________________ उपाधिवादः धानमभिप्रेत्याह - एतच्चेति टीका / यत्र साधनाधिकरणे साध्यव्यभिचारः / अधिकरणेति तत्र व्यभिचारनिरूपकाधिकरणे / सन्निकर्षाद्यभावात् इति अनेनानुमितिविरोधिप्रत्यक्षसामग्रीविरहः सूचितः / अयोग्य इत्यनेनानुमितिविरोधिप्रत्यक्षात्मकसिद्धिविरोधोऽपि दर्शितः / इत्थं च व्यभिचारोन्नयने पक्षतोपपादिता / व्याप्तिपक्षधर्मतोपपादिते च व्यभिचारोन्नयनरूपफलोपधानं सम्भवतीति भावः / अन्यथेति टीका / साधने साध्यव्यभिचारस्य प्रत्यक्षसामग्रीसत्त्वे तत्र प्रत्यक्षसामा याः बलवत्त्वेन अनुमित्यनुत्पादे व्यभिचारोन्नयनरूपफलोपधानं न सम्भवतीति भावः / यत्र च व्यभिचारप्रत्यक्षसामग्री [43 B] अधिकरणादिसन्निकर्षो वर्तते तत्रापि उपाधिव्यभिचारो विशेषदर्शनतया भ्रमसंशयोत्तरप्रत्यक्षे उपयुज्यते तथा च व्यभिचारोन्नयनमिति / अत्रोन्नयनपदमुपाधिव्यभिचारनिष्ठव्याप्यदर्शनजन्यज्ञानपरतया व्याख्येयम्। तच्चोभयथापि सम्भवति प्रत्यक्षद्वारा अनुमितिद्वारा वेति। अन्यदेतत् दृष्टान्तमाह - करादीति टीका। अयंस्थाणुर्वा पुरुषो वेतिसंशयानन्तरं पुरुषत्वप्रकारकनिर्णये करादिदर्शनं अवच्छेदकधर्मदर्शनतया [वा] भ्रमविरोधिदर्शनतया वा व्याप्यदर्शनतया वा पुरुषत्वप्रकारके निर्णये उपयुज्यते इति, तथा उपाधिव्यभिचारदर्शनमपि साध्यव्यभिचारनिर्णये उपयुज्यते / तथा च साध्यव्यभिचारोन्नयनमित्युन्नयनपदेन उपाधिव्यभिचारदर्शनजन्यसाध्यव्यभिचारज्ञानं विवक्षितं तच्च क्वचित् संशयोत्तरप्रत्यक्षं क्वचित् सन्देहः क्वचिदनुमानमित्येतत्।। ननु वह्निधूमव्यभिचारी न वेति संशयदशायाः सत्यपि व्यभिचारनिरूपकाधिकरणसन्निकर्षादौ साध्यव्यभिचारानुमितिरेवभविष्यति, उपाधिव्यभिचारज्ञानस्यव्याप्यस्य परामर्शस्वरूपस्यपक्षतायाश्च विद्यमानत्वात्, तत्कथमुन्नयनपदमुपाधिव्यभिचारदर्शनजन्यज्ञानपरतया व्याख्यातमित्यत आह - समाने इति टीका। तथा च सिद्धसाधनवत् समानविषये प्रत्यक्षसामग्री अपिअनुमितिप्रतिबन्धिका तथा चसत्यां समानविषयप्रत्यक्षसामा याम् अनुमितेरनुदयात् उन्नयनपदार्थस्यानुमानस्य तत्रबाधात् अन्यथा व्याख्यातमितिभावः। समानविषयप्रत्यक्षसामा याः प्रतिबन्धकत्वं यथा पर्वतो वह्निमान् इत्याकारानुमितित्वेन प्रतिबध्यता पर्वतो वह्निमान् इत्युक्तविशिष्टविषयतान्यूनविषयताशालिप्रत्यक्षसामग्रीत्वेन प्रतिबन्धकतेति यावत्। एतच्च संशयोत्तरप्रत्यक्षस्थले पुरुषत्वव्याप्यकरादिमान् अयम् इत्याकारकपरामर्शोत्तरजायमानज्ञानस्य प्रत्यक्षत्वेनानुव्यावासायः नानुमितित्वेनेति तथा क्लृप्तत्वमिति भावः / ननु एवं विरोधिपरामर्शस्य प्रतिबन्धकत्वे उपाधिव्याप्यत्वज्ञानस्यैव प्रतिबन्धकत्वमस्तु किं व्यभिचारानुमितेः प्रतिबन्धकत्वेनेत्यत आह - न चेति टीका। यत्र व्यभिचारनिरूपकाधिकरणे सन्निकर्षविरहात् [? न] प्रत्यक्षादिसामग्री तत्रानुमितिसामग्र या एव विद्यमानत्वात् साध्यव्यभिचारव्याप्यस्य उपाधिव्यभिचारस्य परामर्शस्य विद्यमानत्वात् न साध्याव्यभिचरितसामानाधिकरण्यात्मकव्यभिचारज्ञानं भविष्यति