________________ उपाधिवादः 97 यावत् / पक्षे एव साध्याव्यापकत्वात् एवम् / पक्षेतरसाध्याधार इति मूलम् / साध्यस्याधारः साध्याधारः साध्याधिकरणम्।पक्षेतरसाध्याधिकरणान्यतरत्वावच्छिन्न उपाध्याभासः। अत्रैवपर्वतो वह्निमान् धूमात् इत्यादौ पर्वतेतराग्निमत्त्वं पर्वतेतरत्वविशिष्टाग्निमत्त्वं नोपाधिः, पक्षे एव साध्याव्यापकत्वात् / शङ्कते-न चेति मूलम् / पर्वते साध्याभावसाधने व्यर्थविशेष्यत्वम्। पर्वतेतरत्वविशिष्टवल्याधारव्यतिरेकेण साध्याभावः पर्वते साधनीयः यत्रच विशेषणस्यपर्वतेतरत्वस्यव्यतिरेकेणैव साध्याभावस्यावगमे विशेष्यत्वस्य वह्नयाधारत्वस्य वैयर्थ्यमिति व्यर्थविशेष्यत्वादेवन तस्योपाधित्वमित्याशङ्कार्थः। तत्त्वेऽपिव्यर्थविशेष्यत्वेऽपि उपाधेराभासत्वमक्षुण्णमेवेति भावः। वस्तुतस्तु अखण्डाभावतयानव्यर्थविशेष्यत्वमितिध्येयम्।तत्तुल्यश्चेति। तत्तुल्यः पूर्वोपदर्शितवन्याधारपर्वतेतरतुल्यः।अत्रैवपर्वतोवह्निमान्धूमात् इत्यत्रैवानुमाने पर्वतेतरे इन्धनवत्त्वं पर्वतान्यत्वविशिष्टेन्धनवत्त्वं नोपाधिः पर्वते एव साध्याव्यापकत्वादिति भावः। एतेषु उपाध्याभासेषु सर्वत्र साध्यव्यापकत्वविरहात् आभासत्वमुक्तमुपाधेः / साधनाव्यापकत्वविरहात् यत्राभासत्वं तदाह - एवमिति मूलम् / एवं प्रसिद्धानुमाने पर्वतो वहिमान् धूमात् इत्यनुमाने वह्निसामा याः साध्यव्यापकत्वेऽपिसाधनाव्यापकत्वविरहात् आभासत्वमिति भावः। वह्निसामा याः वह्वेर्व्यापकत्वेन सुतरांधूमव्यापकत्वंव्याप्यव्यापकस्यसुतरांव्यापकत्वात्। आदि'पदात् द्रव्यत्वादिपरिग्रहः इत्युपाध्याभासाः सम्पूर्णाः / ।उपाधिवादः सम्पूर्णः।