________________ 102 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिंका अनुमितित्वप्रकार(रि)केच्छा नास्ति द्वितीयानुमितित्वप्रकारिकेच्छा अस्ति यतः प्रथमानुमितित्वप्रकारिकेच्छाभावविशिष्टसिद्धेः प्रतिबन्धकस्य विद्यमानत्वात् / नापीति / अनुमितिमात्रविषयिणीच्छा सा.। तथा च पूर्वदूषणं निवृत्तम् / द्वितीयानुमितिमात्रविषयिणी वर्तते इति कृत्वा दूषणं न भवति / दूषयति / सिद्धयनन्तरं प्रथमतो यत्रानुमितिर्जाता पुनर्जानीयामितीच्छा जाता तदनन्तरं परामर्शो जातः तादृशस्थलेऽनुमितिर्न स्यात् यतस्तत्रेच्छा जानीयामिति ज्ञानमात्रविषयिणी न त्वनुमितिमात्रविषयिणीति / सिद्धान्तयति किन्त्विति / सिषाधयिषेदृशी विवक्षिता। अनुमितिगोचरेछामात्रम् अनुमितिविषयिणीच्छामात्रम् / सा चानुमितित्वप्रकारिका वा भवतु / यथा अनुमितिर्मे जायतामिति रूपा, अत्र सिद्धिर्मे जायतामिति रूपा वेत्यत्र नास्तीत्यर्थः / एकलिङ्गेत्याधुक्तौ अपि अनुमितिविषयिणीच्छा वर्तते एवेति शेषः / न दोषः / न चेति। पूर्वं धूमेन वह्नयनुमित्सा जाता तत्रालोकादिना वढ्यनुमितिः स्यात् अनुमित्सायाः सत्त्वादित्याशङ्कार्थः / उत्तरमाह - या अनुमितिः [51B] येन लिङ्गेन यत्रोत्पद्यते तद्विषयिणीच्छा विवक्षितेति पूर्वोक्तो न दोषः / न चैवमिति / पूर्वं पुरुषं जानीयामितीच्छा जाता तदनन्तरं यत्र पुरुषविषयकः संशयः जायते तत्र प्रत्यक्षसामा यां विशेषदर्शनरूपायां संशयोत्तरप्रत्यक्षस्थलेऽप्यनुमितिः स्यात् / अत्रेच्छा पुरुषं जानीयामिति रूपा वर्तते, अनुमितिसामग्री अनुमित्सापरामर्शरूपा विद्यते सामर यां सत्यामपि प्रत्यक्षमेव जायते न त्वनुमितिरिति कथं स्यात् / न च तत्र प्रत्यक्षसामग्र या अनुमितिप्रतिबन्धानानुमितिरिति वाच्यम् / अनुमित्सेति। यद्यनुमित्सा तदा प्रतिबन्ध एव कर्तुं न शक्यते। दूषयति। प्रत्यक्षसामग्र याम् उत्तेजिका कीदृशीच्छा ? या प्रत्यक्षातिरिक्तसिद्धिमात्रविषयिणीच्छा / सा च संशयोत्तरप्रत्यक्षस्थले नास्ति। कुतः ? पुरुषं जानीयामितीच्छायाः प्रत्यक्षातिरिक्तसिद्धिमात्रगोचरत्वाभावात् / प्रत्यक्षेणापि पुरुषज्ञानेच्छाऽस्त्येव / तदिति उभयं नेति।प्रत्यक्षसामग्रीप्रतिबन्धिका अथ चपक्षताघटिताएकैवेच्छा विवक्षिता। तथा च संशयोत्तरप्रत्यक्षस्थले नानुमितिः स्यात् / तत्साध्यीयाऽपि विवक्षणीया / अन्यस्य सिषाधयिषया अन्यस्यानुमितिः स्यात् / अन्यसाध्यविषयकसिषाधयिषया अन्यसाध्यविषयाऽनुमितिः स्यात् / तत्कालीनापि विवक्षणीया / अन्यथा भिन्नकालीनां सिषाधयिषामादायानुमितिः स्यात् / एवं चेति / पूर्वोक्ता तत्पुरुषीयेत्यादिका सिषाधयिषा घनगर्जितस्थले अप्रसिद्धा। यदा घनगर्जितमवगत्य मेघानुमानं जायते तत्र सिषाधयिषाघटिता पक्षता नास्ति इति कथमनुमितिरिति पूर्वपक्षार्थः / समाधत्ते - स्वीयेति / साध्ये स्वीयसिषाधयिषाविषयत्वाभावसमानाधिकरणसिद्धिविषयत्वाभावः पक्षता / अयमर्थः - स्वीया या सिषाधयिषा तत्पुरुषीया तद्विषयत्वाभावसमानाधिकरणा या सिद्धिः तद्विषयत्वाभावः साध्ये पेक्षि(पक्ष)ता। एवं च पर्वतो वह्निमान् इत्यत्र साध्ये वह्नौ समानाधिकरणा या सिद्धिः सिद्धयन्तरे वर्यद्भविष्यति तया सह समानाधिकरणाऽऽत्माद्यधिकरणा या सिद्धिस्तद्विषयत्वाभावः साध्ये वर्तते / तथा च वह्रिसिद्धयन्तरविषयत्वाभावः पर्वतवह्नौ वर्तते इति कृत्वा तादृशं साध्यं वर्तते इति पक्षता पक्षनिष्ठा / शङ्कते - नन्विति / अत्र लक्षणे सिषाधयिषायां तत्कालीनत्वं विवक्षितं न वा ?