________________ पक्षतानिरूपणम् 101 यत्र सिषाधयिषायांजातायामपि सिद्धयननुगुणविषयान्तरसञ्चारोऽस्ति तदनन्तरं स्मरणलक्षणः परामर्शः तत्राप्यनुमित्युत्पादे प्रमाणं नास्ति। तथा च सिषाधयिषोत्पादानन्तरं विषयान्तरसञ्चारो यत्रास्ति तत्रानुमित्युत्पादप्रसङ्ग एव नास्ति। अनुभवाभाव एव प्रमाणं तत्र / द्वित्रिक्षणान्तरितायामनुमितिर्भवति लिङ्गदर्शनादिना / तथा च लिङ्गस्य प्रघट्टकार्थः। यत्रानुमित्सा जाता तदनन्तरंसिद्धयननुगुणविषयान्तरसञ्चारोजातः तदव्यवहितोत्तरक्षणे एव स्मरणलक्षण एव परामर्शः तत्रानुमितिर्न स्यात् सिद्धयननुगुणान्तरितत्वाभावात्। न चेष्टापत्तिस्तत्र। अनुमितिर्न भवत्येवेतीष्टापत्तिरित्यर्थः। परामर्शाव्यवहितसमये विनश्यदवस्थानुमित्सासत्त्वेनएकक्षणान्तरितायां सिषाधयिषायामनुमितिर्न भवति लिङ्गदर्शनादिनाद्वित्रिक्षणान्तरितायां तस्यामनुमितिर्भवतीत्यत्रप्रमाणाभाव इत्यर्थः / अत्र युक्तिमाह - स्वाव्यापारीति। 'स्व'शब्देनानुमित्सा। तस्या अव्यापारीभूतेन व्यासङ्गेन लिङ्गदर्शनेनान्तरितस्य तुल्यत्वात् लिङ्गदर्शने अनुमित्साऽजन्यत्वेनाव्यापार एवेति भावः / तस्मादिति / यत्र सिषाधयिषा द्वित्रिक्षणैर्व्यवहिता तत्रानुमित्युत्पादो यद्यङ्गीक्रियते तदाऽनुमित्सोत्पादानन्तरं यावत्क्षणानन्तरमनुमित्यभाव उभयसिद्धः तावत्क्षणानन्तरितत्वमेवानुत्पादकाले विशेषणं दीयतामिति युक्तमित्यर्थः / न चैवमिति। प्रथममनुमित्सा जाता, तदनन्तरं विषयो वढ्यादिः प्रत्यक्षीकृतः। तदग्रिमेति।प्रत्यक्षाग्रिमक्षणे परामर्श उत्पन्नः यथा वहिव्याप्यधूमवानयमिति / तत्रापि अनुमित्युत्पत्तिः स्यात् / कथम् ? सिषाधयिषाविषयो(ये)ऽनुमितिस्तदनुत्पादकालस्य विद्यमानत्वात् पक्षतासत्त्वेनानुमित्यापत्तिरित्याशङ्कार्थः / तन्मतेति [51 A] पक्षधरमते। इष्टापत्तेः प्रत्यक्षगृहीतेऽपि साध्येऽनुमित्सासत्त्वादनुमितिः स्यादेवेतीष्टापत्तेरित्यर्थः / इष्टापत्तौ युक्तिमाह - प्रत्यक्षेति। यथा पूर्व साध्यविषयकं प्रत्यक्षं जातं तदनन्तरं द्वित्रिक्षणव्यवधानेन सिषाधयिषाजाता तादृशस्थलेऽनुमित्या भाव्यमित्यङ्गीक्रियते परः प्रत्यक्षात् पूर्वक्षणे उत्पन्नायां सिषाधयिषायां द्वित्रिक्षणव्यवधानमपि जातं व्यासङ्गादिना तत्रानुमितिर्न भवतीत्यत्र किञ्चित् प्रमाणं नास्ति येन तत्रानुमितिर्नाङ्गीक्रियते / सिद्ध्यननुगुणं यत्प्रत्यक्षं तदन्तरितत्वमेवास्तीति नानुमितिस्तत्र नियामकाभावात् / सिषाधयिषा चेति / सिद्धित्वं प्रकारो यत्र एतादृशी या सिद्धीच्छा सिषाधयिषा यथा मे सिद्धिर्जायताम् इत्यादिरूपा / अत्र सिद्धित्वं प्रकारीभूयते / दूषयति - मननस्थलेति / यत्र मननं भवति यथाऽत्मानुमितिर्मननं तत्रात्मानुमितिर्जायताम् इत्यत्र सिषाधयिषायां सिद्धित्वं प्रकारो नास्ति, सिद्धेर्वेदेनैव ज्ञातत्वात्, किन्त्वनुमितित्वं प्रकारः / सिद्धिविषयेति / वस्तुगत्या या सिद्धिर्वर्तते तद्विषयिणीच्छा / तथा च यस्यामिच्छायां सिद्धिर्विषयो भवति एतादृशी सिषाधयिषेत्यपि नेत्याह - प्रत्यक्षेणेति। यद्यप्रत्यक्षेण जानीयामितीच्छा जाता सापि सिद्धिविषयिणीच्छा भवति तत्रापि सिषाधयिषाधीना पक्षता वर्ततेऽनुमितिः स्यात् / न चैवमिति / दुष्टं लक्षणम् / अनुमितित्वेति / अनुमितिप्रत्यक्षरूपा सिद्धिर्मे जायताम् इतीच्छायामनुमितित्वं प्रकारः, एतादृशीच्छा सिषाधयिषां दूषयति। एकेति। यत्रैकेन लिङ्गेन सिद्धिर्जाता लिङ्गान्तरेण पुनरनुमितिर्जाता यथा धूमेन वहिरनुमितः पुनरालोकेन वह्नयनुमितिर्जायतामित्यनुमित्सायामनुमितिर्न स्यात् वस्तुगत्या भवति।