________________ 90 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका द्रव्यम् आकाशात् इत्यादौ गुणवत्त्वोपाधौ अतिप्रसङ्गः / तदेव विवृणोति - आकाशमिति। आकाशं द्रव्यत्वाव्याप्यम् / तदिति / द्रव्यत्वाव्यापकगुणवत्त्वाव्याप्यत्वादिति / गुणवत्त्वादौ अपि दूषकताबीजमस्ति, एतस्य तु उपाधित्वं नास्त्येव लक्ष्यतावच्छेदकविरहात्। गगनस्य साध्याव्यभिचारित्वात् उपाधिव्यभिचारित्वविरहाच्च न गुणवत्त्वोपाधेः स्वव्यभिचारेण साधने आकाशे साध्यव्यभिचारोन्नायकत्वम्। आकाशवदिति टीका। लक्षणा- .. व्यभिचारित्वं च दर्शयति / साधनाव्यापकत्वं साधनसमानाधिकरणात्यन्ताभावप्रतियोगित्वम्, तच्च प्रकृते न सम्भवति गगनस्य साधनत्वेनावृत्तितया तदधिकरणाप्रसिद्धिः इति न लक्षणमपि तत्र गच्छति / दूषकताबीजं तु तत्रास्त्येवेति भावः / इष्टापत्त्या समाधत्ते - तथापीति टीका / दूषकताबीजे योऽतिप्रसङ्गः स दूषणावहो न भवति / तदेव दृष्टान्तेन द्रढयति। अत एवेति टीका। यत एव दूषकताबीजस्यातिरिक्तवृत्तित्वं न दूषणावहम् अत एव अप्रयोजकत्वादेरित्यादिपदात् अयोगोलकवृत्तित्वादिपरिग्रहः / तथा च व्यभिचारोन्नायकतया [43 *A] दूषकत्ववादिनापिभवता उपाधित्वशून्ये अप्रयोजकत्वे अयोगोलकत्वादौ चदूषकताबीजस्य व्यभिचारोन्नयनस्य स्वीकरणीयत्वात् / तथा भवताऽपि दूषकताबीजस्यातिप्रसङ्गोऽपि न दूषणावहः इति वक्तव्यमेवेति भावः / अभ्युपगमवादेनाह - दोषत्वेनेति टीका। दूषकताबीजस्य व्याप्तिविरहोन्नायकस्यातिरिक्तवृत्तित्वेन दूषकत्वाङ्गीकारेऽपि / स्वव्यभिचारेति टीका / अयं भावः - न हि वयं व्याप्तिविरहोन्नायकत्वमात्रमेव वक्ष्यामः किन्तु स्वव्यभिचारेणव्याप्तिविरहोन्नायकत्वम्, तच्च गुणवत्त्वे नास्तिगुणवत्त्वात्यन्ताभावस्य गगने साधने अवृत्तित्वात्, तथा चेत्थं दूषकताबीजमनतिप्रसक्तमेवेति।नचस्वव्यभिचारेणेत्यधिकमितिवाच्यम्, भवताऽपि अतिप्रसङ्गभङ्गाय स्वव्यभिचारेण साध्यव्यभिचारोन्नायकत्वस्य दूषकताबीजस्य वक्तव्यत्वात्, अन्यथा प्रयोजकत्वादौ अतिप्रसङ्गास्य] तदवस्थत्वात्। ननु साध्यव्यापकत्वे सति साधनाव्यापकत्वमिति लक्षणमुक्तम्। तत्र च साधनाव्यापकत्वं साधनसमानाधिकरणात्यन्ताभावप्रतियोगित्वम् / तच्च व्यभिचारोन्नयने एवोपयुज्यते / अत एव मित्रैरपि लक्षणं तु इत्यादिग्रन्थो दूषकताबीजमित्यादिाना] व्याख्यातं(तः) / इत्थं च दूषकताबीजाश्रय एव उपाधिपदवाच्य इति लाघवात्, न तु साधननिष्ठोपाधिव्याप्यत्वविरहः साधनाव्यापक इति पदार्थः, तथा सति व्याप्यत्वस्य सामानाधिकरण्यादिघटितत्वेन गौरवात् इति / अत आह - यद्वेति मूलम् / उन्नेयमनुमेयमित्यर्थः / तच्च योग्यता वाच्या / सा च व्याप्तिपक्षधर्मता साध्यव्यापकत्वेनोपाधेस्तदभावस्योपाध्यभावस्य साध्याभावव्याप्यत्वदर्शनात् / साध्यव्यभिचारित्वस्य वा व्याप्यत्वदर्शनात् / व्यापकव्यभिचारित्वस्य व्याप्याव्यभिचारित्वनियमात् / साधनाव्यापकत्वेन पक्षधर्मता उपदर्शिता / पक्षे साध्यव्यभिचारित्वसाधने उपाधिव्यभिचारित्वस्य साध्यव्यभिचारित्वस्य साध्यव्यभिचारित्वस्यो (सा)धनस्य साधनवृत्तित्वेन पक्षधर्मता दर्शिता। इत्थं च कदाचित् साध्यव्यभिचारानुमितिविरहेऽपि न क्षतिः / साध्यव्यभिचारोन्नयनरूपफलोप