________________ परामर्शनिरूपणम् 119 यातुविशेषव्याप्तिः प्रत्येकधूमादिवृत्तिाप्तिस्तु - सामान्यव्याप्तिः वह्नयभाववदवृत्तित्वसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकवह्नित्वावच्छिन्नसमानाधिकरणधूमत्वमिति महाव्याप्तिः - एतस्या महाव्याप्तेरवच्छेदिका।वह्नयभाववदवृत्तित्वरूपा विशेषव्याप्तिः, सा - वह्निनिरूपिताधूमादिनिष्ठा सकलधूमादिवृत्तिः [या] सा [सामान्यव्याप्तिः, तस्याः] सामान्यव्याप्तेरवच्छेदिका भवति यथा यो वह्रिव्याप्यधूमवान् सोऽवश्यं वह्निमान् इति महाव्याप्तिज्ञानसामग्री यत्र वर्तते तत्रानुमितिसाम यपि व्याप्यतावच्छेदकप्रकारकं पक्षधर्मताज्ञानमप्यनुमितौ कारणं तत्रापि शाब्दपरामर्शस्थलेऽपि वर्तते / आश्रयेति मूलम् / व्याप्तेराश्रयो धूमः / व्याप्तेः सामान्यव्याप्तेः अवच्छेदिका विशेषव्याप्तिरित्याश्रयावच्छेदकभेदेन व्याप्तिभेदः। तथा चानुमितावपिव्याप्यतावच्छेदकप्रकारकं पक्षधर्मज्ञानं कारणं सिद्धमित्यर्थः / सकलेति। महाव्याप्तौ मानं नास्ति। ननु तर्हि यत्र वह्रिव्याप्यस्तत्र वह्रिरिति ज्ञाने वहिव्याप्यवान् इत्याप्तेन यदोच्यते तत्र को वा विषय इत्यत आह - प्रत्येकेति / प्रत्येकवृत्तिर्या व्याप्तिः वह्नयभाववदवृत्तित्वरूपा सैव विषयः यथा महानसीयवह्नयभाववान् पर्वतस्तदवृत्तित्वं महानसीयधूमस्य अस्तीति विशेषव्याप्तिः, अनयैव विशेषव्याप्त्योपपत्तौ सामान्यव्याप्तेः प्रमाणाभाव इत्यर्थः / अत्र युक्तिमाहप्रत्येकेति।वहन्यभाववदवृत्तिधूमइतिज्ञानं विना महाव्याप्तिबोधोऽपिनसम्भवति। महाव्याप्तेरेतद्घटितत्वादित्यर्थः / सामान्यव्याप्तौ [59 A]प्रमाणं शङ्कते टीकाकारः - नन्विति।यो धूमवान् सोऽग्निमान् इत्यनुभवो यथा वर्तते * तथा यो वह्रिव्याप्यवान् सोऽवश्यं वह्निमान् इति महाव्याप्त्यनुभवोऽप्यपह्रोतुं न शक्यते / विपक्षे बाधकमाह अन्यथेति / महाव्याप्तिस्तव यद्यपि अलक्ष्या तदा पूर्वोक्तव्याप्तिलक्षणानां प्रतियोग्यसमानाधिकरणेत्यादीनाम् : अत्र महाव्याप्तौ विद्यमानत्वात् अतिव्याप्तिः स्यात् अतोऽपीयं लक्ष्या व्याप्तिर्वक्तव्या। तथा च वह्निव्याप्यधूमवान् इति शाब्दपरामर्शस्थलेऽपि व्याप्यतावच्छेदकज्ञानं कारणं कल्पनीयमित्यस्वरसादाह - अपि चेतीति / यत्रेति मूलम् / धूमे धूमत्वम् अथ च व्याप्तिः अनयोः सामानाधिकरण्यं यत्र पक्षधर्मे धूमे प्रत्यक्षेण भासते तत्र व्याप्यत्वज्ञानं यथाधूमो वह्निव्याप्यः इति व्याप्ति(व्याप्यत्व)ज्ञानं कारणतावच्छेदकम्, तथा चयदा व्याप्यत्वज्ञानत्वं कारणतावच्छेदकं तदा व्याप्तिज्ञानं कारणमेवेति परामर्शसिद्धिस्तद्रूपत्वात् तस्य इत्यर्थः / तत्र हेतुमाह - लाघवादिति मूलम् / व्याप्यतावच्छेदकेति अत्र अवच्छेदकं प्रदाधिकस्य प्रवेशादिति भावः / एवमिति टीका / यदि व्याप्यतावच्छेदकप्रकारकं पक्षधर्मताज्ञानं कारणं भवति तदा महाव्याप्तेः कल्प्यते। तत्तु कारणमेव नभवति इतिभावार्थः। न चैवमितिमूलम्।यदि ज्ञानद्वयातिरिक्तं परामर्शरूपं विशिष्टज्ञानमङ्गीक्रियते तदा गौरवम् अतिरिक्तकल्पनैव गौरवमित्यर्थः / लाघवेति टीका / कथं सप्रमाणकत्वमित्यत आह - लाघवसहकृतं यत् प्रथमप्रवृत्तं विशिष्टज्ञानकारणताग्राहकं प्रमाणं तन्मूलकत्वात् / तत्र विशिष्टज्ञानकारणताग्राहकं यत् प्रमाणं तत् प्रथमं प्रवृत्तम् / तच्च लाघवसहकृतं तत् प्रमाणम् अन्वयव्यतिरेकसहकृतं प्रत्यक्षम्, तदेव लाघवसहकृतम् / व्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानत्वेन वा कारणता वाच्या व्याप्यत्वप्रकारकपक्षधर्मताज्ञानत्वेन वा,