________________ 120 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका लाघवाद् व्याप्यत्व(त्वे)न त्वेव पक्षधर्मताज्ञानस्य कारणता वाच्येति स्पष्टोऽर्थः / तदेवेति टीका / कारणताग्राहकं प्रमाणम् अन्वयव्यतिरेकसहकृतं प्रत्यक्षं कथं गौरवात् प्रथमं प्रवर्तते इत्यर्थः / कारणतेति मूलम् / यदा विशिष्टज्ञानस्य कारणता ग्राह्या तदा गौरवं सिद्धं वाअसिद्धं वा। सिद्धं चेत्, तदा विशिष्टज्ञानकारणताग्रहमुपजीव्य प्रवृत्तं गौरवं कथं कारणताया भञ्जकं स्यात् उपजीव्यविरोधात् / विशिष्टज्ञानं तु उपजीव्य प्रवृत्तं गौरवं कथं तन्नाशकं स्यादिति / गौरवमसिद्धं [ चेत् ], तदा विशिष्टज्ञानस्य कारणता सुतरां सिद्धैव / ‘फलमुख'पदस्य व्याख्यानमाह - विशिष्टज्ञानेति टीका / अन्वयव्यतिरेकावेव विशिष्टज्ञानस्य कारणताग्राहकौ / ततो विशिष्टज्ञानस्य कारणताग्रहः फलम् / तन्मुखस्येत्यस्य व्याख्यामाह - उपस्थितबीजम् / तन्मुखमुपस्थापकं यस्य [उपास्थितिजनकं यस्य गौरवस्य तत् तथा / तथा च कारणतायां गृह्यमाणायां गौरवस्योपस्थितिर्भवति, नान्यथेत्यर्थः / [59B] फलितार्थमाह - तथा चेति टीका ।यदा विशिष्टज्ञानस्य प्रतिपादनम् अनुमितिकारणतायां तदा गौरवम् / ततो विशिष्टज्ञानप्रतिपादनगौरवसिद्धौ गौरवज्ञानस्य कारणताग्रहे प्रतिबन्धकता न सम्भवति तदुपजीव्य तत्प्रवृत्तेरिति टीकार्थः / तथा च विशिष्टज्ञानकारणताग्रहमुपजीव्य प्रवृत्तं गौरवं कारणताग्रहस्य परिपन्थि प्रतिबन्धकं न भवति इति निष्कर्षः। शङ्कते - नन्विति। व्याप्यत्वं प्रकारो यत्र एतादृशं यज्ज्ञानं तस्य विषयो यो धर्मस्तन्मात्रगतत्वेन यत् प्रतीयते तत्प्रकारकं यत्पक्षधर्मताज्ञानं तत्त्वेन कारणता। तच्चेति। व्याप्यत्वेत्यादिरूपं विशिष्टज्ञानेऽपि वर्तते ज्ञानद्वयेऽपि वर्तते / प्रथमे विशिष्टज्ञाने वहिव्याप्यवान् इत्यत्र व्याप्यत्वमेव प्रकारः, ज्ञानद्वये च धूमत्वं प्रकारः इति कृत्वैतद्ज्ञानद्वयसाधारणमेकं कारणतावच्छेदकम् उक्तरूपंभविष्यतीत्यर्थः। तथाचेति टीका। एतदुक्तरूपकारणतावच्छेदके प्रोच्यमाने विशिष्टज्ञानस्याथ च ज्ञानद्वयस्यापि यथास्थानं कारणताग्रहः, यत्र यज्जातं तत्र तत एवानुमितिरतो द्वयमपि कारणमित्यर्थः / अतः सर्वत्र यद् विशिष्टं ज्ञानमेकं कारणं कल्पते तन्न कल्पनीयं गौरवात् / प्रयोजनाभावेत्याशङ्कार्थः / उत्तरयति - तदपेक्षयेति। व्याप्यत्वप्रकारकेत्यादिपूर्वोक्तकारणतावच्छेदकापेक्षया व्याप्यत्वप्रकारकत्वस्यैव लघुत्वम्, तस्य नानापदार्थघटितत्वादित्यर्थः / शङ्कते - नन्विति / एवं व्याप्यत्वप्रकारकत्वमात्रेण यदि कारणता तदापि गौरवावतारः सम्भवति / यद्येवं व्याप्यत्वप्रकारकत्वेनैव कारणतोच्यते तदा अतिरिक्तविशिष्टज्ञानकल्पनास्यादिति सम्भावनात्मिका या उपस्थितिः तयाऽपि गौरवावतारः। सम्भावनारूपं गौरवं स्यादिति कृत्वा व्याप्यत्वप्रकारकत्वमात्रेण कारणता न कल्पनीया इत्याशङ्कार्थः / एवंविधेति / सम्भावनया उपस्थितं गौरवं प्रमाणप्रवृत्तिप्रतिकूलं न भवति। अत्र युक्तिमाह - अतएवेत्यर्थः / यतस्तर्कितं गौरवं [न] प्रमाणप्रवृत्तिप्रतिबन्धकमतएवेत्यर्थः / यथा निषादस्थपतियाजयेत् इतिअत्रकर्मधारयो वाषष्ठीतत्पुरुषो वा। कर्मधारयेशूद्रस्यापूर्वा नवीना विद्या कल्प्यास्यात्। पूर्वं शूद्रस्याध्ययनं क्लृप्तं नास्ति, तत् कल्पते इति सिद्धान्तः /