________________ पक्षतानिरूपणम् 103 आद्ये घनगर्जितेन यत्रानुमानं तादृशी सिषाधयिषा अप्रसिद्धा सिषाधयिषाया एवाभावात् / अन्त्ये इति स्पष्टम् / सिषाधयिषेति / तत्कालीनी या सिषाधयिषा तद्विषयत्वाभावः साध्ये इति लभ्यते विशेषणस्य सम्बद्धत्वात् / न चेति / तत्कालीनत्वमपि विवक्षायां प्रवेशनीयम् / एवं चेति / पक्षधरमते द्वित्रिक्षणान्तरितसिषाधयिषायां यत्रानुमितिस्तत्र तत्कालीना सिषाधयिषा नास्त्येवेति कृत्वा अनुमितिः कथं स्यादितिचिन्त्यम्। पक्षानातरेति। यत्र महानसे वह्नः [52 A] सिषाधयिषा पक्षे पर्वते सिद्धिसाधनं तत्रापि पक्षता स्यात्। सिषाधयिषाविषयत्वा(त्वं) साध्येऽस्ति / अत एवेति / यतः पूर्वोक्तं सिषाधयिषाविषयत्वमेव साध्ये वर्तते / अतः कथमनुमितिः स्यात् स्वीयेति, अनुमितिकाले सिषाधयिषाया नष्टत्वात्। तद्विषयत्वाभाव एव साध्येऽस्ति। यस्य पुरुषस्य पक्षे वर्तते कदाचिदपि सिषाधयिषाभूततत्पक्षकानुमितिस्थले सिषाधयिषा अप्रसिद्धा इत्यपि चिन्त्यम्। वस्तुत इति। त्वया अन्यपुरुषीयान्यकालीयसिषाधयिषामादाय अतिप्रसङ्गो लक्षणस्य दत्तः समा(म)स्ति कथं तत्पुरुषे ? अन्यकालीनाऽन्यदीया च सिषाधयिषा तत्र(तत्)पुरुषे नास्त्येव यतस्तल्लिङ्गकत्वं तत्पक्षकत्वं विवक्षितं वर्तते। मतान्तरमाह - यत्त्विति / सिद्धयनन्तरं या अनुमितिर्भविष्यति तत्र सिषाधयिषा- विशेषसामग्री परामर्शमात्रं सामान्यसामग्रीति विशिष्टाभावः - कारणमेव न भवति / तथा च सिषाधयिषा अनुमितिविशेषे कारणम्, यत्र सिद्धयुत्तरमनुमितिस्तत्रैव कारणम् / विशिष्टाभावेन सर्वत्रानुमितौ सिषाधयिषा कारणमित्यायाति। कारणत्वं तु सर्वत्र न्या(ना)स्त्येवेति भावः / एवमिति / दाहे उत्तेजकाभावविशिष्टः मण्यभावः कारणम्, सोऽपि न स्यात् / कुतः ? मणिसमवधानं दाहे उत्तेजकम् / विशेषसामग्रीति। दाहेऽपि विशिष्टाभावो हेतुर्न स्यात् / न चेष्टापत्तिः निराकरिष्यमाणत्वात् / शङ्कते - नन्विति / सिषाधयिषाविरहविशिष्टसिद्धिरनुमितौ प्रतिबन्धिका भवतीति तदभावः प्रतिबन्धकाभावत्वेन कारणं वक्तव्यम्। तच्च न सम्भवति। कुतः ? प्रतिबन्धकाभावस्य कार्यकाले एव हेतुत्वमवधारितम् / तथा च सिषाधयिषाविरहविशिष्टसिद्धयभावस्य कथं पक्षता ? कार्यम् अनुमितिः, तत्काले सिषाधयिषाविरहविशिष्टसिद्धयभावो नास्ति सिद्धेः सत्त्वादित्याशङ्कार्थः / दूषयति / मण्यादि(दी)ति / प्रतिबन्धकाभावस्य कार्यसहभूतत्वेन कारणतायां मण्यादेविद्यमानेऽपि दाहः स्यात् यतो मणे: पूर्वमभावः स्थितः इति कृत्वा दाहः स्यादिति बाधकेनान्यत्र प्रतिबन्धकाभावस्य कार्यसहभूतत्वेन कारणत्वे प्रकृतेऽनुमितिस्थले कार्यसहभूतत्वेन कारणत्वं न कल्पनीयम्, गौरवात् / अथवा इयं विवक्षा कर्तव्या - कार्यसहभूतस्य प्रतिबन्धकाभावस्य कारणता कार्यातिरिक्तं प्रतिबन्धकं यत्र नास्ति तत्र कल्पनीयं(या), यत्र तु कार्यातिरिक्तमेव प्रतिबन्धकं तत्र कार्यसहभूतत्वेन कारणत्वं न कल्पनीयम् / पूर्वं व्याप्तिर्निरूपिता तदनन्तरं पक्षता आश्रयधर्मिधर्मिता पक्षताऽपि निरूपिता / अथ व्याप्तिविशिष्टपक्षधर्मताज्ञानस्य कारणत्वं विचारयति इत्युपोद्घातसङ्गतिज्ञेया। / पक्षतानिरूपणं सम्पूर्णम्।