________________ 112 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका यद्वयतिरेकज्ञानमित्यनेनापि व्याप्यभेदज्ञानस्यप्रतिबन्धकताआनीता।अनेनापिव्याप्यभेदज्ञानस्यप्रतिबन्धकता शक्यते इति कृत्वा पौनरुक्त्यं स्यादित्यन्यथा व्याचष्टे - पूर्वमिति / पूर्व सामान्यतः प्रतिबन्धकता धूमो न वह्निव्याप्य इति ज्ञानस्याङ्किता, अधुना पुनर्विशेषस्य पक्षधर्मधूमविशेषविषयस्य न प्रतिबन्धकत्वं व्याप्येयं धूमव्यक्तिरिति। नचेहेति टीका।व्याप्येयं धूमव्यक्तिः। पदं वर्तते तत्र पक्षधर्मपदं वर्तते यथा पक्षधर्मस्य व्याप्यभेदज्ञानमिति अनुमितिप्रतिबन्धकम् / तथा च पौनरुक्त्यमेवेति न च वाच्यम् / सामान्येति टीका / धूमो न वहिव्याप्य इति सामान्याकारभेदज्ञानं पक्षधर्मविषयकं भवति / परं तन्मात्रेति / धूमविशेषविषयकं भेदज्ञानं तद् भवतीत्यत्र प्रमाणाभावः, तथा च तत् सामान्यविषयकम् / इयं धूमव्यक्तिर्वह्रिव्याप्या नेतिधूमविशेषविषयकम् / केचिदेवं पौनरुक्त्यं परिहरति - यत् त्विति। इयं धूमव्यक्तिर्वहिव्याप्या नेति ग्रन्थस्य व्याप्यात्यन्ताभावभ्रमः प्रतिबन्धक इत्यत्र तात्पर्यम्। तस्य ग्रन्थस्य यद्वयतिरेकेतिरूपस्य व्याप्यभेदभ्रमप्रतिबन्धकत्वमित्यत्रतात्पर्यम् यथायं व्याप्यो नव्याप्यादन्य इतिप्रतीतेः। वह्निव्याप्येति।इयं धूमव्यक्तिर्वहिव्याप्या नेत्यस्यापिग्रन्थस्य व्याप्यान्योन्याभावभ्रमपरतैवायाति। अन्यथेति मूलम् / यदा निश्चयसामग्री वर्तते भ्रमो नास्ति। अनन्तरमिति / सर्वदा परामर्श एव कुतो न भवति ? / तथा ज्ञानद्वयात्मिका सामग्री यदि वर्तते तदा अनुमितिरेव भवति, न तु व्याप्याभेदज्ञानम् / अस्तु वेति / धूमो वह्रिव्याप्य इति व्याप्यतया धूमोऽवगतः धूमवांश्चायमिति पक्षधर्मतया च धूमोऽवगत इति तस्य धूमस्य भेदाग्रहो भेदग्रहाभावः भेदज्ञानाभाव एव कारणमस्तु अनुमितौ / तत्र युक्तिमाह - परामर्शेति / पूर्व नैयायिकेनाङ्कितं भेदज्ञानं प्रतिबन्धकमिति कृत्वाऽभेदज्ञानं कारणमिति तदुपरि मीमांसकेन सिद्धान्तितं भेदज्ञानं प्रतिबन्धकमेव न भवतीति, साम्प्रतं भेदज्ञानस्य प्रतिबन्धकत्वमस्तु तथाप्यभेदज्ञानमनुमितौ कारणं न भवति किन्तु भेदज्ञानाभाव एव कारणम्। त्वयाऽपि भेदग्रहाभावः परामर्श प्रति कारणं वाच्यः, मया तूच्यते स अनुमितिं प्रति एव कारणमस्तु तद्धतौ तेनेति न्यायादिति प्रघट्टकार्थः / __ अतएवासन्निकृष्टधूमज्ञानादप्यनुमितिः।नचैवंगौरवं, तदा विशिष्टज्ञानानुपस्थितेः / नचजनकज्ञानाविरोधिनोज्ञानस्याप्रतिबन्धकत्वात्भेदग्रहो न प्रतिबन्धक इतिवाच्यम् / अभेदज्ञानस्याजनकत्वात् त्वयापि लिङ्गपरामर्श तादृशस्य प्रतिबन्धकत्वस्वीकाराच्च / अथगोत्वंमधुरत्वावान्तरजातिर्वा लिङ्गंनस्यात् तद्गतधर्मान्तरस्याभावात् स्वत एव तस्य विलक्षणत्वात् इति चेत्। न। व्यक्तेरेव तत्र प्रकारत्वात्, न हि गौर्गोत्वमिति ज्ञानयोर