________________ 124 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका तदनन्तरं धूमविशेषे पर्वतधूमादौ संस्कारेण मतभेदेन [61 A] स्मरणेन वा उपनीतं यद्व्याप्यधूमादिकं तदभेदग्रहः सम्भवतीति। यथा प्रत्यभिज्ञाने तत्ताविशिष्टस्याभेदग्रहः संस्कारेण मतभेदेन स्मरणेन वा भवति तथा प्रकृते धूमो वह्रिव्याप्य इति धूमत्वेन सकलधूमे व्याप्यता गृहीता सैव धूमविशेषे वह्निनिरूपिता संस्कारेण स्मर्यते इत्याशङ्कार्थः / एवं हीति मूलम् / यदि पूर्वोक्तकल्पनया व्याप्याभेदग्रहस्तदा सामान्यतो धूमवत्त्वेन वह्रिमत्त्वे ज्ञाते धूमवद्विशेषे पर्वतादौ संस्कारवशात् व्याप्तिज्ञानापेक्षं यत्प्रत्यक्षं तेनाभेदग्रहो वह्रिमदभेदग्रहः पर्वतस्य अथवा वह्रिमत्त्वं वा गृह्यते, इत्येवास्तु किमनुमानप्रयोजनमित्यर्थः / मतभेदेनेति टीका / केषाञ्चिन्मते तत्र स्मृतिः प्रत्यभिज्ञानं प्रति कारणम्, केषाञ्चिन्मते तत्र संस्कार: कारणम्, इति संस्कारात् वा स्मरणात् वा इति मतभेदेनेति मूलकारेणोक्तम् / मध्ये शक्य(क)ते - पृथगिति मूलम् / स्वातन्त्र्येण वह्रिमत्त्वस्मरणं तत्र नास्ति किन्तु व्याप्यतावच्छेदकत्वेन वह्नः स्मरणं यथा धूमो वहिव्याप्यः तदवच्छेदको वहिर्यतो धूमत्वावच्छेदेन वह्निमत्त्वं . . ज्ञातम्, पर: (2) किमवच्छेदेनधूमवत्त्वं गृह्णाति ? वह्रिमत्त्वावच्छेदेनेति वहिरवच्छेदकः ।मध्ये शङ्कते-नचेति / विशिष्टज्ञाने स्वतन्त्रविशेषणज्ञानत्वेन वह्निमत्त्वस्मरणस्य कारणता, मम मते तत्कारणं स्वतन्त्रवहिमत्त्वस्मरणं प्रकृते नास्ति / यतो धूमवत्त्वावच्छेदेन वह्रिमत्त्वज्ञानात् वह्रिमत्त्वस्मरणं व्याप्यतावच्छेदकतयोपस्थितं परं स्वातन्त्र्येणोपस्थितं नास्तीति कृत्वा कथं वह्निमदभेद इति। न चवाच्यमित्यनेनान्वयः। गौरवादिति। लाघवात् विशिष्टज्ञाने स्वतन्त्रविशेषणज्ञानस्य विशेषणज्ञानत्वेन कारणता, न तु स्वतन्त्रविशेषणज्ञानत्वेन गौरवात् / उपलक्षणमिति टीका / प्रामाण्यसंशयानन्तरम् अर्थसंशयो जायते, यथा पूर्वम् इदं ज्ञानं प्रमा न वा इति ततः प्रामाण्यसन्देहात् घटसन्देहो जायते अयं घटो न वा इति। तत्र व्यभिचारः, तत्रघटत्वतदभावकोट्योः स्वातन्त्र्येण स्मरणं नास्ति किन्तु प्रामाण्यावच्छेदकतयैवेति कृत्वा व्यभिचारादपि स्वतन्त्रविशेषणज्ञानं विशिष्टज्ञाने कारणं भवतीति टीकार्थः / तत्तेति। यथा तत्ता पूर्वं घटे स इति तत्ताऽवगता तदनन्तरं यथार्थप्रत्यक्षे प्रत्यभिज्ञानरूपे तत्ता भासते तथा पर्वते विशेषाकारेण पूर्वं वह्निातो नास्ति येन वह्निमत्त्वग्रहे कथं वह्निर्भासते। अत एवेति। यस्मिन् चन्दनखण्डे पूर्वघ्राणेन सौरभंज्ञातमस्तितत्रसंस्कारवशात् सुरभि चन्दनमितिज्ञानं चक्षुषा जायते, चन्दनखण्डान्तरे त्वनुमानात् इदं चन्दनखण्डं सुरभि चन्दनत्वात् खण्डान्तरवत्। तथा च पर्वते वह्रिमत्त्वग्रहो न सम्भवति पूर्वं तत्रैव विशिष्य व्याप्तेर्ग्रहो नास्ति इत्याशङ्कार्थः। तीतिमूलम्। पर्वतवृत्तिधूमेऽपि व्याप्तिर्विशेषाकारेणावगता नास्ति यथा पर्वतवृत्तिधूमो वह्रिव्याप्य इति पुरा विशिष्य व्याप्तिः प्रत्यक्षेण गृहीता न, अतः संस्कारेण तदीयेन कृत्वा व्याप्तिबोधः प्रत्यक्षः कथं भवति?, पुरा विशिष्यव्याप्तेरग्रहात् इत्यर्थः।मध्ये शङ्कते - नचेति।पूर्वधूमवह्नयोः सहचारो महानसे गृहीतोऽभूत्, ततः सहचारज्ञानेन संस्कारो जनितः, [61 B] तेन सहकृतं यत् इन्द्रियं चक्षुः तेन व्यभिचारज्ञानाभावे सति यथा महानसीयधूमे व्याप्त्यवगमः प्रत्यक्षेण भवति तथा पर्वतीयधूमेऽपि व्याप्तिग्रहः संस्कारसहकृतचक्षुषैव भविष्यति यतो व्यभिचारज्ञानासहकृतं यत् सहचारदर्शनं तदेव व्याप्तिग्राहकमिति कृत्वा