________________ परामर्शनिरूपणम् 125 व्यभिचारज्ञानाभावे सति इत्युक्तं मूले। परं वह्नः प्रत्यक्षज्ञानं नभवति, तेन समं लौकिाकावह्निविषयप्रत्यक्षसामग्री नास्तीति मीमांसकशङ्कार्थः / न च विशिष्येति अत्र विशिष्य'पदकृत्यमाह टीकाकार: - सामान्यलक्षणया प्रत्यासत्या वह्नित्वेन वह्निज्ञानं वर्तते, परं विशिष्य पर्वतीयवह्नित्वेन वह्रिज्ञानं नास्तीति टीकार्थः / हेत्विति मूलम् / प्रत्यक्षेण व्याप्तिग्रहस्तदा भवति यदि हेतुसाध्ययोः साक्षात्कारो भवति। तथा च प्रत्यक्षेण व्याप्तिग्रहो 'न सम्भवतीत्यर्थः। न च पर्वते वह्निसाक्षात्कारः, न च पक्षधर्मस्य साध्यसामानाधिकरण्यविशेषो व्याप्ति: पक्षे साध्यग्रहं विना, इत्युक्तम् / उच्यते / विशेषणज्ञानं तस्य विशेष्ये सम्बन्धस्तयोरसंसर्गाग्रहो विशेषदर्शनं विशेषण-विशेष्येन्द्रियसन्निकर्षो गौरयमित्यादियथार्थविशिष्टप्रत्यक्षकारणम्, अस्ति चात्रापि व्याप्तिस्मरणं स्मृतव्याप्तेः पक्षवृत्तिधूमे सत्त्वम् एकैवहिसाव्याप्तिः तयोरसंसर्गाग्रहोधूमत्वविशेषदर्शनं व्याप्तिविशिष्टधूमेन्द्रियसन्निकर्षश्च व्याप्तिविशिष्टज्ञानकारणम् / न च वह्निविशिष्टज्ञानसामग्री, वढेरसन्निकर्षात्। कश्चित्तुधूमत्वेपरम्परासम्बन्धेन वह्निव्याप्यत्वंपूर्वगृहीतं तथाचसंस्कारोपनीतं वह्निव्याप्यत्वं परम्परासम्बन्धेन पक्षवृत्तिधूमत्वेप्रत्यभिज्ञायते तद्वृत्तित्वेन पूर्वमनुभवात्, एवं च धूमत्वव्याप्यत्वपरामर्शादेवानुमितिरिति प्राह। .. न चेति मूलम् / पक्षधर्मस्य धूमस्य साध्येन सहाव्यभिचरितसामानाधिकरण्यं हेतोर्व्याप्तिः, सा च पक्षे साध्यग्रहव्यतिरेकेण ग्रहीतुं न शक्यते, साध्यस्य व्याप्तिनिरूपकत्वात् इत्यर्थः / स्यादित आरभ्य एतावत्पर्यन्तं मीमांसकपूर्वपक्षः / उच्यत इति नैयायिकेनेति शेषः / प्रथमतो विशिष्टज्ञानसामग्री सामान्यत उपपादयति / विशेषणेति / विशेषणज्ञानं कारणं तस्येति गोत्वस्य विशेष्ये सम्बन्धः समवायः, तयोर्गोगोत्वयोरसंसर्गग्रहाभावोऽसंसर्गाग्रहः, प्रतिबन्धो यथा गोत्वं गवि नास्ति इति ज्ञानं भ्रमरूपं तदभावोऽसंसर्गाग्रहो विशिष्टप्रत्यक्षे कारणम्, एतत् त्रयं प्रत्यक्षसामान्ये कारणम्।संशयोत्तरविशिष्टप्रत्यक्षे तुविशेषदर्शनमपि कारणमित्यभिप्रायेणाह - विशेषदर्शनमिति / विशेषणं गोत्वम्, विशेष्या गौः, ताभ्यामिन्द्रियसन्निकर्षः, सोऽपि विशिष्टप्रत्यक्षे इदंघा(वा)ची(चि)तामताभिप्रायेण, वस्तुगत्या विशेषणज्ञानमेव कारणं विशिष्य सन्निकर्षेण तस्यान्यथासिद्धत्वादिति ज्ञेयम् / यथार्थेति मूलम् / भ्रमे विशेषणविशेष्यसम्बन्धाभावात् / यत्र शुक्तौ रजतत्वारोपस्तत्र शुक्तौ रजतत्वस्य सम्बन्धाभावात् यथार्थविशिष्टेति पदम् / अस्ति चेति मूलम् / अत्रापि धूमवह्निस्थलेऽपि व्याप्तिस्मरणं वर्तते। विशेषणं व्याप्तिः, विशेष्यो धूमः, तयोः सम्बन्धमपि वर्तते, पर्वतवृत्तिधूमे स्मृतव्याप्तेः