________________ 100 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका तथा च द्वितीयानुमितिर्न भवति इत्यर्थः / पक्षकल्पान्तरमाह - यद्वेति। प्रथममिति परामर्शात् पूर्वमनुमितिः। सा अनुमितिर्ममेष्टसाधनमिति ज्ञानं सधूमो वह्विव्याप्यश्चेति ज्ञानं युगपज्जातम् / तदनन्तरक्षणे एवानुमित्सा। तदनन्तरं मानसः परामर्शः / तदुत्तरेति। पूर्वोक्तसमूहालम्बनोत्तरक्षणे जातः तदुत्तरक्षणे जातः / तदुत्तरक्षणे एवानुमित्सा। उत्तरक्षणे एव विनश्यदव(स्थ)व्याप्त्यादिस्मरणसहायात् परामर्शः / उत्तरे एवानुमितिरित्यतोऽपि सानुमित्सा तदानुमितिकाले सुलभा विनश्यदवस्था इत्यर्थः / यदा त्विति / यदा त्वनुमित्युपादे एवं क्रमस्तदापि / यदाऽनुभिवारूपपरामर्शात् अनन्तरं स्मरणरूपः परामर्शो जातः तदनन्तरमनुमित्सा जाताततः स्मरणरूपपरामर्शात् विनश्यदवस्थानुमितिः तदा अनवश्य(अविनश्य)दवस्थानुमित्सा वर्तत इति तत्र तादृशानुमित्यात्मकपरामर्शात् यो वह्रिव्याप्यधूमवान् पर्वतो वह्निमान् इतयेवंरूपात् पुनरनुमितिः कथं न जायते ? सिषाधयिषापि विनश्यदवस्था वर्तते परामर्शो वर्तते इति कृत्वा पुनरप्यनुमितिः स्यात् / तदर्थं स्वविषयानुपहिता सिषाधयिषा विवक्षिता। तथा चद्वितीयानुमितौ स्वविषयानुपहितासिषाधयिषानास्ति।स्वशब्देन सिषाधयिषा, तद्विषया सिद्धिः तदुपहितैवेति / पूर्वं सिषाधयिषा, तदनन्तरं व्याप्तिस्मरणम्, तदनन्तरंपरामर्शः, तदनन्तरमनुमितिः, तत्रापिपक्षतामाना(न)यति / अन्ये त्विति। द्वित्रिक्षणेति।यदाप्रथमक्षणे व्याप्तिस्मरणपक्षधर्मतादिज्ञानं समूहालम्बनम्, तदनन्तरंस्मरणात्मकः परामर्शः, तदनन्तरमनुमित्सा, तदनन्तरमनुमित्यात्मकः परामर्शः, तदनन्तरं पुनरनुमितेरनुभूयमानत्वात् / यथा पर्वतोऽयं वह्निमान् इत्यनुमितिः, तत्रानुमित्सा ना(ने)ति यतोऽनुमित्सा परामर्शात् पूर्वं जाता नष्टा च / तदर्थं सिषाधयिषापदेन / स्वोत्पत्त्युत्तरकालीनेति / स्वशब्देन सिषाधयिषा, तदुत्पत्त्युत्तरकालीनो यः स्वविषयसिद्धयनुत्पादकालो गृहीतः।अयमर्थः - सिषाधयिषोत्पत्त्यनन्तरं यः स्वविषयसिद्धयनुत्पादकालः। कोऽर्थः ? यद्यपि एका सिद्धिः जाता अस्ति तथापि द्वितीयापि सिद्धिः स्वविषया भवत्येव तदनुत्पादकालस्य विद्यमानकालघटितापक्षताऽस्तिएव, एतन्मते[50B]अतीन्द्रियाऽस्ति। तथा चसिषाधयिषोत्पादानन्तरंक्षणत्रयान्तरेऽपि पक्षतासत्त्वात् न दोषः / शङ्कते न चेति / यदा कुत्रचित् काले सिषाधयिषा तदनन्तरं कामिनीदर्शना(न)व्यासङ्गे जाते अनुमितिरुत्पन्ना नास्ति। तत्र मासानन्तरमनुमितिविषयः (या) सिषाधयिषा भू(धू)मप्रत्यक्षो जातः / तत्रापि भवदभिमता पक्षना(ता)स्ति, कथं नानुमितिरित्याशङ्कार्थः।समाधानमाह - सिद्धयननुगुणेति। सिद्धेरनुमितेरननुगुणो योजनानुकूलो यः क्षणः तदनन्तराितात्वमपि विशेषणं देयमित्यर्थः / तत्र च सिद्धयननुगुणान्तरितत्वात् नातिप्रसङ्ग इति ज्ञेयम्। लिङ्गदर्शनेति। यत्र लिङ्गदर्शनव्याप्तिस्मरणादिभिर्व्यवधानं तत्राप्येवं विवक्षितमस्ति। द्वित्रिक्षणान्तरितत्वं वर्तते।पूर्वसिषाधयिषा, तदनन्तरं द्वितीयेक्षणे लिङ्गदर्शनम्, तदनन्तरं तृतीये क्षणे व्याप्तिस्मरणम्, ततः परामर्शात् चतुर्थक्षणवर्तिनः पञ्चमक्षणे अनुमितिः, तत्रापि सिषाधयिषाघटिता पक्षता वर्तते एव यतः तादृशः कालो वर्तते एव / तत्रेति। यत्र व्यासङ्गादिना सिद्धिर्नोत्पन्ना तत्र बहुभिरुदासीनैः क्षणैरन्तरितत्वमिति नानुमितिः / एवमिति /