________________ उपाधिवादः स्वातन्त्र्येण तस्य कल्पनात् / इत्थं स्वातन्त्र्येणैव प्रतिबन्धकत्वं वाच्यम् / साक्षादेवोपाधिज्ञानस्य विरोधितया च नोपाधिज्ञानस्य कारणीभूतेत्यादि व्याप्तिविरोधः साक्षाद् विरोधस्थले एव तस्याः कल्पनात् / इत्थं स्वातन्त्र्येण प्रतिबन्धकत्ववादिनामपि साध्यव्यापकत्वनिर्णयोऽवश्यमपेक्षणीय एव।तत्कथं साध्यव्याप्याव्यापकत्वेनोपाधेः साध्यव्यापकत्वमुक्तमिति भावः / तथा च साध्यव्यापकत्वानिर्णयदशायामुपाधेः दूषकत्वं केनापि प्रकारेण केनापि नाङ्गीकरणीयम् / तेन विना साध्यव्यापकत्वनिश्चयेन [42 B] विना तेषां सत्प्रतिपक्षोत्थापनादीनामसम्भवादिति भावः। तस्मादुपाधिनिश्चयात् व्यभिचारनिश्चयः तत्संशयात्तत्संशयइतिव्यभिचारज्ञानद्वारा साध्यव्यापकाव्याप्यत्वेन व्याप्तिविरहोन्नायकतया वा उपाधेर्दूषकत्वम् / यद्वा साध्यव्यापकाभाववद्वृत्तितया साध्यव्यभिचारित्वमुन्नेयम्। न च साधनाभाववद्वृत्तित्वमुपाधिरिति वाच्यम् / उपाधिमात्रोच्छेदप्रसङ्गात् सत्प्रतिपक्षे पूर्वसाधनव्यतिरेकवत् अवृत्तिगगनादौ साध्याव्यापकत्वात् संयोगादौ हेतौ साधनव्यापकत्वाच्च। __तस्मादिति मूलम् / तस्मात् व्यभिचारोन्नायकतया दूषकतायां साध्यव्याप्यसाधनाव्यापकत्वेनोपाधेः साध्याव्यापकत्वमित्युपन्यस्तदूषणोद्धारात् / उपाधिनिश्चयात् तद्वयभिचारनिश्चयः इति व्यापकव्यभिचारस्य व्याप्यव्यभिचारित्वनियमात् / तदुन्नयनप्रकारस्तु बहुधा दर्शित एव / तत्संशयात् उपाधिप्रतियोगिकव्यभिचारसंशयात् वा तत्संशयः साध्यसाधनव्यभिचारसंशयः / उपाधिसंज्ञानाऽऽहितव्यभिचारसंशयस्य यथा दूषकत्वं तथोक्तमेव। तथाचव्यभिचारद्वारोपाधेर्दूषकत्वम्। तस्मादित्यस्यार्थमाह- उपाधिरितिटीका।औचित्यावर्जित इति / साध्यव्यापकतयोपाधेः साधनवति च उपाध्यभावे यत्रा(त्र) साधनाधिकरणे उपाध्यभावस्तवावश्यं साध्याभावो वाच्यः व्यापकाभाववति व्याप्य(प्या)भावस्यावश्यंभावनियमात्। साधनवति चसाध्याभावसिद्धौ साध्यव्यभिचारित्वं स्फुटमेव / मानस इति टीका / सर्वत्रानुमित्यादिसामग्री न सम्भवति इति समाधिसौकर्यात् मानस इत्युक्तम्। साध्यव्यापकाव्याप्यत्वेनेति मूलम् / साध्यव्यापकस्योपाधेरव्याप्यत्वेन साधनस्य साधनत्वाभिमतस्य व्याप्तिविरहोनायकत्वम् / व्याप्तिविरहेति / गगनादिहेतुसाधारण्यं दर्शितम् / व्याप्तिविरहस्तु व्यभिचारितया साध्यसामानाधिकरण्यतया वेत्युक्तम् / ननु लक्ष्यतावच्छेदकं यद्वयभिचारित्वेनेत्यादिकं यत्र तदेवोपाधित्वेन लक्ष्यम्। तस्यैव दूषकताबीजंचिन्त्यते।व्याप्तिविरहोन्नायकतयाचदूषकत्वेऽतिप्रसङ्गः। लक्ष्यतावच्छेदकशून्येऽपि दूषकताबीजस्य सम्भवात् इत्याशङ्कते - यद्यपीत्यादि टीका / इदं व्याप्यत्वविरहोन्नायकतया दूषकत्वम् / इदं