________________ उपाधिवादः तदभिप्रायेण / वृत्तित्वेति टीका / साध्याभाववद्वृत्तित्वरूपस्य व्यभिचारस्य वृत्तित्वघटितत्वात् अवृत्तौ गगनरूपसाधने अवृत्तित्वेन तत्साध्यके गगनपक्षकद्रव्यत्वाभाववद्वृत्तित्वरूपसाध्यकानुमाने बाधितं स्यात् / [44 B] तदनुरोधेन द्रव्यत्वरूपसाध्यव्याप्तिविरह एव साधनीयः / तत्साधके द्रव्यत्वरूपसाध्यव्याप्तिविरहसाध्यकानुमाने तस्य गगनाभाववद्वृत्तित्वस्यसाध्याव्यापकत्वसम्भवात्।अवृत्तिषुगगनादिषुद्रव्यत्वरूपसाध्यव्याप्तिविरहसाध्यस्य सत्त्वेन तत्र च गगनाभाववद्वृत्तित्वरूपोपाधेरसत्त्वान्न साध्यव्यापकत्वमुपाधेरिति मूले उक्तम् गगनादौ साध्याव्यापकत्वादिति टीकाकाराभिप्रायः / उपाध्यायमतमुपन्यस्य दूषयति - यत्त्विति टीका / उभयकोटीति टीका / द्रव्यं गगनात् इत्यादौ / गगनादौ साधने यद्यपि साध्याभाववद्वृत्तित्वरूपव्यभिचारो न सम्भवति तथापि उभयकोट्युपस्थापकतावच्छेदकतारूपसाध्यव्यभिचारस्य तत्रापि सत्त्वात् तत्र साधनाभाववद्वृत्तित्वस्यासत्त्वात् न साध्यव्यापकत्वं सम्भवतीति / इत्यभिप्रायेण व्याख्यातं मूलमिति। सचेति टीका / स च व्यभिचार: गगनादौ सम्भवति / सपक्षविपक्षव्यावृत्तत्वात् गगनस्योभयोपस्थापकत्वम्, सपक्षस्य साध्यवतः व्यावृत्तत्वात् साध्याभावोपस्थापकत्वम्, विपक्षस्य साध्याभाववतो व्यावृत्तत्वात् साध्योपस्थापकत्वम् / तद् दूषयति - तन्नेति टीका। अनुमितिप्रतिबन्धार्थमनुमितिकारणीभूतव्याप्तिज्ञानप्रतिबन्धार्थम् / व्यभिचारानुमानमुपाधिव्यभिचारेण साध्यव्यभिचारानुमानम् / न चेति टीका / तस्य उभयकोट्युपस्थापकतावच्छेदकरूपवत्त्वसव्यभिचारस्य ज्ञानं नविरोधिविषयकंन व्याप्तिघटकीभूताव्यभिचाराभावविषयकम्।अविरोधीतिअविरोधिविषयत्वात् व्याप्तिग्रहस्य विरोधी यो व्यभिचारादिः तदविषयत्वादित्यर्थः / किन्त्विति। विपक्षगामित्वं साध्याभाववद्वृत्तित्वमेव / तथा व्याप्तिग्रहप्रतिबन्धकत्वं वस्तुतस्तु धूमवान् वह्नः इत्यादौ सर्वत्र सोपाधौ, कुत्रापि पूर्वसाधनाभाववद्वृत्तित्वं नोपाधिः सम्भवति। तथाहि वहिधूमाव्याप्यः धूमव्यापकार्टेन्धनाव्याप्यत्वात् इत्यत्र पूर्वसाधनस्य वहः अभावबद्वृत्तित्वं नोपाधिः / गगनादौ साध्याव्यापकत्वात् / गगनादौ धूमासामानाधिकरण्यादेव धूमाव्याप्यत्वं साध्यं च वर्तते / तत्र च वह्नयभाववद्वृत्तित्वरूपोपाधेरसम्भवात् साध्याव्यापकत्वम् / इत्थं च न कुत्रापि पूर्वसाधनाभाववद्वृत्तित्वमुपाधिः / सर्वत्र पूर्वसाधनाभाववद्वृत्तित्वस्य गगनादौ साध्यव्यभिचारित्वेन न स उपाधिरित्येव मूलाभिप्रायः / यद्यपि अत्रापि साध्याभाववद्वत्तित्वं नोपाधिः तथापि साधनाव्याप्यत्वमुपाधिः सम्भवत्येवेति। तस्य च गगनेऽपि सत्त्वात् न साध्याव्यापकत्वमिति / तथापि उपाधिमात्रोच्छेदभिया पूर्वसाधनाव्याप्यत्वस्य नोपाधित्वम् / न च वायुः बहिरिन्द्रियन्यिप्रत्यक्षः प्रमेयत्वात् इत्यादौ पूर्ववत् तत्रैवोपाधित्वसम्भवात् नोपाधिमात्रोच्छेदः इति वाच्यम् / प्रमेयत्वाव्याप्यत्वस्य गगने एवासिद्धत्वात् व्यभिचारास्फूर्तिदशायां साध्यव्यापकत्वसुग्रहात् / व्यभिचारस्फूर्तिदशायां तु धूमवान् [45 A]' ... 1. 45-46-47 पत्राणि नोपलभ्यन्ते।