________________ 123 परामर्शनिरूपणम् तस्य व्यापारत्वमेव [न] सम्भवति। ननु तर्हि उपनयस्य व्यापाराभावे कथं सहकारितेत्यत आह - सहकारिता चेति। एतदेवोपपदायति। बहिरिति। बहिरिन्द्रियस्य चक्षुरादेः अथ चानुमानस्य सादृश्यस्य यत्र व्यापारो नास्ति तत्रापि चिन्ता विचारः, तदुपनीता ये पदार्थाः तेषां मनसैव सम्बन्धानुभव भवति, तत्र व्यापारो नास्ति, तत्र करणं मनः सहकारिकारणं चिन्ता, तस्या व्यापारो नास्ति तथापि तस्याः सहकारित्वं मनसि अस्ति इति भावः / अन्यथेति / यदि व्यापारवत्त्वाभावे सहकारित्वमपि नाङ्गीक्रियते तदा कविकाव्यादिकं कथं स्यात् ? तत्र चिन्तोपनीतपदार्थानां संसर्गानुभवो जायते इति। चिन्ता सहकारिणी मनस इति सा न प्रमाणम्। तथा उपनयोऽपि न प्रमाणमिति निष्कर्षः। स्यादेतत् पक्षधर्मस्य व्याप्यताज्ञानं नेन्द्रियेण वढेरसन्निकर्षे तन्नियतसामानाधिकरण्यस्य व्याप्यत्वस्यायोग्यत्वात्।नचधूमत्वेन सकलधूमव्याप्यतावगमात्धूमविशेषे संस्कारात् स्मरणात्वाउपनीतव्याप्याभेदग्रहः प्रत्यभिज्ञाने तत्ताविशिष्टस्येवेति वाच्यम् / एवंहिधूमवत्त्वेनवह्निमत्त्वज्ञानात्धूमवद्विशेषेपर्वते संस्कारवशात्प्रत्यक्षेण व्याप्तिज्ञानापेक्षेण वह्निमदभेदग्रहो वह्निमत्त्वग्रहो वास्तु किमनुमानेन, पृथक् वह्निमत्त्वस्मरणं तत्र नास्ति किन्तु व्याप्त्यवच्छेदकतयेति चेत् / न / वह्निमान् न वा इति संशयानुरोधेन स्वतन्त्रवह्निमत्त्वस्मरणात्।नचविशिष्टज्ञाने स्वतन्त्रविशेषणज्ञानत्वेनहेतुत्वम्, गौरवात् / अथ यो यत्र विशिष्य पूर्वमवगतः स तत्र संस्कारवशात् यथार्थप्रत्यक्षे भासते यथा तत्ताप्रत्यभिज्ञाने, न च पर्वते विशिष्य पुरा वह्निरवगतः, यत्र चन्दने सौरभमुपलब्धं तत्र संस्कारवशात् चक्षुषा सुरभि चन्दनम् इति ज्ञानम् अन्यथा अनुमितिरिति चेत्, तर्हि पक्षधर्मधूमेऽपि न पुरा विशिष्य व्याप्तिरवगतेति कथं संस्कारवशात् तद्तव्याप्तिबोध: प्रत्यक्षेण / न च सहचारदर्शनजन्यसंस्कारसहितेनेन्द्रियेण व्यभिचारज्ञानाभावे सति महानसीयधूमवत् पर्वतीयधूमे व्याप्त्यवगमो वह्नस्तु न प्रत्यक्षसामग्री सन्निकर्षाभावात् इति वाच्यम्, हेतुसाध्यसाक्षात्कारं विना प्रत्यक्षेण व्याप्त्यग्रहात् / - मीमांसकः शङ्कते - पक्षधर्मस्येति। धूमस्य व्याप्यताज्ञानं यथा धूमो वह्रिव्याप्य इतिरूपं नेन्द्रियेण ग्रहीतुं शक्यते, वह्वेरसन्निकर्षात् - यतो व्याप्यत्वं व्याप्तिः, तन्निरूपको वह्निः, तस्य सन्निकर्षो नास्ति -, इति तन्नियतसामानाधिकरण्यम् अपि अप्रत्यक्षम् इत्यर्थः / नचेति मूलम्। धूमत्वेन सकलधूमानां व्याप्यताऽवगता,