________________ 107 परामर्शनिरूपणम् परामर्शः कारणं भवति, सोऽप्यनुमानरूपो वाच्यः, तत्राप्यनुमाने परामर्शः कारणम्, सोऽप्यनुमानरूपो वाच्यः, इत्यनवस्था स्यात् / तस्मादिन्द्रियासिन्निकृष्टस्थले व्याप्तिप्रत्यक्षस्य व्यभिचारान्न व्याप्तिप्रत्यक्ष कारणमित्युक्तम्। अथयथासदेवदत्तोगौरोनवापरमाणूरूपाधिकरणंनवेतिसंशयो बहिरस्वतन्त्रेणापि मनसा कोटिस्मरण-विशेषादर्शनादिसहकारिवशाजन्यते, यथा वा निद्रासहकारेण बाह्यस्वप्नानुभवः तथेहापिज्ञानान्तरोपनीतविशेष्ये व्याप्तिस्मरणसहकृतेन मनसापरामर्शो जन्यते तदनन्तरमनुमितिदर्शनादिति चेत्।न।व्याप्तिस्मरणादेः प्रमाणान्तरतापत्तेः, तदेव हिप्रमाणान्तरंयदसाधारणंसहकारिसमासाद्यमनोबहिर्गोचरांप्रमांजनयति यथेन्द्रियादि, संशय-स्वप्नौ तु न प्रमे इति न निद्रादेः प्रमाणान्तरत्वम् / न च तवापि कथं स धूमो वह्निव्याप्य इति व्यवहारः तदानीं तद्वयाप्यत्वानुभावकाभावादिति वाच्यम् / तत्र स्मृतधूमे धूमत्वेन वह्निव्याप्यत्वानुमानात्। अथ नैयायिकः परामर्शस्य कारणतामानयितुं शकते - अथेति मूलम् / अयं परमाणुरूपविषयः संशयो मनसा जन्यते / यद्यपि तजनने मनसो बहिःपदार्थगोचरज्ञानजनने स्वातन्त्र्यं नास्ति किन्तु ज्ञानसुखादिकामतर(दिकमान्तर)मेषितेन ज्ञापयितुं तेन स्वातन्त्र्येण शक्यते, प्रकृते कोटिस्मरणादिसहकारिकारणवशाद् बहिरप्युक्तसंशयो जन्यते / यथा वेति / स्वप्नानुभवो निद्रासहकारिवशान्मनसा जन्यते / तदनन्तरमिति / संशयानन्तरंपरमाणु: रूपवान्नवेतिसंशयानन्तरमितिसन्देमीतिअनुव्यवसायः, अथवाऽस्य स्वप्नानुभवानन्तरम् अपि स्वप्नो मया दृष्ट इति अनुव्यवसायो वर्तते / तथेति / तद्वद् इहापीति / इन्द्रियासन्निकृष्टधूमवह्निस्थले ज्ञानान्तरोपनीतो यो धूमः / कथम् ? पूर्वं यो धूमो दृष्टोऽभूत् तदर्शनमेव धियाऽसन्निकृष्टस्य धूमस्योपनायकं यथा बाह्मणोपनीते सौरभे प्रत्यक्षदृष्टेऽपि चन्दने घ्राणोपनीतं सौरभ भासते। तथेहापि ज्ञानोपनीतो यो विशेष्यो धूमः तत्र व्याप्तिस्मरणसहकृतं यत् मनः तेन परामर्शो जन्यते / तदनन्तरमनुमितिरिति कृत्वा परामर्शकारणमागताम्] एवेत्याशङ्कार्थः / व्याप्तिस्मरणादेरिति मूलम् / यदसाधारणेत्यादिना / तथा च मनोऽसाधारणं सहकारि व्याप्तिस्मरणलक्षणमासाद्य बहिर्गोचरां परामर्शरूपां प्रमा जनयतीति / व्याप्तिस्मरणमपि प्रमाणान्तरं स्यादित्याशङ्कार्थः / ननु व्याप्तिस्मरणं प्रमाणान्तरं भवति, कथं परामर्शद्वारा व्याप्तिज्ञानमप्यनुमितिकरणं वर्तते ?, इत्यन्यथा व्याचष्टे - प्रमाणान्तरत्वेनेति / तथा च परिगणितानि तदपेक्षया पृथक्परिगणनं स्यादित्यर्थः / ननु तर्हि निद्रादेः प्रमाणान्तरता कथं स्यादित्यत आह - संशयेति / प्रमां जनयतीत्युक्तत्वादिति भावः / न चेति / मीमांसकमतेऽपि ज्ञानद्वयमनुमितौ कारणम्, प्रथमं यद्वयाप्यतावच्छेदकप्रकारकं स धूमो