________________ 116 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका लोकत्वस्य वा लघुत्वम्।अभावघटितत्वादित्यर्थः। व्यभिचारेतिमूलम्।धूमालोकान्यान्यत्वं व्याप्यतावच्छेदकं न भवति / तत्र हेतुमाह - व्यभिचारेति / यथा नीलधूमादिति विशेषणं व्यर्थम् / यथा पर्वतो वह्निमान् धूमात् आलोकात् वा इत्येवास्तु / व्याप्तिग्रहस्तु धूमात् इत्यनेनैव भवतीति तदधिकं धूमालोकान्यान्यत्वमित्यर्थः / ततो धूमालोकान्यान्यत्वं व्याप्यतावच्छेदकं न भवति किन्तु धूमत्वमेव व्याप्यतावच्छेदकम्, इत्याह - किन्त्विति / तच्चेति मूलम् / यत्र आलोको धूमो वेति सन्देहाद् अनुमितिस्तत्र धूमत्वस्यालोकत्वस्य व्याप्यतावच्छेदकस्य सन्देहादनुमितिर्न स्यादित(ति) व्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानम् अनुमितौ व्यभिचारात् कारणं न भवतीति सिद्धम्।मीमांसकः शङ्कते त्वयोक्तं तदन्यान्यत्वं व्याप्यतावच्छेदकं न भवतीति। तत्रोच्यते - तदन्यान्यदिति। धूमालोकान्यान्यदित्यर्थः / धूमालोकान्या]न्यत् न वहिव्याप्यम् इति यत् साध्यं तत् नाधितम् / यदि धूमालोकान्यान्यस्मिन् हेतौ व्यभिचारो भवति तदा बाधः स्यात् / प्रकृते च यत्र धूमालोकान्यान्यत्वं तत्र वहिव्याप्यत्वमिति व्याप्रिस्ति।[57B] ततो भवदभिमतं व्याप्तिसाधनं तद्बाधितमित्याह - व्यभिचाराभावेनेति मूलार्थः / ननु तर्हि धूमालोकान्यान्यदित्युच्यमाने पुरुषस्य कथं निग्रह इत्यत आह - पुरुष इति। स्वार्थेति टीका। परामर्शा(परार्था)नुमाने यद्यपि अधिकं बाधकं वर्तते तथापि स्वार्थानुमाने न किञ्चिद् बाधकम् / धूमात् इत्यनेनाप्यनुमितिः, धूमालोकान्यान्यस्मात् इत्यनेनापि स्वार्थानुमितिर्भवतीत्यर्थः / नैयायिकः दूषयति - तदन्यान्यदिति मूलम् / तदन्यान्यत्वं धूमस्यालोकस्य वा स्वरूपम् / तच्चेति मूलम् / धूमालोकान्यान्यत् व्याप्यमिति यद् उक्तं तत् सत्यमेवेत्युक्तम् / तत् तु व्याप्यं भवत्येव / परं वस्तुगत्या यद् व्याप्यं तस्य ज्ञानात् अनुमितिरिति नास्ति, अतिप्रसङ्गादिति। यत्र प्रमेयत्वादिना व्याप्यत्वज्ञानं यत्र जातं तत्राप्यनुमितिः स्यादित्यतिप्रसङ्गः / न चेति / व्यर्थविशेषणत्वात् इत्येव दूषणं पूर्वोक्तं ज्ञेयम् / न चैवमिति / यदि धूमालोकान्यान्यत्वं व्याप्यतावच्छेदकं न भवति तदा वह्निव्याप्यत्वानुमानमपि धूमालोकान्यान्यत्वादित्यनेन [ न ] स्यात्, वर्तते चानेनानुमानम् यथा धूमालोको वह्निव्याप्यौ धूमालोकान्यान्यत्वात् इति / अत्रापि व्यर्थविशेषणत्वं वर्तते एवेत्याशङ्कार्थः। धूमत्वालोकत्वेति टीका। ननु धूमालोकान्यान्यत्वादिति हेतुं विहाय किमर्थं धूमत्वालोकत्वेत्यादिहेतुकरणमित्यत आह - तथा च सतीति टीका / विवक्षितहेतौ कृते व्यर्थविशेषणता न भवति / कथं न भवति धूमालोकान्यान्यत्वात् इति हेतुर्यदि क्रियते; तदा धूमात् आलोकात् वा एतावदेवास्तु, व्यर्थमधिकं पूर्वोक्तमित्यायाति। परं धूमत्वालोकत्वेत्यादिकरणे तन्न भवति। यदि धूमत्वात् आलोकत्वात् वेति क्रियते तदा तद्व्याप्यमेव न भवति। ततो धूमत्वालोकत्वान्यान्यधर्मवत्त्वेन व्यर्थविशेषणाशङ्केत्यर्थः / प्रत्यक्षमिति मूलम् / तत्र सन्देहे सति अनुमितौ प्रत्यक्षम् आलोकप्रत्यक्ष वा व्याप्यत्वज्ञानं जनयति / कुतः ? धूमालोकान्यान्यरूपो यो विशेषस्तस्य दर्शनम्, तस्मात् / प्रत्यक्षसामग्रीमुपपादयति यथा घटोऽयमिति प्रत्यक्षे घटत्वरूपं यद् विशेषणं तस्य ज्ञानम्, विशेष्येन्द्रियसन्निकर्षो घटेन्द्रियसन्निकर्षः, तदसंसाग्रहो घटत्व