________________ 122 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका बाधकानवतारे मनसा संसर्गानुभवस्य सकलजनसिद्धत्वात् कथमन्यथा कविकाव्यादिकमिति। न चासनिकृष्ट इति मूलम् / असन्निकृष्टे धूमे तदभावः परामर्शाभावः व्याप्तिप्रत्यक्षाभावात् इत्या-. शङ्कार्थः / भवन्मते इति मूलम्। मीमांसकमते।व्याप्तिस्मरणं यथासधूमो वहिव्याप्यः इति रूपम्, तत्सहकृतं यन्मनः तेनैव, धियाऽसन्निकृष्टे स्थले परामर्शोत्पादः, दृष्टान्तेनोपपादयति- यथेति।अत्रनिरवयवत्वानुमानेन अथ द्रव्यत्वानुमानेन नित्यपरिमाणवत्त्वानुमानेन वा उपनीते ये अतीन्द्रिये साध्यसाधने तयोराकाशवृत्तितया स्मरणं जातम्, तदनन्तरं व्याप्त्यनुभवो मनसा।तथा इन्द्रियासन्निकृष्टस्थलेऽपिव्याप्त्यनुभव इत्यर्थः। अनुमानयोरितीति टीका / साध्यसाधनानुमानयोः प्रत्येके सहचारो विषयो नास्तीति व्याप्तिग्राहकता न सम्भवति / तथाहि. साध्यानुमानं यथा रूपं निरवयवं गुणत्वात् घटो द्रव्यं पृथिवीत्वात् इत्यनुमानाभ्यां द्रव्यत्वनिरवयवत्वे विशकलिते सिद्धे / ततो विशिष्टं निरवयवद्रव्यत्वं परमाणौ साध्यते। साधनानुमानं यथा आकाशं नित्यपरिमाणवत् नित्यसङ्ख्यावत्त्वात्, अनेन नित्यपरिमाणवत्त्वं सिद्धम्, तेन निरवयवद्रव्यत्वं परमाणौ साध्यते।अनयोरनुमानयोः प्रत्येके साध्यसाधनयोः यः सहचारः सविषयो नास्ति। कथम् अनुमाने नु साध्यसाधने एव विषयौ ? / सइदमिति टीका। सहचारविषयत्वम् अभिप्रायः सम्भवति। यदा एकस्य साध्यं द्वितीयस्यान्यतरस्य पक्षतावच्छेदकं कृतम् तत्रानुमानेनापि सहचारग्रहः सम्भवति, [60 B] यथा निरवयवः द्रव्याकाशः नित्यपरिमाणवान् भवितुमर्हति नित्यसङ्ख्यावत्त्वात् अत्र निरवयवद्रव्यत्वं पक्षतावच्छेदकाम्] साध्यं नित्यपरिमाणवत्त्वम्, अनेनानुमानेनापि साध्यसाधनयोः सहचारग्रहः सम्भवति इत्यर्थः / नचेति मूलम्।अतीन्द्रियव्याप्यत्वंसाध्यम् अतीन्द्रिये हेतौ अनुमेयम् यथा नित्यपरिमाणवत्त्वं निरवयवत्वव्याप्यनित्यपरिमाणत्वात् / तथा चानुमानेन साध्यसाधनयोः व्याप्तिग्रहो भविष्यतीति न वाच्यम् इत्याशङ्कार्थः / युक्तिमाह - तत्रापीति मूलम्। व्याप्यत्वानुमानेऽपि व्याप्तिग्रहः केन भविष्यति? अनुमानान्तरेण चेत् अनवस्था, प्रत्यक्षस्यानवकाशत्वात् अतीन्द्रियत्वात् तयोरित्यर्थः / न चैवमिति / तत्तदुपनयः साध्यसाधनोपनयः, स चानुमानेन पूर्वं दर्शिीतः], तेन सहितस्य तत्सहितस्य [मनसः] बहिरर्थप्रमाजनकत्वे उपनयस्य प्रमाणान्तरत्वापत्तिरिति आशङ्कार्थः / इन्द्रियादेरिति मूलम् / यथा इन्द्रियादेः सन्निकर्षाख्यो नियतो व्यापारोऽस्तिं तद्वत् उपनयस्य व्यापारो नियतो नास्तीति प्रमायाम(यां) करणत्वं न सम्भवति इत्यर्थः / नियतेति टीका। एतन्नियतकथनं यत् तत् स्वरूपमात्रकथनम् / तदेवाह - अनियतस्य व्यापारत्वाभावात् / अस्यार्थोऽयम् - यं जनयित्वैव यत् जनयति तस्य तं प्रति व्यापारता यथा चक्षुः सन्निकर्षं जनयित्वैव ज्ञानं जनयति, ज्ञाने जनयितव्ये चक्षुषो व्यापार: सन्निकर्षः, तथा चायं नियतोऽस्ति। तद्वत् उपनयस्यान्यो नियतो व्यापारो नास्ति। अनियतः चेत्, तदा