________________ 110 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका तद्धर्मज्ञानं भेदज्ञानं तद्धर्मके संशयो यथा पृथिवी भिन्ना नवेतिसंशयः कथं भवति विरोधिज्ञानस्य विद्यमानत्वादिति आशङ्कार्थः / एतदिति टीका / एतदुक्तम् तन्मतान्तरमिति भावः / न केवलमिति टीका / प्रकृते व्यावर्तको विशेषारूपस्तदर्शनादेव संशयाभाव इति नोच्यते / तथा चानुमितिसामग्रीबलवत्त्वमपि संशयनिवर्तकम् तथा चानुमितिसामर यां सत्यां संशयो न भवतीत्यर्थः / ननुभावोऽभावोवा उभयथापिप्रमेयमित्यत्रभावत्वाभावत्वयोर्व्याप्यत्वावच्छेदक योरग्रहादनुमानं न स्यात् तदन्यान्यत्वरूपस्यान्यतरत्वस्य लिङ्गत्वाभावादिति चेत् / न। भावत्वाभावत्वान्यान्यधर्मवत्त्वस्यतत्र लिङ्गत्वात्, एवंधूमालोकान्यतरत्वमपि लिङ्गम्। अथ यद्वयतिरेकज्ञानं यदुत्पत्तिप्रतिबन्धकं तत्तन्निश्चयसाध्यं तथा च पक्षधर्मस्य व्याप्य.. भेदज्ञानमनुमितिप्रतिबन्धकम् अतो व्याप्याभेदज्ञानं तद्धेतुः सिध्यतीति चेत् / न / धूमत्वपुरस्कारेण व्याप्तिस्मरणे पक्षधर्मताज्ञानेचसति विशेषदर्शनान्नधूमेव्याप्यभेदज्ञानं किन्तु अनुमितेरेवोत्पत्तिः तत्सामग्रीसत्त्वात् अतो व्याप्यभेदज्ञानं नानुमितिप्रतिबन्धकं येन व्याप्याभेदज्ञानं तद्धेतुः स्यात् / न च धूमत्वप्रकारेण व्याप्तिस्मरणपक्षधर्मताग्रहे इयं धूमव्यक्तिर्वह्निव्याप्या नेति भ्राम्यतोऽनुमित्यापत्तिरतो विशिष्टज्ञानं हेतुरिति वाच्यम् / धूमत्वस्य विशेषस्य दर्शनेन तादृशभ्रमानुत्पत्तेः तत्रानुमितिसद्भावादेव अन्यथा निश्चयसामग्र यांसत्यांभ्रमानन्तरं परामर्श एव कुतोनभवति। अस्तु वा व्याप्यतया पक्षधर्मतया चावगतस्य भेदाग्रह एवानुमितिहेतुः / परामर्शहेतुतया तस्यावश्यकत्वात्। नैयायिकः शङ्कते - नन्विति।यदिभवतां मते व्याप्यतावच्छेदकप्रकारकं पक्षधर्मताज्ञानं कारणं तदा भावोऽभावो वेति प्रमेयम्। तथा चेदंप्रमेयं भावत्वात् इत्यत्र व्याप्यतावच्छेदकं भावत्वम् अभावत्वं वा। यथा संशयस्त्वेवं भवति। अयं भावो वाऽभावो वा प्रमेयमिति संशयस्तत्रानुमितिर्भवत्येव, परं व्याप्यतावच्छेदकप्रकारकनिश्चयाभावात् कथमनुमितिः ? तत्र व्याप्यतावच्छेदकयोरुभयोरे[व] निर्णयादनन्यगत्या व्याप्यत्वज्ञानमेव कारणं भवतु, न तु व्याप्यतावच्छेदकप्रकारकं पक्षधर्मताज्ञानं तस्यानिश्चयात् तथा चानुमितिर्न स्यादित्याशङ्कार्थः / तथा चानुमानम् - इदं प्रमेयं भावादभावाद्वा / अत्र भावत्वाभावत्वे द्वे व्याप्यतावच्छेदकतयोः सन्देहोऽस्ति, न तु निर्णयः ।अनन्यगत्येति।द्वयोरपिव्याप्यताज्ञानं वर्तते इतिकृत्वा अनुमितिर्भविष्यतीतिआशङ्का नैयायिकानाम् / व्याख्यानान्तरं दूषयति-नन्विति।तथा चेदंप्रमेयंभावत्वादित्यत्रभावत्वाभावत्वपदंभावत्वत्वाभावत्वत्वपरम्,