________________ परामर्शनिरूपणम् तथा च भावत्वत्वं व्याप्यतावच्छेदकमभावत्वात्वामपि [55 A] व्याप्यतावच्छेदकम् तस्यानिश्चयात् इत्यर्थं केचित् कुर्वन्ति। तद् दूषयति - तथा सतीति टीका। उभयथाऽपि प्रमेय इति पुल्लिङ्गनिर्देशः स्यात्, न तुप्रमेयमिति नपुंसकम् / उभयथापीति। प्रकृते भावत्वाभावत्वान्यान्यधर्मवत्त्वस्य लिङ्गत्वमेव न सम्भवति। यतो लिङ्गं कृतं वर्तते।भावाभावान्यतरादिति कृत्वा भावत्वाभावत्वान्यान्यधर्मवत्त्वं लिङ्गतावच्छेदकम्, न तुलिङ्गम्, इत्यन्यथा व्याचष्टे। लिङ्गतावच्छेदकत्वादित्यर्थ इति। अयमिति। अयं वह्रिव्याप्यो धूमालोकान्यतरादिति हेतुः / अत्रेदं लिङ्गं न भवति किन्तु लिङ्गतावच्छेदकम्, तथा च लिङ्गं यदि धूमालोकान्यतारात्वमिति तदा व्याप्यतावच्छेदकं धूमालोकान्यतरत्वं तन्निष्ठो धर्मः तस्य निर्णयः प्रमाणान्तरेण वर्तते इति कृत्वाऽनुमानं भवत्येवेति नानुभवति। तत्रेति। यत्रधूमालोकान्यतरत्वं लिङ्गं वर्तते तत्राप्रसिद्धिर्नास्ति, यतो धूमालोकात् अन्यो घटादिः तदन्यतरत्वम् एतयोः प्रसिद्धमित्यर्थः / नैयायिकः शङ्कते - अथयदिति।यथा व्याप्तिव्यतिरेकज्ञानमनुमित्युत्पत्तिप्रतिबन्धकम् / तत् अनुमितिज्ञानम् / तन्निश्चयसाध्यं व्याप्तिनिश्चयसाध्यम्। पक्षधर्मस्येति।धूमादेर्व्याप्यभेदज्ञानं धूमो न वह्निव्याप्य इति रूपं तदनुमितिप्रतिबन्धकमिति कृत्वा व्याप्याभेदज्ञानं परामर्शरूपमनुमितिं प्रति कारणमायास्यति। तथा च व्याप्याभेदज्ञानत्वेन परामर्शसिद्धिरिति मूलार्थः / . ग्राह्येति टीका / मूले यथाश्रुते ग्राह्यव्यतिरेकज्ञानम्, ग्राह्यो घटादिः तद्व्यतिरेकज्ञानं यथाऽत्र घटो नास्तीति रूपं यदुत्पत्तिप्रतिबन्धकंग्राह्यज्ञानोत्पत्तिप्रतिबन्धकं वर्तते तद्ग्राह्यज्ञानं ग्राह्यनिश्चयसाध्यं न भवति। अतोऽन्यथा व्याचष्टे - ग्राह्यातिरिक्तेति / तथा च ग्राह्यातिरिक्तस्य यस्य व्यतिरेकज्ञानं यदुत्पत्तिप्रतिबन्धकमिति ज्ञेयम् / ग्राह्यव्यतिरेकज्ञानं तु न गाह्यातिरिक्तस्येति न पूर्वदोषः / न हि घटो नास्तीति व्यतिरेकज्ञानं घटातिरिक्तस्य। अथ व्याख्यानान्तरं दूषयति - यत् तु इति / कश्चिदेवं व्याख्याति / यद्वयतिरेकज्ञानत्वावच्छिन्नं यत्र प्रतिबन्धकं तत्त्वनिश्चयसाध्यं तदा ग्राह्यव्यतिरेकज्ञानत्वावच्छिन्नप्रतिबन्धकंनभवति, यतो ग्राह्यव्यतिरेकज्ञानत्वावच्छिन्नमध्ये ग्राह्यसंशयोऽप्यागतस्तस्य च न प्रतिबन्धकत्वमिति / तथेति / प्रतिबन्धकमित्यर्थः / एवमिति / यथाश्रुतेऽव्यभिचारव्यतिरेकज्ञानत्वावच्छिन्नं यावद् वर्तते संशयो वा निश्चयो वा तद्वयभिचाराभावनिश्चये प्रतिबन्धकं भवत्येव / न चाव्यभिचारनिश्चये अव्यभिचारनिश्चयहेतुरिति कृत्वा ग्राह्यातिरिक्तं विशेषणं तत्र देयम् / अव्यभिचारो व्याप्तिः, सा च ग्राद्यैवेति कृत्वा तदतिरिक्तत्वं विशेषण] देयमेवेत्यर्थः / [55 B] -मीमांसक आह - धूमत्वेति मूलम्।धूमोवहिव्याप्यः धूमवांश्चायमितिज्ञानद्वये धूमत्वपुरस्कारेण जाते सति व्याप्यभेदज्ञानं धूमो न वहिव्याप्य इति ज्ञानं न भवति, विशेषदर्शनस्य धूमो वह्रिव्याप्य इति ज्ञानस्य विद्यमानत्वात्; किन्तु द्वयानन्तरमनुमितिरेवोत्पद्यते, अनुमितेरुक्तरूपायाः सामा या विद्यमानत्वात् / न चेति / न तु