________________ परामर्शनिरूपणम् 121 यदि तर्कितं गौरवं प्रतिबन्धकं तदा प्रकृतेऽप्येवं स्यात्। यद्यत्र कर्मधारयः स्यात् तदा शूद्रस्य विद्याप्रयुक्तिकल्पना स्यात् / इति तर्कितगौरवप्रतिसन्धानेन शूद्रस्य विद्याप्रयुक्तिकल्पना स्यात् / कैवम् ? सा च शूद्रस्यापि परसिद्धन्ते मीमांसकसिद्धान्ते विद्या क्लृप्ताऽस्ति। ततस्तर्किते सम्भावनात्मकंगौरवं नदोषाय।अयमत्रार्थः - मीमांसकमते निषादस्थपत्यधिकरणे तर्कितं गौरवं न दोषाय / तथा ममापि मतेऽत्र तर्कितं गौरवं न दोषाय इत्यर्थः / एतेनेति निरस्तमिति अनेनान्वयः। [60 A] अन्यदपि व्याप्यत्वप्रकारकं तु अवच्छेदकं तत्तु पूर्वपक्ष(क्षं) यादा लध्विति भावः / शङ्कते - नन्विति। सामान्येन रूपेण यावत् कारणता सम्भवति तावदन्येन रूपेण कल्पते। सामान्येनैव कल्पना यथा कर्तृजन्यतावच्छेदकं कार्यत्वं कल्प्यते न तु घटत्वादिकं सामान्य जातिरूपं तथा प्रकृतेऽपि उभयसाधारणं यत् पूर्वोक्तम् अवच्छेदकं रूपं तेनैव कारणता अस्तु न तु व्याप्यत्वप्रकारकत्वेन विशिष्टज्ञानमात्रकारणतावच्छेदकेन कारणात्वामित्याशङ्कार्थः / उत्तरयति - दृष्टान्तदाान्तिकयोर्विरोधात्। तत्र घटत्वादीनां कर्तजन्यतावच्छेदकत्वें कल्प्यमाने तेषामानन्त्यात् तेन तेन रूपेण कारणताकल्पनमनुचितं प्रकृते तु व्याप्यत्वप्रकारकत्वस्यानन्त्याभावात् तदवच्छेदकात्वामदुष्टमेवेत्यर्थः / यत्रेति टीका / अत्र विशेषोऽपि धर्म एकोऽस्ति अथ च लघुभूतः, तत्र सामान्यस्य गुरुभूतस्यावच्छेदकता नास्ति। यथा आख्यातवाच्यतावच्छेदकं यत्नत्वं वा व्यापारत्वं वा / यत्र यत्नत्वमेव आख्यातवाच्यतावच्छेदकं लघुभूतमेकं चेति कृत्वा, व्यापारत्वम् उपाधिरूपं नानापदार्थघटितत्वात्वाच्यतावच्छेदकंशक्यतावच्छेदकंन भवति। यत्नत्वं तु विशेषः तस्य चेतनमात्रनिष्ठत्वात् / व्यापारस्तु चेतनाचेतनसाधारणो यथारथोगच्छति इत्यत्रापिव्यापारोऽस्ति, न यत्नः। ननु तर्हिरथो गच्छतीत्यादौ गग(म)नानुकूलयत्नाभावात् कथमाख्यातवाच्य(ता) यत्नस्येति चेत् न, गमनानुकूलव्यापारे लक्षणावृत्तिर्न तु शक्तिः / .. न चासनिकृष्टे धूमे तदभावः, भवन्मते अनुमितिहेतुव्याप्तिस्मरण-धूमत्वज्ञानसहितेन मनसा तदुत्पादात् यथा परमाणुर्निरवयवद्रव्यं नित्यपरिमाणवत्त्वात् आकाशादिवत् इत्यादौ प्रत्येकानुमानोपनीतातीन्द्रियसाध्य-साधनयोराकाशवृत्तितया स्मरणे व्यभिचाराज्ञाने मनसा व्याप्त्यनुभव: अनुमानयोः प्रत्येकतदुभयसहचाराविषयत्वेन व्याप्त्यग्राहकत्वात् / न चातीन्द्रियव्याप्यत्वमतीन्द्रियेऽनुमेयम्, तत्रापि व्याप्तिग्राहकाभावात् / न च तदुपनयसहितस्य मनसो बहिरर्थप्रमाहेतुत्वे उपनयस्य प्रमाणान्तरत्वम्, इन्द्रियादेः सन्निकर्षवदुपनयस्य नियतव्यापाराभावेन प्रमायामकरणरत्वात्, सहकारिताच तदभावेऽपि भवति बहिरिन्द्रियलिङ्गसादृश्यादिव्यापारं विनापि चिन्तोपनीतपदार्थानां