________________ 118 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका दर्शनादीति / सहचारदर्शनादिरूपा व्याप्तिग्रहसामग्री यदा वर्तते तदा तद्व्यतिरेकेण धूमत्वालोकत्वान्यान्यधर्मवत्त्वज्ञानव्यतिरेकेण व्याप्तिग्रहव्यतिरेको दृष्टो नास्ति, कारणत्वं तु तदैवस्यात् यदि तद्वयतिरेकेण तद्व्यतिरेक: स्यात्। अत एवेति। यतो वह्निव्याप्तिव्याप्यतावच्छेदकरूपेणोपस्थितं यद्भूमत्वालोकत्वज्ञानं तत्कारणं न भवति अत एव धूमालोकान्यान्यत्वेनोपस्थिते पक्षधर्मे धूमव्याप्तिग्रहः सर्वसिद्धः / अयमत्र भावार्थः / यद्यपि धूमत्वालोकत्वान्यान्यत्वज्ञानं व्याप्यतावच्छेदकप्रकारेणोपस्थितं नास्ति तथापि व्याप्तिप्रत्यक्षग्रहे तत्कारणं भवत्येव यथा वहिव्याप्यधूमवानयमिति परामर्शो व्याप्तिप्रत्यक्षम् तत्र तत्कारणं भवतीत्यर्थः / [58 B] एवमिति। वह्रिव्याप्तिव्याप्यपरामर्शो यथा धूमत्वं वह्निव्याप्तिव्याप्यम् अयमपि परामर्शो वर्तते इति कृत्वा यद्यपि वहिव्याप्तिव्याप्यत्वानुमानमपि सम्भवति तथापि प्रत्यक्षसामग्रीसत्त्वे तस्या बलवत्त्वादनुमानं निरवकाशमिति भावः / आभासदानार्थमाह - नत्विति।सधर्मो व्यवच्छेदको भवतु मा भवतु वा परं व्याप्यत्वनियतसमानाधिकरणत्वेन प्रतीयमानो यो धर्मो धूमालोकान्यान्यत्वादिस्तेन रूपेण पक्षधर्मताज्ञानं धूमादिज्ञानमनुमितिं प्रति कारणमस्तु / तच्च प्रकृते अयमालोको वेत्यादावप्यस्तीत्याशङ्क्याह - आभासार्थः / किञ्चेति मूलम् / वह्रिव्याप्यवान् इति शाब्दज्ञाने व्याप्यत्वज्ञानं कारणं दृष्टम् / व्याप्तिकारणं तत्र कारणमस्तीति, अन्यत्रापि परामर्शरूपं यत्र प्रत्यक्षं जायते यथा वह्निव्याप्यधूमवान् अयमिति तत्रापि व्याप्यत्वज्ञानं कारणमस्तु इत्यर्थः। अथ वह्निव्याप्यत्वमपि वह्निव्याप्यतावच्छेदकं तथाहि वह्निनिरूपिता धूमादिप्रत्येकवृत्तिरेव व्याप्तिाप्तित्वेन सकलधूमादिवृत्तिव्याप्त्यवच्छेदिका आश्रयभेदेनावच्छेदकभेदेन च व्याप्तिभेदादिति चेत्।न। सकलधूमादिवृत्तिव्याप्तौ मानाभावात् यत्र वह्निव्याप्यस्तत्र वह्निरिति व्याप्तिबुद्धौ शाब्दव्याप्यत्वबुद्धौ च प्रत्येकवृत्तिव्याप्त्याश्रयत्वस्यैव विषयत्वात् प्रत्येकवृत्तिव्याप्तिज्ञानं विना तद्बोधाभावात् / अपि च यत्र धूमत्वव्याप्त्योर्वैशिष्टयं प्रथममेव प्रत्यक्षेण युगपत् पक्षधर्मे भासते तत्र लाघवात् व्याप्यत्वज्ञानत्वमेव कारणतावच्छेदकम् / न चैवमतिरिक्तविशिष्टज्ञानकारणत्वे गौरवं दोषाय, सप्रमाणकत्वात् कारणताग्रहदशायां फलमुखगौरवस्य सिद्धयसिद्धिभ्यामदोषत्वात्। मीमांसकः शङ्कते - अथेति / यदुक्तं पूर्वं यत्राप्तवाक्याद् वहिव्याप्यधूमवान् अयमिति अवगतं तत्र वहिव्याप्यत्वमपिवहिव्याप्यतावच्छेदकं भवतीतिकृत्वा तद् ज्ञानं कारणम्। व्याप्यत्वं कथं व्याप्यतावच्छेदकमिति दर्शयति - तथाहीति। एका व्याप्तिरवच्छेद्या एकावच्छेदिका / सकलधूमादिवृत्तिर्या महाव्याप्तिः साऽवच्छेद्या /