SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ 92 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका तदभावव्याप्यवत्ताज्ञानस्य बाधादिज्ञानवत्स्वातन्त्र्येणैवप्रतिबन्धकत्वात् किं तत्प्रतिबन्धार्थं व्यभिचारानुमित्या इत्याशङ्कार्थः / समाधत्ते - प्रत्यक्षेणेति टीका / प्रत्यक्षेण लौकिकप्रत्यक्षेण व्याप्तिग्रहे व्याप्तिनिर्णये विरोधिव्याप्यबुद्धेस्तदभावव्याप्यवत्ताज्ञानस्य आप्रतिबन्धकत्वात् इतिभावः।अयंभावः - तदभावव्याप्यवत्तानिर्णयत्वे नप्रतिबन्धकत्वंतद्गोचरलौकिकप्रत्यक्षनिश्चयातिरिक्तत्वरूपसाध्यव्यभिचारोन्नयने [44]वह्नयभाववद्वृत्तित्वव्यभिचारित्वरूपसाधनतदभाववदवृत्तित्वस्यापि उपाधित्वसम्भवात्।तत्रतत्रापीत्थमुन्नेयमिति। उपाधिमात्रोच्छेद इति। इत्येवानिष्टापत्तिरूपः प्रतिकूलस्तर्कः तेन। तस्य वह्नयभाववद्वृत्तित्वरूपोपाधेः।साध्येति टीका।साध्यस्य धूमव्यभिचारित्वस्याव्यापकत्वनिर्णयादिति / तथा च न तस्योपाधित्वम् / सत्प्रतिपक्षे इति मूलम् / पर्वतो वह्रिव्याप्यधूमवानयं वह्नयभावव्याप्यपाषाणमयत्ववानयम् इत्यत्र पूर्वसाधनस्य स्थापनासाधनस्य धूमस्य व्यतिरेकोऽभावः उपाधिः स्यात्। यत्र यत्र वह्नयभावः तत्र तत्रधूमाभाव इति साध्यव्यापकता। यत्र यत्र पाषाणमयत्वं तत्र तत्र न धूमाभावः पर्वते एव व्यभिचारात् इति साधनाव्यापकत्वम् / यद्यपि एतस्य साध्यव्यापकत्वे सति साधनाव्यापकत्वं वर्तते एव तथापि असौ नोपाधित्वेनोद्भावनीयः सत्प्रतिपक्षमात्रोच्छेदापत्तेरिति भावः। नत्विति टीका।वह्निमान्प्रमेयत्वात् इत्यत्रपूर्वसाधनस्य मेयत्वस्य केवलान्वयित्वात् तदभावस्याप्रसिद्धया तदभाववद्वृत्तित्वमप्यप्रसिद्धमिति नोपाधिमात्रोच्छेदप्रसङ्गः। वह्निमान् प्रमेयत्वात् वायुः बहिरिन्द्रियजन्यप्रत्यक्षः प्रमेयत्वात् इत्यादौ वह्रिसामग्री-प्रत्यक्षसामायोः उपाधित्वसम्भवात् नोपाधिमात्रोच्छेद इति दूषणम्, साधनाभावाप्रसिद्धेः साधनस्य केवलान्वयित्वादिति शेषः / अवृत्तीति मूलम् / अवृत्तिगगनादौ साध्ये अयं गगनवान् पृथिवीत्वात् इत्यादौ पृथिवीत्वाभाववद्वृत्तित्वस्य गगनाव्यापकत्वात्।गगनस्यावृत्तित्वादिति।अत्र यत्र यत्र गगनाभाववद्वृत्तित्वंतत्रतत्रपृथिवीत्वाभाववद्वृत्तित्वम् इत्यत्र गन्धादौ व्यभिचारः गन्धादौ गगनाभाववद्वृत्तित्वस्य साध्यस्य सत्त्वात् पृथिवीत्वाभाववद्वृत्तित्वस्योपाधेरसत्त्वात्। साध्याव्यापकत्वं यद्यपि तथापि तद्व्यभिचारास्फूर्तिदशायां ज्ञानगत्या साध्यस्य गगनव्यभिचारित्वस्य व्यापकं पृथिवीत्वाभाववद्वृत्तित्वस्य सुग्रहमेवेति भावः। एतच्चेति टीका। एतत् गगनादौ साधने पूर्वसाधनाभाववत्तित्वं साध्यस्य व्याप्तिविरहोन्नयनतात्पर्यकम्। तथाहि इदं द्रव्यं गगनात् इत्यत्र द्रव्यत्वाभाववद्वृत्तित्वं यद्यपि गगनेऽप्यप्रसिद्ध गगनावृत्तित्वात् / तथा च तत्रोपाधिरेव नास्ति साधने साध्यव्यभिचारित्वविरहात् / कस्मिन् साध्ये पूर्वसाधनव्यतिरेकवद्वृत्तित्वमुपाधिः स्यात् इत्यनुशयेनाह - एतच्चेति टीका / एतत् गगनाभाववद्वृत्तित्वमुपाधिः साध्यव्याप्यत्वविरहानुमाने / व्याप्तिविरहेति / व्याप्तिविरहः द्रव्यत्वगगनयोः / व्याप्तिविरहानुमानाभिप्रायेण यन्मते व्याप्तिविरहोन्नायक उपाधिः
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy