________________ पक्षतानिरूपणम् अभावः पक्षता / यदि सिद्धयभावमात्रं पक्षतेति यत्र प्रत्यक्षरूपा सिद्धिर्वर्तते सिषाधयिषा च वर्तते इति तत्र सिद्धयभावाभावात्पक्षतानस्यादित्यत आह - सिषाधयिषाविरहसहकृतेति विशेषणम्। विशिष्टाभावोऽयम्, सच कुत्रचिद्विशेष्याभावादित्यादि। अत्र सिषाधयिषाविरहो विशेषणम्, सिद्धिर्विशेष्या। अथ विशेष्याभावाद् विशिष्टाभावमाह - तेनेति / तथा च सिषाधयिषाविरहसहकृतं साधकप्रमाणं यत्रास्ति तत्र विशेष्यं नास्तीति विशेष्याभावाभावात्न विशिष्टाभाव इति तत्रन पक्षता।शयथा महानसः न पक्षः सिसा(षा)धयिषाविरहकालीन: न पक्षः / अथोभयाभावाद् विशिष्टाभावमाह - साधकेति / यदि साधकप्रमाणं वर्तते सिषाधयिषाप्यस्ति अत्र विशेषणाभावाद् विशिष्टाभावः / यथा महानसे सिषाधयिषाकालीने निश्चितसाध्यवति पक्षता / 2 / असति साधकप्रमाणे यत्र चसाधकप्रमाणं नास्ति सिषाधयिषा च वर्तते तत्रोभयाभावाद् विशिष्टाभावः पक्षता यथा पर्वते ।३।शङ्कते पक्षत्वं केवलान्वयीति।पक्षेतरत्वं नेतरभेदसाधकत्वं यथा पक्षत्वमितरेना(तरान्न) भिद्यते विशिष्टाभावत्वात् / सर्वस्यैव पक्षत्वात् इतरस्य पक्षत्वभिन्नस्याप्रसिद्धेरिति शङ्कार्थः / समाधत्ते - तथापीति सिपाधयिषेत्यादि / पक्षपदप्रवृत्तिनिमित्तमुक्तं न तु लक्षणमित्यर्थः / अथ टीका।नचैवमिति। एवमिति संशयोत्तरप्रत्यक्षस्थलेऽपि सिषाधयिषापि वर्तते। यथा इदं साधयामीति इच्छास्ति। तथा च संशयोत्तरप्रत्यक्षपूर्वक्षणे विशेष्याभावात् सिद्धयभावात् पक्षतासत्त्वेऽनुमितिः स्यादित्याशङ्कार्थः / समाधत्ते - स नेति / समानविषयत्वं चान्यूनविषयत्वम् / प्रत्यक्षसामर या वलवत्त्वात् प्रत्यक्षमेव, नानुमितिः / अत्र वदन्तीति टीका / परामर्शो यथा वह्रिव्याप्यधूमवानयमिति प्रत्यक्षरूपः परामर्शः / स्वकारणादिष्टसाधनाज्ञानादनुमित्सा / तदुत्तरक्षणे स्मरणलक्षण: परामर्शः उत्पन्नः / अनुभवरूपपरामर्शस्य चतुर्थक्षणत्वात् नाशः इति स्मरणलक्षणः परामर्शः उक्तः / तदुत्तरक्षणे ततोऽनुमितिः / तत्रेति। अनुमितिपूर्वकाले तदनी(तदानीं) पक्षताकालेऽनुमितिपूर्वकाले इत्यर्थः / ननु यत्र एतादृशपरम्परया सामग्री न संवृत्ता तत्र भिन्ना सामग्रीति कथं तंत्र गतिरित्यत आह - यद्वेति।अनुमितीष्टसाधनतायाः प्रकृतव्याप्त्यादेः समूहालम्बनरूपं स्मरणं जातम् / यथा अनुमितेर्यदिष्टसाधनं धूमो वह्निव्याप्यः पर्वतवृत्तिश्चेति स्मरणं समूहालम्बनमिति / तदुत्तरक्षणे समूहालम्बनोत्तरक्षणे एवानुमित्सा जाता [50 A] / तदुत्तरक्षणे एव पूर्वं यत् व्याप्त्यादिस्मरणं जातमस्ति तच्च विनश्यदवस्था(स्थ)मादाय तत्साचिव्यात् तत्सहकारात् मानसः परामर्शः। तदुत्तरकाले इत्यतोऽप्यनुमितिकाले अनुमित्सा अस्तीति तद्घटिता पक्षता सुलभेति / अत्र विवक्षान्तरं करोति - यदेति / कथञ्चिदिति / यदा तु पूर्वोक्तरीत्या एकानुमितिर्जाता तदनन्तरं स्मरणलक्षणः परामर्शो वर्तते अनुमित्सा च वर्तते इति अनुमितिसामग्रीसत्त्वात्पुनरप्यनुमित्यापत्तिरित्याशक्यपरिहरति-स्वविषयेति। अत्रसिषाधयिषाकीदृशी विवक्षितेत्याह - स्वेति।स्वशब्देन सिषाधयिषा, तस्याः विषयः सिद्धिः, तदनुपहिता ग्राह्या तदकालीना तदनुपरक्ता इत्यर्थः /