________________ / अथ पक्षतानिरूपणम्। व्याप्त्यनन्तरं पक्षधर्मता निरूप्यते / तत्र न तावत् सन्दिग्धसाध्यधर्मत्वं पक्षत्वम्, सन्देहोहिन विशेषणंपरामर्शपूर्व लिङ्गदर्शनव्याप्तिस्मरणादिनातस्यनाशात्।नोपलक्षणम् अव्यावर्तकतापत्तेः।नापि साधक-बाधकप्रमाणाभावः, उभयाभावस्य प्रत्येकसत्त्वेऽपि सत्त्वात् / नाप्यभावद्वयं तथा, बाधकप्रमाणाभावस्य व्यर्थत्वात् ह्रदादेः पक्षत्वेऽपि बाध-हेत्वसिद्धयादेरावश्यकत्वेनानुमित्यनुत्पादात् / नापि साधकप्रमाणाभावः, "श्रोतव्यो मन्तव्यः' इति श्रुत्या समानविषयकश्रवणानन्तरंमननबोधनात्प्रत्यक्षदृष्टेऽप्यनुमानदर्शनात् एकलिङ्गावगतेऽपिलिङ्गान्तरेण तदनुमानाच्च मन्तव्यश्चोपपत्तिभिरिति स्मरणात्। अथ सिषाधयिषतसाध्यधर्माधर्मी पक्षः तथाहि मुमुक्षोः शब्दादात्मावगमेऽपि मननस्य मोक्षोपायत्वेन सिद्धिविशेषानुमितीच्छया आत्मानुमानम्, अत एव प्रत्यक्षपरिकलितमप्यर्थमनुमानेन बुभुत्सन्ते तर्करसिकाः, न हि करिणि दृष्टे चीत्कारेण तमनुमिमतेऽनुमातार इति वाचस्पतिवचनयोरविरोधः अनुमित्सा-तद्विरहाभ्यां तदुपपत्तेरिति चेत् / न / सन्देहवत्परामर्शपूर्वं सिषाधयिषाया अप्यभावात् योग्यतायाश्चानिरूपणात् सिषाधयिषाविरहेऽपि घनगर्जितेन मेघानुमानात् स्वकारणाधीनतृतीयलिङ्गपरामर्शबलेनानपेक्षितानुमानदर्शनाच्च। उच्यते / सिषाधयिषाविरहसहकतसाधकप्रमाणाभावो यत्रास्ति स पक्षः, तेन सिषाधयिषाविरहसहकृतंसाधकप्रमाणंयत्रास्तिसनपक्षः, यत्रसाधकप्रमाणे सत्यसति वा सिषाधयिषा यत्र वोभयाभावः तत्र विशिष्टाभावात् पक्षत्वम् / यद्यपि पक्षत्वस्य केवलान्वयित्वात् नास्य भेदकत्वम्, तथापि पक्षपदप्रवृत्तिनिमित्तमुक्तम्। . अथ पक्षतानिरूपणम्। __ [49 B] सिद्धान्तमाह - सिषाधयिषेति मूलम् / सिषाधयिषाविरहसहकृतं यत् साधकप्रमाणं तस्याभावः पक्षता / अत्र 'साधकप्रमाण'शब्देन सिद्धिः ग्राह्या / यथाश्रुते चक्षुरादेः साधकप्रमाणसत्त्वेऽपि पक्षतासत्त्वेनानुमितिर्भवत्येवेत्यसम्भवः / तथा च सिषाधयिषाविरहसहाकृता] द्वि(धी)रनुमितौ क्ष(प्र)तिबन्धिकेति तस्या