________________ |परामर्शनिरूपणम्। पक्षधर्मस्य व्याप्तिविशिष्टज्ञानमनुमितिहेतुः / ननु व्याप्यत्वावच्छेदकप्रकारेण व्याप्तिस्मरणं पक्षधर्मताज्ञानं तथा लाघवात् परामर्शहेतुत्वेनावश्यकत्वाच्च एवं च धूमो वह्निव्याप्यो धूमवांश्चायमिति ज्ञानद्वयादेवानुमितिरस्तु / न चानुमितिं प्रति व्याप्यत्वज्ञानमेव हेतुर्लाघवात् उपजीव्यत्वाच्चेति वाच्यम् / तस्यानुमितेः पूर्वमसिद्धौ युगपदुपस्थित्यभावात्। परामर्शनिरूपणम्] [52B] पक्षधर्मस्येति मूलम्। नैयायिकानां मतेपक्षधर्मस्यधूमस्य व्याप्तिविशिष्टज्ञानमनुमितिकारणं वह्निव्याप्यधूमवानयमित्यकारकम् / तथा च न्यायमते अनुमितेः कारणं विशिष्टज्ञानमेकं कारणम् / व्याप्तिप्रकारकपक्षधर्मताज्ञानं विशिष्टज्ञानम्। मीमांसकमते तु अनुमितौ ज्ञानद्वयं कारणम्। यथा धूमो वहिव्याप्यः, धमवांश्चायमिति द्वितीयम् / अत्र मीमांसकः शङ्कते - नन्विति। व्याप्यतावच्छेदकं धूमे धूमत्वम्, तेन धूमत्वं प्रकारो यत्र एतादृशं यद्व्याप्तिस्मरणं पक्षधर्मताज्ञानं धूमवांश्चायमिति रूपम्। तथेति। कारणम् एतावतोक्तम्। अनुमितौ ज्ञानद्वयमेव कारणं लाघवात् इति / विशिष्टवैशिष्ट्यावगाहि यत् ज्ञानं वहिव्याप्यधूमवान् पर्वत इत्येवंरूपं तज्ज्ञानापेक्षया लाघवम्, ज्ञानद्वयस्यानुमितिकारणत्वेन लाघवम्, विशिष्टवैशिष्ट्यावगाहिज्ञानापेक्षया विशिष्टज्ञाने लाघवम् / यथा धूमो वह्रिव्याप्य इति व्याप्तिर्विशेषणं धूमो विशेष्य इत्येव विशिष्टज्ञानम् / द्वितीयं ज्ञानं धूमवांश्चायमिति। तत्रापिधूमत्वविशिष्टधूमज्ञानं विशिष्टज्ञानम्। तथा च विशिष्टज्ञानं विशिष्टवैशिष्टयज्ञानापेक्षया लघु / तदेवानुमितौ कारणमस्तु, किं परामर्शरूपविशिष्टवैशिष्ट्यज्ञानेन इति मूलार्थः / परामर्शेति / येनापि परामर्शो हेतुर्वक्तव्यस्तेनापि परामर्शहेतुत्वेन ज्ञानद्वयं वक्तव्यमेव। यदि धूमो वह्रिव्याप्यः 1 धूमवांश्चायम् 2 इति ज्ञानद्वयं जातं भवति तदैववहिव्याप्यधूमवानयमिति परामर्श उत्पद्यते तत्कारणत्वात् तस्य इत्यर्थः / तद्धेतोरेवास्तु किं तेनेति न्यायादनुमितावेव ज्ञानद्वयस्य कारणताऽस्तु इति मूलाशङ्कार्थः / व्याप्तिनिश्चय इति टीका / यथाश्रुतेऽसङ्गतिः, यतो व्याप्तिप्रत्यक्षादपि अनुमितिर्जायते, तत्र व्याप्तिस्मरणं नास्ति, इत्यतोऽन्यथा व्याचष्टे / निश्चयस्तु स्मरणप्रत्यक्षसाधारण इत्यर्थः / अतिरिक्तेति। ज्ञानद्वयादतिरिक्तमेकं विशिष्टवैशिष्ट्यावगाहिज्ञानं किमर्थंकल्पनीयमित्यर्थः / द्वयत्वमितिउभयेति। उभयंव्याप्तिपक्षधर्मतेतद(द)गोचरं यत् समूहालम्बनम् / यथा धूमो वह्निव्याप्यो धूमवांश्चायमिति भिन्नविषयकमेकं ज्ञानं समूहालम्बनम् / तस्मादेकस्मादप्यनुमितिर्जायते। अतो ज्ञाने द्वित्वमविवक्षितम् द्वित्वनियमोऽविवक्षित इत्यर्थः /