________________ 114 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका दिरसे कीदृशो मधुरो रस इति पृष्टे मधुरो रस ईदृश इत्याख्यातुं न शक्यते, मधुरो रसो नास्ति इत्यपि प्रत्याख्यातुं न शक्यते / ततस्तत्र पदप्रवृत्तिनिमित्तत्वाभावात् तस्य लिङ्गत्वे व्याप्यतावच्छेदकं नास्तीति / कथम् लिङ्गत्वं मधुरत्वावान्तरजातिविशेषस्य तत्र पदप्रवृत्तिनिमित्तरूपव्याप्यतावच्छेदकधर्मान्तराभावादित्यर्थः / तस्य इति टीका। मधुरत्वावान्तरजातेरित्यर्थः / व्यक्तेरेवेति मूलम्।यत्रगोत्वंव्याप्यं भवति तत्र व्याप्यतावच्छेदकं त्वयोक्तं नास्तीति / तत्राह - गोत्वे व्याप्यतावच्छेदिका व्यक्तिरेव गोव्यक्तिरेव, गोत्वादेर्शाने व्यक्तरेव प्रकारत्वात् / यतो गोत्वे व्यक्तिर्घाटतो धर्मो गवेतरावृत्तित्वे सति सकलगोवृत्तित्वं गोत्वत्वमिति गोव्यक्तिघटितमेव / यतो गोव्यक्तिर्गोत्वत्वप्रविष्टा ततो व्याप्यतावच्छेदकं धर्मत्वं गोत्वत्वस्यास्तीति भावः / ननु व्यक्तेः गोत्वमित्यत्र प्रकारकत्वाभावात् कथं व्यक्तरेव प्रकारत्वमित्यन्यथा व्याचष्टे - व्यक्तिघटितपक्षधर्मस्येति / गवेतरावृत्तित्वे सतिसकलगोमात्रवृत्तित्वमित्यस्येत्यर्थः गवतरावृत्तित्वेसतीति।प्रमेयादावतिव्याप्तिवारणार्थम् एतदेवोपपादयति - न हीति मूलम् / अविशेषो न किन्तु विशेषः / एकत्र गौरिति ज्ञाने गोत्वं प्रकारः, अपरत्र गोत्वमिति ज्ञाने गवेतरावृत्तित्वे सति सकलगोवृत्तित्वं प्रकारः, इति विशेष इत्यर्थः / उभयोरिति टीका। गौरिति ज्ञाने गोत्वं विशेषणत्वेन विषयः, अपरत्रगोत्वमिति ज्ञाने विशेष्यत्वेन गोत्वं विषयः, इति विशेषः / अन्यथेति। यदि गौरिति गोत्वमिति च ज्ञानयोरविशेष उच्यते तदा इत्यर्थः / यदि गोत्वमित्यत्र ज्ञाने प्रकारो न भासते तदा एतद् ज्ञानं निष्प्रकारकत्वेन निर्विकल्पकं स्यात्। तथाचतादृशंज्ञानं निष्प्रकारकं व्याप्यत्वग्रहेऽप्यनुपयुक्तं व्याप्यतावच्छेदकप्रकारकग्रहेऽप्यनुपयुक्तं परामर्शग्रहेऽप्यनुपयुक्तम् / कथम् ? यतः परामर्शज्ञानं विशिष्टवैशिष्ट्यावगाहि ज्ञानं भवति / तत्र चविशेषणतावच्छेदकप्रकारकं ज्ञानं कारणम्।गोत्वमिति ज्ञानस्य निष्प्रकारकत्वेन तत्रानुपयुक्तत्वादित्यर्थः / अस्यापीति टीका।गोत्वमिति ज्ञानस्यापीत्यर्थः / एवं यथा गौरिति ज्ञाने गोत्वांशे निर्विकल्पकत्वं तथा यदि गोत्वमिति ज्ञानस्यापि निर्विकल्पकत्वं स्यादिति कृत्वोभयोर्विशेषो वाच्यः। स विशेषः - एकत्र गोत्वं प्रकारः, अन्यत्र व्यक्तिः प्रकार: इति / व्याप्यतावच्छेदकेति टीका / व्याप्यतावच्छेदको यो धर्मो गोत्वमित्यत्र ज्ञाने यदि प्रकारोन जा(ज्ञा)तस्तदा तस्य परामर्श उपयोगो नास्ति निष्प्रकारकस्योपयोगो न स्यादित्यर्थः / यदुक्तं गोत्वमिति ज्ञाने व्यक्तिघटितो धर्मः प्रकार इत्यत्रानुभवं प्रमाणयति - गवेतरेति मूलम्। तथा च गोत्वे गोत्वत्वमेव प्रकार इत्यर्थः / न चैवमिति मूलम् / यदि गोत्वमित्यत्र [57 A] गोत्वत्वं प्रकार: तदा गोत्वत्वमित्यत्र कः प्रकार: ? तत्रापि यदि गोत्वत्वात्वामपि प्रकारस्तदाऽनवस्था स्यात् इत्याशङ्कार्थः / तदितरेति / तथा च प्रामाणिकी अनवस्था न दोषायेति भावः। अत्रोच्यते। अयमालोको धूमो वा उभयथापि वह्निव्याप्य इति ज्ञानंततोऽनुमितिः।न च धूमत्वेनालोकत्वेन वा तत्र निश्चयः / अथ तदन्यान्यत्वमेव तत्र लिङ्गम्। न च तदज्ञानदशायामनुमितिदर्शनात् न तथेति वाच्यम् / धूमालोकान्यान्यत्वज्ञानं विना तवापि तत्र