________________ उपाधिवादः क्षितिरकर्तृका शरीराजन्यत्वात् इत्यत्र पूर्वसाधनस्य व्यतिरेकः अजन्यत्वम्। तस्य व्यतिरेकोऽ जन्यत्वमुपाधिर्भवत्येव। यत्राकर्तृकत्वंतत्र तत्राजन्यत्वमितिपूर्वसाधनव्यतिरेकस्य साध्यव्यापकत्वं व्यणुकादौ साधनाव्यापकत्वं चेति तस्योपाधित्वेन सर्वतान्त्रिकैरुपन्यासात् / न तस्य उपाधित्वे नियम इत्येव ग्रन्थस्य तात्पर्यमिति भावः / समीचीन इति टीका / समीचीनो यः प्रतिपक्षः प्रत्यनुमानं शर्करारसः अनित्यः अनित्यवृत्तिगुणत्वात् इत्यत्र अनित्यवृत्तिगुणत्वे समीचीनत्वं न स्यात् सोपाधित्वादित्याशङ्कार्थः / द्वितीयस्य समीचीनासमीचीनस्य वा सोपाधित्वनियमात् पूर्वसाधनव्यतिरेकस्य सर्वत्रोपाधित्वादितिशेषः। तस्योच्छेदः सोपाधित्वेनोच्छेदः इत्यर्थः / स्थापनाया इति मूलम्।स्थापनायाः पूर्वः(4) प्रयोगनिबद्धहेतोः यत्र नासत्त्वं व्यभिचारित्वंतत्र तत्साधनाभावस्य न साध्याभावव्यापकत्वमिति व्याप्याभावस्यैव व्यापकत्वादिति भावः / तथा च रसनेन्द्रियग्राह्यनिर्विकल्पकविषयत्वाभावो नानित्यत्वव्यापक इत्यर्थः / तथा च न तस्योपाधित्वं साध्यव्यापकत्वविरहात् इति / न तस्योपाधित्वम् अतएव सतः प्रतिपक्षस्य प्रत्यनुमानस्यानित्यत्वसाधकस्यानित्यवृत्तिगुणत्वस्य सत्त्वंसमीचीनत्वं नोच्छिद्यते / पूर्वसाधनव्यतिरेकस्य साध्याव्यापकत्वेनोपाधित्वविरहात् न तस्योपाधित्वम् / अत एव तस्य समीचीनत्वात् न सत्प्रतिपक्षोच्छेद इति भावः / पूर्वहेतोः शर्करारसे नित्यत्वसाधकहेतोः रसनेन्दियग्राह्यनिर्विकल्पकविषयत्वस्य तत एव पूर्वोपदर्शितव्यभिचारित्वरूपाभासत्वादेव असाधकत्वात् नित्यत्वासाधकत्वात् / यथा अयं हेतुः न नित्यत्वसाधकः सव्यभिचारित्वात् इत्यत्र / इत्यनेनैव व्यभिचारोपन्यासेन शर्करारसे नित्यत्वानुमितिप्रतिबन्धात् किं नित्यत्वाभावसाधकसमीचीनप्रतिपक्षास्य]अनित्यवृत्तिगुणत्वस्य उपन्यासेनेति। _ नत्विति टीका।सत्प्रतिपक्षस्य समानबलोपस्थित्या प्रतिरुद्धलिङ्गकार्यत्वस्य उच्छेदो नेत्यर्थः / सत्यपीति टीका / तस्य आभासीभूतपूर्वसाधनव्यतिरेकस्य उपाधित्वे सत्यपि उपाधित्वाङ्गीकारेऽपि तत्प्रतिसन्धानदशायामुपाधित्वेना(न) प्रतिसन्धानदशायाम् / दशायामिति दशाविशेषे / तस्य तदभावव्याप्यवत्तापरामर्शस्य दोषकत्वसम्भवात् अनुमितिप्रतिबन्धात् / येनोच्यते सत्प्रतिपक्षोच्छेद इति यदसमानापला(बलो)पस्थित्या प्रतिरुद्धलिङ्गकार्यत्वंतंप्रतिग्रन्थास्वरसमादाय दूषयति-किञ्चेति। यथाश्रुते सत्प्रतिपक्षपदस्य प्रसिद्धा(द्धबा)धकत्वे यत्रैवोपाधिः पूर्वसाधनव्यतिरेकस्य साध्यस्य प्रतिपक्षसाध्यस्य जन्यत्वादेरेति यावत् / साध्याव्यापकत्वं [48B] पूर्वसाधनव्यतिरेकस्यैवेतियावत्। तथा चपूर्वकल्पस्य स्थापनानुमानस्य सव्यभिचारित्वेन निर्णयदशायां न सत्प्रतिपक्षितत्वं सम्भवति समानबलत्वविरहात् / तत्रैव स्थापनानुमाने नित्यत्वसाधकानुमाने व्यभिचारे व्यभिचारस्फूर्तिदशायां साध्यव्यापकत्वाग्रहे प्रतिपक्षसाध्यस्याव्यापकत्वग्रहे व्यभिचारिहेतोरभावस्य साध्याभावव्यापकत्वात् / इति उपाधिना अनित्यवृत्तिगुणवत्त्वाभावेन तद्ग्रहे उत्तरकल्पसाध्यस्य व्यभिचारग्रहे व्यभिचारेण व्यभिचाररूपविशेषदर्शनेन उतयथापूर्वकल्पे उत्तरकल्पे वा विशेषादर्शनासम्भवे सत्प्रतिपक्षत्वस्यासम्भवात् समानबलोपस्थित्यादेरसम्भवात् समानबलत्वाभावात्। अन्यतरत्रोभयथापिव्यभिचारदर्शनान्न व्याप्य