशयाद्युत्तरप्रत्यक्षाभिप्रायोणेति न व्याचक्षते / तथा च विशेषदर्शनं धूमत्वदर्शनम्, तदपि कारणमित्यर्थः व्याप्तिविशिष्टेति टीका / व्याप्तिविशिष्टो धूमः / तेन समम् इन्द्रियार्थसन्निकर्षः कारणम्, न तु व्याप्त्या समम् इन्द्रियार्थसन्निकर्षाभावात्। कथं तद्विशिष्टप्रत्यक्षमित्यन्यथाव्याचष्टे - व्याप्त्यापीति।व्याप्ते(प्तेः) ननो(नाना)पदार्थः(र्थ)घटितत्वात् अतीन्द्रियत्वेऽपिज्ञानलक्षणा प्रत्यासत्तिः ज्ञानमेव व्याप्ते(प्तेः) प्रत्यासत्तिरस्ति इत्यर्थः / वह्वेरिति टीका। ननुअलौकिको ज्ञानलक्षणसन्निकर्षो भवतीत्यत आह - संयोगेति।शङ्कते - नन्विति। त्वयोक्तं व्याप्त्या सहेन्द्रियस्य ज्ञानमेव प्रत्यासत्तिरित्युक्तम्, तत्राशङ्कते लौकिकसन्निकर्षो व्याप्तौ भविष्यतीत्यादि इति / शङ्कते - न चेति। सामानाधिकरण्यं समानेनाधिकरणेन सम्बन्धः, सच संयोगादिः यथा चक्षुःसंयुक्तो धूमः, तत्र संयोगस्य समवेतत्वात्, इति कृत्वा व्याप्त्या समं संयुक्तसमवायो लौकिकः सन्निकर्षो भविष्यति इत्याशङ्कार्थः / न हीति / संयोगादिकं व्याप्तिर्न भवति / आदिशब्दात् समवायः, यथा अयं गौर्गोत्वात् इत्यत्र समवायः, गोगोत्वयोः समवायसम्बन्धात् / कुतः संयोगादिकं न व्याप्तिः ?, इत्यत आह - किन्त्विति / साध्यादयो ये नानापदार्थाः तद्विशिष्टा कथं व्याप्तिः ? यथा व्याप्तिलक्षणे अत्यन्ताभावसाधनसाध्यावच्छेदकप्रतियोगि]नानापदार्थाः प्रविष्टाः सन्ति। तत्र नानापदार्था विशेषणानि सन्ति / विशिष्टेति / नानापदार्थविशिष्टेन संयोगेन संयुक्तसमवायोन सम्भवति। अयमर्थः - यदि केवलवहिसंयोगो व्याप्तिर्भवति तदा तस्यधूमसमवेतत्वेन चक्षुषा संयुक्तसमवायः सम्भवति, परमनेकपदार्थविशिष्टसंयोगोऽतीन्द्रियः तेन समं संयुक्तसमवायो ग्रहीतुं न शक्यते, इति कृत्वा व्याप्तिग्रहे ज्ञानमेव प्रत्यासत्तिः / न चेति टीका / साध्यादीनि विशेषणानि प्रत्यक्षाणि न सन्ति इति नानापदार्थविशिष्टव्याप्तिः संयोगात्मिका न सम्भवति इत्यर्थः / व्याप्ताविति टीका / लौकिको वा सन्निकर्षोऽलौकिको वा व्याप्तावस्तु, परं वह्नौ ज्ञानमेव प्रत्यासत्तिरस्तु इति सिद्धान्तः / मध्ये शङ्कते - न चेति / पर्वते पूर्वं वर्ज्ञानं नास्ति, ततः तदुपनीतभानं वयुपनीतभानं तत्र कथं स्यात् इत्याशङ्कार्थः / सामान्येति /