________________ परामर्शनिरूपणम् 113 विशेषः, अन्यथा गोत्वमिति ज्ञानस्य निर्विकल्पकत्वापत्त्या व्याप्यत्वग्रहे परामर्श चानुपयोगात् गवतरावृत्तित्वे सति सकलगोवृत्तित्वं गोत्वत्वमित्यनुभवाच्च / न चैवमनवस्था, तदितरावृत्तित्वे सति तद्वृत्तित्वस्यानुभवेनापलापासम्भवात् / ___ अत एवेति मूलम् / असन्निकृष्टे इन्द्रियासनिकृष्टेऽपि धूमे भेदग्रहाभावो वर्तते एवेत्यनुमितिर्भविष्यति [56 A] / तथा च भेदग्रहाभावः यथा धूमो वहिव्याप्य इतिभेदग्रहाभाव एवानुमितौ कारणम्। तेनेति टीका। धूमो न वहिव्याप्य इति भ्रमोत्पत्तिर्यद्यभ्युपेयते तदा तदभिमतः नैयायिकाभिमतः विशेषदर्शनरूपो यः परामर्शः तत्सामा यामिन्द्रियसन्निकर्षादिरूपायां सत्यां भ्रमो न भवेदेवेति। भ्रमोत्पत्तिकाले परामर्श एव कुतो न भवतीति तन्मते नैयायिकमतेपर्यनुयोगआशङ्कादित्यर्थः / अभ्युपेत्येति।भ्रमो भवतु, परं भेदज्ञानाभाव एव कारणमिति सिद्धम् / गौरवमिति / यद्यनुमितिं प्रति भेदग्रहाभावस्य कारणतोच्यते तदा गौरवम्, लाघवादभेदज्ञानमेव कारणमस्त्वित्यर्थः / तदेति। भेदग्रहाभावस्य यद्यनुमितौ कारणता तदा विशिष्टज्ञानं तदोपस्थितमेव नास्ति इति यल्लाघवगौरवावतारः स्यादित्यर्थः / न चेति। भेदग्रहो धूमो न वह्निव्याप्य इत्येवंरूपो भेदग्रहो न प्रतिबन्धकः / अत्र युक्तिमाह - जनकेति टीका। भेदग्रहस्तदा प्रतिबन्धको भवति यद्यनेनानुमितिजनकंज्ञानं किञ्चिद् विघट्यते। अभेदज्ञानं तु तव मते जनकमेव न भवतीत्याशङ्कार्थः / अभेदज्ञानस्येति। यद्यभेदज्ञानं वह्रिव्याप्यधूमवान् इति रूपं कारणं स्यात् तदा ज्ञानस्य प्रतिबन्धकता जनकज्ञानविघटनद्वारैवेति व्याप्तिः स्यात् / न चैवम् / त्वयापीति / तादृशस्य भेदज्ञानस्य परामर्श प्रतिबन्धकता अङ्गीकृतास्ति / तथा चेयं व्याप्तिरसिद्धाः / न हीति / अभेदज्ञानं वहिव्याप्यधूमवान् इति रूपम्। परामर्शेऽभेदज्ञाने भेदज्ञानं कारणं नास्ति। व्यभिचारादिति टीका। भेदज्ञानास्य] परामर्श प्रति प्रतिबन्धकताऽस्ति / सा जनकज्ञानविघटनद्वारा नास्ति। परामर्शजनकीभूतं ज्ञानं खण्डव्याप्तिज्ञानं तन्न विघट्यते इति कृत्वाव्यभिचार इत्यर्थः / ग्राह्याभावेति टीका।ग्राह्याभावभिन्नस्य ज्ञानं जनकज्ञानविघटनद्वारा प्रतिबन्धकमित्यपिन वाच्यम्। परामर्श प्रति प्रतिबन्धकं यभेदज्ञानं तद् ग्राह्याभावज्ञानमेव तद्भिन्नं न भवतीति / तत्र दूषणमाह - अप्रयोजकत्वादिति। ज्ञानस्य प्रतिबन्धकताऽस्तु, जनकज्ञानविघटनद्वारा मास्तु। अत्र विपक्षे बाधकस्तर्को नास्तीत्यर्थः / पुनर्नैयायिकः शङ्कते - अथेति / यदि व्याप्यतावच्छेदकप्रकारकं पक्षधर्मताज्ञानं कारणं तदा गोत्वस्य लिङ्गत्वं न स्यात् / तद्गतव्याप्यतावच्छेदकं धर्मान्तरं नास्ति। न च गोपदप्रवृत्तिनिमित्तत्वं गोत्वधर्मान्तरं भविष्यति इत्यत आह - मधुरत्वावान्तरेति। मधुरत्वावान्तरजातौ पदप्रवृत्तिनिमित्तत्वं धर्मान्तरं वक्तुंन शक्यते।कुतः ? आख्यातुमशक्यत्वेसतिप्रत्याख्यातुमशक्यत्वात्। मधुरत्वावान्तरजातिराख्यातुमशक्या, अतः प्रत्याख्यातुमशक्या सा / अनुमानं यथा अयं सास्नावान् गोत्वात् गोत्वस्य व्याप्यतावच्छेदकं धर्मान्तरं नास्ति / तथा अयमुत्कृष्टरसवान् मधुरत्वावान्तरजातेः अत्र मधुरत्वावान्तरजातेः पदप्रवृत्तिनिमित्तत्वं नास्ति [56 B] आख्यातुमशक्यत्वात् / मधुरत्वं कियदित्याख्यातुं न शक्यते प्रत्याख्यातुमपि न शक्यते। यथेाक्षीरा