________________ परामर्शनिरूपणम् 105 न चेति मूलम् / व्याप्तिज्ञानस्य व्याप्यतावच्छेदकप्रकारकज्ञानत्वेन वा कारणता विवक्षिता किं वा व्याप्तिप्रकारकज्ञानत्वेन ? धूमो वह्रिव्याप्यः धूमवांश्चायमिति ज्ञानद्वयम् / अत्र धूमत्वं व्याप्यतावच्छेदकं व्याप्तिप्रकारकज्ञानं च वहिव्याप्यधूमवानिति रूपम् / तन्मध्ये अनुमितिं प्रति व्याप्यत्वज्ञानं धूमो वहिव्याप्य इति व्याप्तित्वप्रकारकंज्ञानं कारणमस्तु।लाघवादितिमूलम्।ज्ञानद्वये अवच्छेदकपदस्याधिकस्यप्रविष्टत्वादित्यर्थः / उपजीव्यत्वादिति टीका / व्याप्यत्वावच्छेदकं ज्ञानं [53 A] व्याप्यत्वज्ञानजन्यमिति तदेवास्तु / तस्येति मूलम् / व्याप्तिप्रकारकज्ञानस्यानुमितेः पूर्वं सिद्धिर्नास्ति प्रमाणेन तत्र पूर्वं साधितं नास्ति / युगपदिति / व्याप्यत्वावच्छेदकप्रकारकज्ञानव्याप्तिप्रकारकज्ञानयोयुगपदुपस्थिति स्तीति कथं लाघवगौरवावतारः इति मूलार्थः / सामग्रीति। सन्निकर्षादिसामग्रीबलेन व्याप्तिप्रकारकं यज्ज्ञानं तत् सिद्धमेव। तदनन्तरं युगपदुपस्थिती सत्यां लाघवगौरवावतारो भविष्यतीत्याशङ्कते - नन्विति। अथ यथा तत्ताविशिष्टस्मरणे सतीन्द्रियसनिकृष्टे स एवायमिति अभेदप्रत्ययो भवति तथेन्द्रियसन्निकृष्टे धूमे वह्निव्याप्यधूमस्मरणे धूमत्वासाधारणधर्मदर्शनाद् व्याप्योऽयमित्यभेदप्रत्यय: स्यात् सामायावृत्तत्वादिति स एवानुमितिहेतुरिति चेत्।न।प्रत्यक्षसामग्रीतोऽनुमितिसामा या बलवत्त्वात् अनुमितिरेवोत्पद्यते, न तु व्याप्याभेदप्रत्ययः / अन्यथा तवापि परामर्शानन्तरं परामर्शान्तरं तदनुव्यवसायो वा भवेत्, न त्वनुमितिः। __नैयायिकः शङ्कते- अथेतिमूलम्।पूर्वं तत्ताविशिष्टस्मरणंयथासइति।इन्द्रियसन्निकृष्टे तस्मिन्नेवसएवायमिति अभेदप्रत्ययो जायते। तथा प्रकृतेऽपि। इन्द्रियसन्निकृष्टो योधूमः तत्र वहिव्याप्यधूमस्मरणे स एवायं धूमो वह्रिव्याप्य इति अभेदप्रत्यभिज्ञानं तथा च युगपदुपस्थितिवर्तते। लाघवगौरवावतारो भविष्यतीति। सामर याः संस्कारसन्निकर्षरूपसामर याः सत्त्वात् / स एवानुमितिहेतुरिति / व्याप्तिप्रकारकपरामर्शोऽनुमितिहेतुरस्तु इति मूलार्थः। समाने विषये इति टीका / यथा स्थाणुर्वा पुरुषो वेति संशयो जातः, ततः पुरुषत्वव्याप्यकरादिमानिति विशेषदर्शनम्, ततः पुरुषप्रत्यक्षज्ञानम्। तत्रानुमितिः कुतो न भवति यथा अयं पुरुषः करादिमत्त्वात् ? तत्रोच्यते। अनुमितिस्तत्र न भवति। समाने विषये प्रत्यक्षसामा या बलवत्त्वम्। समानविषयत्वं तु - विशेषदर्शनमपि पुरुषत्वस्य, अनुमितिरपि पुरुषत्वस्य इति।समानविषये प्रत्यक्षसामग्री बलवतीति प्रत्यक्षमेव भवतीति। अनुभव एव तत्र प्रमाणम्। यदि प्रत्यक्षसामग्री बलवती तर्हि परामर्शोत्तरं वह्रिप्रत्यक्षं ज्ञानं कुतो न भवतीति ? अत्र उच्यते / भिन्नविषये इति / परामर्शो धूमस्य, प्रत्यक्षं तु वहः, इति परामर्शप्रत्यक्षयोभिन्नविषयत्वात् अनुमितिरेव / प्रत्यक्षे तु विशेषदर्शनं पुरुषत्वस्य, अनुमितिरपि पुरषत्वस्य, इति समानविषयत्वमेव /