________________ 108 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका वहिव्याप्य इति रूपम, तत्र व्याप्तिर्भासते एवेति, यदि व्याप्तिस्मरणं मनसा नोच्यते तदा सधमो वहिव्याप्य इति व्यवहारोऽपि भवतो मते [54 A] कथमनुभावकाभावात् इत्याशङ्कार्थः / समाधत्ते - तत्रेति। पूर्वोक्तव्यवहारे स्मृतधूमे वह्रिव्याप्यत्वमनुमीयते - यथा स धूमो वह्निव्याप्यो धूमत्वात् इत्यनुमानेन व्याप्तिरनुमीयते। ____नचतन्मते धूमत्वेन व्याप्त्यनुभव: सम्भवति, अत एव यो वह्निव्याप्यवान् सोऽवश्यं वह्निमान् इति व्याप्तिज्ञानवतोऽनुमिति न्यथा। अथ पर्वतीयधूमे धूमत्वेन ज्ञाते वह्निव्याप्योऽयं न वेति संशयेऽप्यनुमिति: स्यादिति चेत् / न। धूमो वह्निव्याप्य इति स्मरणे विद्यमाने धूमत्वज्ञानस्य विशेषदर्शनत्वेन संशयाभावात्, अन्यथा परमर्शोऽपि कुतो न स्यात्, संशयेन प्रतिबन्धादिति चेत् तुल्यम् / न च सामान्यनिश्चयस्य सामान्यसंशयनिवर्तकत्वात् धूमसामान्ये एव संशयो मा भूत् विशेषसंशयश्च विशेषनिश्चयनिवर्तनीय इतिधूमविशेषे संशयनिरासार्थं पृथग्व्याप्तिनिश्चयो वाच्य इति वाच्यम्।यत्र हि यद्वयावर्तकधर्मदर्शनं तत्र न तत्संशयः तच्च सामान्ये विशेषेवेति।वस्तुतस्तु धूमत्वपुरस्कारेण व्याप्तिस्मरणे पक्षधर्मताज्ञाने चानुमितिर्भवत्येव। ___न चेति मूलम् / तन्मते नैयायिकमते धूमत्वेन व्याप्यत्वानुभवो न सम्भवति स धूमो वह्रिव्याप्यो धूमत्वादित्यनेन। ___टीका - अवधूम इति। यथा धूमे इन्द्रियासन्निकृष्टे वह्निव्याप्यत्वपरामर्शो न सम्भवति तथा धूमत्वेऽपीन्द्रियासन्निकृष्टे वह्रिव्याप्तिव्याप्यत्वपरामर्शो न सम्भवति। तत्र हेतुमाह - विशेष्येति / इन्द्रियासनिकृष्टस्थले यदा धूमेन सह सन्निकर्षो नास्ति तथाधूमत्वेनापि सहसन्निकर्षो नास्ति, इतिकथं धूमत्वेवहिव्याप्तिव्याप्यत्वपरामर्श इत्यर्थः / यदुक्ता सामग्री व्याप्तिस्मृतिरथ च धूमत्वेन धूमज्ञानमितिरूपा तत्राप्यस्तीति अनुमितिर्भवत्येवेति भावः / अतएवेति। यतो मया व्याप्यतावच्छेदकप्रकारकज्ञानमनुमितिकारणमुक्तमतएवेत्यर्थः / अतएवेति टीका। प्रत्येकवृत्तिर्या वहिव्याप्तिर्यथा वह्नयभाववदवृत्तिरूपा यतो वह्नयभाववदवृत्तित्वं(त्वा)वच्छिन्ना या सकलवहिव्याप्यनिष्ठा या व्याप्तिः यथा वह्नयभाववदवृत्ति(त्य)समानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकवह्नित्वावच्छिन्नसमानाधिकरणो धूम इति सकलवहिव्याप्यसाधारणी या व्याप्तिस्तद्विषयकं यत् प्रत्यक्षं तद् यदा भवति तदैवानुमितिर्नान्यथा। अत्रायमर्थः / वढ्यभाववान् ह्रदस्तदवृत्तिः धूमालोकादिस्तदसमानाधिकरणो योऽत्यन्ताभावो घटपटादेः तत्प्रतियोगितानवच्छेदकं यद् वह्नित्वं तदवच्छिन्नो वह्निस्तत्समानाधिकरणो धूम इत्यर्थः।