________________ 106 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका व्यप्याभेदेति। तथा च तत्राभेदप्रत्यक्षो(क्षं) न भवति, किन्त्वनुमितिरेव तत्रभवतीति मूलार्थः। अन्यथेति / यदि भिन्ने विषये अनुमितिसामग्री बलवतीति नोच्यते तदी(दा) परामर्शो जातः पुनरपि परामर्शः कुतो न भवति, परामर्शधारा कुतो न भवति ? तदनुव्यवसायेति / वहिव्याप्यधूमवन्तं जानामि इत्यनुव्यवसाय एव कुतो न भवति ? अथ धूमो वह्निव्याप्य इति स्मरतः पर्वतीयधूमेन्द्रियसन्निकर्षे प्रथमत एव व्याप्तिधूमत्वयोर्वैशिष्टयं यत्र भासते विशेषणज्ञानस्य पूर्वं वृत्तत्वात् तत्र, यत्र चाप्तवाक्याद् वह्निव्याप्यवान् अयमिति ज्ञानं तत्रोभयत्रापि लाघवात् पक्षधर्मव्याप्यत्वज्ञानस्य हेतुत्वकल्पनादन्यत्रापि तथेति चेत् / न / इन्द्रियासनिकृष्टेऽतीन्द्रिये च लिङ्गे प्रत्यक्षविशिष्टज्ञानसामग्रीविरहात् तेन विनानुमित्यनुत्पादापत्तेः अस्मदुक्तसामग्र याश्च तत्रापि सत्त्वात् / न चानुमानात् तत्र परामर्शः, अनवस्थानात्। पुनर्नैयायिकः शङ्कते - अथेति।सवहिव्याप्योधूम इति स्मरणं जातं पर्वतीयधूमे यदेन्द्रियसन्निकर्षो जातः / प्रथमत एवेति / इन्द्रियसन्निकर्षानन्तरमेवेत्यर्थः / व्याप्तीति / यथा वह्निव्याप्यो धूम इत्यत्र व्याप्तिर्विशेषणं धूमो विशेष्यस्तेन तयोर्वैशिष्टयभानं विशेषणज्ञानस्य व्याप्तिज्ञानस्य पूर्वं विशिष्टज्ञानात् पूर्वं वृत्तत्वात् जातत्वादिति हेतुः / यत्र चेति / आप्तवाक्यात् परामर्शज्ञानं व्याप्तिप्रकारकं जातम् / कारणत्वमुभयत्रापि पूर्वोक्तस्थलद्वये व्याप्तिज्ञानस्य कारणता दृष्टेति।सर्वत्र तदेव कारणमस्तु इत्याशङ्कार्थः। मीमांसकः समाधत्ते - इन्द्रियेति। पूर्वोक्तं व्याप्तिप्रकारकपक्षधर्मताज्ञानमेव कारणम् / ननु व्याप्यत्वावच्छेदकप्रकारकज्ञानं न कारणमिति। तत्र दूषणमाहइन्द्रियेति। यत्र धूम इन्द्रियासन्निकृष्टोऽस्ति। अतीन्द्रिये लिङ्गे यथा [53 B] आकाशं नित्यसङ्ख्यावत् नित्यपरिमाणवत्त्वात् इति रूपे प्रत्यक्षविशिष्टसामग्री नास्ति, ततो व्याप्तिप्रत्यक्षाभावात् अनुमितिर्न स्यात् / ततो व्यभिचारादिति टीका। इन्द्रियासन्निकृष्टस्थले व्यभिचारात्।यतस्तत्र व्याप्तिप्रत्यक्षसामग्री नास्ति ततो व्याप्तिप्रकारकपक्षधर्मताज्ञानं कारणं [न] भवति / अस्माकं मीमांसकानां मते व्याप्यत्वावच्छेदकप्रकारकज्ञानं चातीन्द्रियस्थलेऽपि वर्तते इति कृत्वा तत्रानुमितिर्मम मते भवति, व्याप्यत्वावच्छेदकप्रकारकं यत्पक्षधर्मताज्ञानं यन्मदुक्ता सामग्री सा च ज्ञानमात्रं (सा चात्र) वर्तत एव / तव मते व्याप्तिप्रत्यक्षसामर यभावादनुमितिर्न स्यात् इत्यर्थः। न चेति / तत्रेन्द्रियासन्निकृष्टस्थले व्याप्तिप्रत्यक्षं यद्यपि नास्ति तथाप्यनुमानात् परामर्शो वाच्यः / यथानुमाने पर्वतवृत्तिधूमत्वं वह्रिव्याप्तिव्याप्यं धूमत्वात् इत्यनुमानरूपपरामर्शेऽनवस्थादूषणमाह - अनवस्थानादिति / अत्र