________________ परामर्शनिरूपणम् 109 नैयायिकः शङ्कते - अथेति / पर्वतीयधूमे धूमत्वेन ज्ञाते सति वहिव्याप्यत्वसन्देहेऽप्यनुमितिः स्यात् / यतोऽत्रव्याप्यतावच्छेदकं यद्भूमत्वंतत्प्रकारकं पक्षधर्मताज्ञानं वर्तते, सामग्री एतदुक्ताऽस्तीतिकथं नानुमितिरिति मूलार्थः / धूम इति मूलम् / यदि तत्र धूमो वह्रिव्याप्य इति स्मरणं विद्यते तदा तदेव विशेषदर्शनं यस्मिन् सति नानुमितिः, यदि च तत्स्मरणं नास्ति तदा व्याप्तिस्मरणरूपकारणाभावादनुमितिर्न भवतीत्यर्थः / अन्यथेति मूलम् / यदि व्याप्तिस्मरणे सत्यपि संशयः स्यादित्युच्यते तदा मयोच्यते परामर्शस्य कुतो न संशयो भवति ? शङ्कते - संशयेनेति / संशयेन परामर्शः प्रतिबध्यत इति स न भवतीत्याशङ्कार्थः / तुल्यमिति मूलम् / संशयेनानुमितिरपि न भवतीति तुल्यम्। वस्तुत इति टीका / वह्निव्याप्यो धूमो न वेति संशयो न स्यादेव यतः संशयस्यानुमितिं प्रति प्रतिबन्धकता अनुमितिजनकज्ञानविघटनद्वारैववाच्या। प्रकृते चानुमितिजनको व्याप्यत्वनिश्चयः, तस्य विघटनं तुसंशयेन कर्तुं न शक्यते यतो विशेषदर्शनं व्याप्यत्वनिश्चयरूपं तत् संशयप्रतिबन्धकम्। ननु संशयो विशेषदर्शनविघटक इति / अत्र टीकाकारो युक्तिमाह - अन्यथेति।यदि संशयस्य अनुमितौ प्रतिबन्धकता स्यात् तदा अनुमितिजनकीभूतो यो व्याप्यत्वनिश्चयस्तदनिश्चयनद्वारा स्यात् नान्यथा, साक्षात् प्रतिबन्धकता नास्तीत्यर्थः / ततो व्याप्तिस्मरणे संशयो भवतीत्यागतमेव। ___मध्ये शङ्कते -नचेति। [54 B]सामान्यनिश्चयो यथा धूमो वह्निव्याप्य इति रूपः, तस्य सामान्यसंशयोधूमो वह्निव्याप्यो न वेति संशयनिवर्तकतास्ति। तथा च व्याप्तिस्मरणे विद्यमाने धूमो वहिव्याप्यो न वेति संशयो मास्तु / विशेषसंशयस्तु अयं धूमो वहिव्याप्यो न वेति संशयो भविष्यति विशेषसंशयत्वात् तस्येति / तस्य निवर्तकताभावात् / अतो विशेषसंशयनिवृत्त्यर्थं विशेषनिश्चयो वाच्य इति। अतः पृथक् व्याप्तिनिश्चयो वाच्यः * यथा अयं धूमो वह्निव्याप्य इति। तथा चायं परामर्श इति नैयायिकसमीहितं सिद्धमित्याशङ्कार्थः / उत्तरं ददातियत्र हीति तत्रेति। यदवच्छेदेन धूमत्वावच्छेदेन यद्व्यावर्तकधर्मो व्याप्तिः तज्ज्ञानं चेज्जातं तदाधूमत्वावच्छेदेन यः संशयः तव्यावर्तकमपि भवति। ___ यद्धर्मनिश्चय इति टीका।धूमत्वावच्छेदेन यदि व्याप्तिज्ञानं जातं तद्व्याप्तिज्ञानं तद्धर्मकोटिकसंशयविरोधि व्याप्तिकोटिकसंशयविरोधि। तत्राह - लाघवादिति / तत्कोटिकसंशयविरोधीति वक्तव्यम् / व्याप्तिकोटिकसंशयविरोधीति वाच्यम् / तदवच्छिन्नेति / व्याप्तित्वावच्छिन्नकोटिक]संशयविरोधि नास्ति। तत्र हेतुमाह - गौरवादिति / तथा चैतत् सिद्धं सामान्यव्याप्तिनिश्चयेऽपि विशेषसन्देहो न भवतीति सिद्धम्, तथा च ज्ञानद्वयरूपसामा यामेवानुमितिर्निर्विघ्नोत्पद्यते। नचेति टीका / घटत्वेन पटादिभेदनिश्चये जातेऽपि पृथिवीत्वेन भेदसंशयः केवलव्यतिरेकिग्रन्थे कथं स्वीकृतः ?सन लगति यद्धर्मत्वेन निश्चयो यथाघटत्वावच्छेदेनभेदनिश्चयः