________________ परामर्शनिरूपणम् 117 घटयोरसंसर्गाग्रहः असम्बन्धज्ञानाभावः, अथचविशेषदर्शनम्।इदंसंशयोत्तरप्रत्यक्षाभिप्रायेण, घटादिप्रत्यक्षस्थले विशेषदर्शनस्यानुपयोगात् / तथा प्रकृते धूमो वह्रिव्याप्य इति प्रत्यक्षज्ञाने वढ्यादिज्ञानं धूमेन्द्रियसन्निकर्षे (र्ष) च विशेषदर्शनमधिाकं] वर्तते। अतो वह्निव्याप्यत्वप्रत्यक्षं भवति, नन्व(न त्व)नुमितिः / व्याप्यताभिमतेति टीका।धूमादौ व्याप्यो लघुना धूमत्वेन आलोकत्वेन वाअवच्छेदकत्वं सम्भवति, गुरुणाधूमालोकान्यान्यत्वरूपेण / तद्ग्रहासम्भवादिति व्याप्तिग्रहासम्भवादित्यर्थः / उक्तरीत्येति।धूमत्वालोकत्वान्यान्यधर्मवत्त्वादिति हेतौ क्रियमाणे व्यर्थविशेषणत्वाभावात् तेनापि वहिव्याप्यत्वानुमानं सम्भवत्येव / [58 A] तथापि प्रत्यक्षसामर या उक्तरूपाया बलवत्त्वात् वहिव्याप्यत्वज्ञानं धूमादौ प्रत्यक्षमेव नानुमितिरित्यर्थः। . न चैवं न प्रत्यक्षेऽपि तदन्यान्यत्वज्ञानं सहकारीति वाच्यम् / अन्वयव्यतिरेकाभ्यां गुरोरपितस्य विशेषदर्शनत्वेन प्रत्यक्षसहकारित्वात् तस्मात् तदन्यान्यत्वज्ञानंतत्र व्याप्यताज्ञानोपक्षीणं न तु साक्षादनुमितिहेतुरिति, किञ्च वह्निव्याप्यवानयमिति शाब्दज्ञाने व्याप्यत्वज्ञानं कारणमित्यन्यत्रापि तथा। न चैवमिति मूलम्। धूमालोकान्यान्यत्वज्ञानं प्रत्यक्षे सहकार्येव न भवति। तथा च तत्र वह्रिव्याप्यत्वज्ञानं प्रत्यक्षंभवत्येवान इतिनचवाच्यमित्यन्वयः।अन्वयेतिमूलम्।धूमालोकान्यान्यत्वज्ञाने सति संशयोत्तरप्रत्यक्ष भवति, अन्यथा न भवति, इति गुरूभूतस्यापि तदन्यान्यत्वज्ञानस्य विशेषदर्शनविधया प्रत्यक्षसहकारित्वं क्लृप्तमेवेत्यर्थः / उपसंहरति - तस्मादिति।धूमालोकान्यान्यत्वज्ञानमनुमितिं प्रति साक्षात् कारणं न भवति किन्तु वहिव्याप्यत्वा(ता)ज्ञाने अन्यथासिद्धम् / अयमर्थः - धूमालोकान्यान्यधर्मवत्त्वज्ञाने न वह्रिव्याप्यताज्ञानं प्रत्यक्षरूपं व्याप्तिज्ञानं भवति, ततोऽनुमितिरिति प्रघट्टकार्थः / न त्विति / संशयोत्तरप्रत्यक्षस्य सहकारि धूमत्वालोकत्वान्यान्यधर्मवत्त्वज्ञानं जातं तेनापिप्रत्यक्षस्यात्, वस्तुगत्या तेन प्रत्यक्षंनस्यादित्यर्थः। केन रूपेण तत्कारणमित्याह-किन्त्विति।वहिव्याप्तिव्याप्यत्वेन।वहिव्याप्तिव्याप्यत्वंयथा यत्र यत्रधूमत्वालोकत्वान्यान्यधर्मवत्त्वं तत्र वहिव्याप्तिर्यथा धूमे, एवमनेनापि कारणता वक्तुं न शक्यते इत्याह - धूमत्वादेरिति।धूमत्वादिकं यत् वहिव्याप्तिव्याप्यतावच्छेदकं तस्य निर्णयो नास्ति / अयमालोको वा धूमो वेत्यादौ तस्य निर्णयाभावात् यदवच्छेदकं वहिव्याप्तिव्याप्यतावच्छेदकं तनिश्चितं नास्ति।अथ धूमालोकान्यान्यत्वं यदवच्छेदकं निश्चितं तत् तुगौरवेण यथाधूमा?त्वात्वालोकत्वत्वादित्येव हेतुर्भवतु न तुधूमत्वालोकत्वादिति, इतिगौरवेण तदनवच्छेदकमित्याशङ्कार्थः / व्याप्यतावच्छेदकेति टीका / धूमत्वालोकत्वान्यान्यधर्मवत्त्वं यद्यपि व्याप्यतावच्छेदकरूपेणोपस्थितं नास्तितथापि तस्य व्याप्तिग्रहः पूर्वोक्तः स्वीक्रियत एव। फलबलेनेति टीका।तथानुभवरूपफलदर्शनेनेत्यर्थः / व्याप्यतावच्छेदकरूपेणानुपस्थितेऽपि व्याप्तिग्रहो भवतीति यदुक्तं तदुपपादयति - सहचार