________________ 87 उपाधिवादः (? ग्राहक)तौल्यादिति ज्ञानगतिमनुरुध्य, वस्तुतस्तु सौपाधिाकासाधनस्य साध्यव्याप्यत्वमेव नास्तीति भावः / तस्मादिति मूलम् / तस्मात् उपाधिज्ञानस्य हेत्वाभाससमुत्थापनद्वारा अप्रतिबन्धकत्वव्यवस्थापनात्। ज्ञायमानं सत् व्याप्तिग्रहप्रतिबन्धकत्वाच्च हेत्वाभासान्तरं सव्यभिचारादिपञ्चविधातिरिक्तं हेत्वाभासान्तरं न स्यात् तथा च पञ्चैव हेत्वाभासा इति विभागव्याघातः / यद्यपीति टीका / ज्ञायमानेन वेति / ज्ञायमानं सत् यत् अनुमितिप्रतिबन्धकं तस्यैव हेत्वाभासत्वम् / तथा चोपाधिज्ञाने सति अपि व्यभिचाराद्यस्फूर्तिदशायां व्याप्तिज्ञानदर्शनात् न तस्य साक्षात् प्रतिबन्धकत्वमिति तथा च कथं [41B] हेत्वाभासान्तरमिति। यद्यपीति आशङ्कार्थः। समाधत्ते - तथापीति। उपाधिवादिना साक्षादेव उपाधिज्ञानस्य प्रतिबन्धकत्ववादिना परिशेषानुमानेन उपाधिज्ञानस्य साक्षात् प्रतिबन्धकत्वं वक्तव्यम् / परिशेषानुमानं यथा - उपाधिज्ञानं साक्षात् व्याप्तिग्रहप्रतिबन्धकं कारणभूतज्ञानाविघटकत्वे सति सव्यभिचाराधनुत्थापानाद्वारा प्रतिबन्धकत्वात् इति / तेषामयमाशयः / अनुमितिप्रतिबन्धकतावच्छेदकरूपवत्त्वमेव प्रकृते हेत्वाभासत्वमिति भावः / वस्तुतस्तु न किञ्चिदेतत् / येनोपाधिज्ञानस्य सत्प्रतिपक्षोत्थापकतया दूषकत्वं न वक्तव्यम् / ततः साक्षादेव प्रतिबन्धकात्वं] वक्तव्यम् / तथा च ज्ञायमानं सत् बाधादिज्ञानवत् साक्षात् प्रतिबन्धकत्वात् हेत्वाभासत्वम् अक्षतम् / अन्यथा तदुद्भावने वादिनो निग्रहो न स्यात्, किन्तु उद्भावयितुरेव निरनुयोज्यानुयोगतया निग्रहः स्यात् इतिभावः।व्यभिचारोन्नायकत्वेन दूषकतामुपाधेर्व्यवस्थापयति - व्यभिचारोन्नायकत्वेनेति। अत एव मूले लक्ष्यतावच्छेदकमपि यद्वयभिचारित्वेनेत्यादिनोक्तम्। पूर्वोक्तदोषमिति / साध्यव्याप्यसाधनाव्यापकत्वेनोपाधेः साध्याव्यापकत्वसाधनेन नोपाधिव्यभिचारस्य साध्यव्यभिचारोनायकत्वमिति पूर्वोक्तदोषमुद्धरति - तर्कादिनेति / धूमवान् वढेः इत्यत्र आर्टेन्धनोत्कर्षेण धूमोत्कर्षदर्शनात् आर्दैन्धनत्वेन कारणताधूमत्वेन कार्यतावक्तव्या, साचधूमव्यापकत्वेनैवसम्भवतिअनन्यथासिद्धनियतपूर्ववर्तिन एव कारणत्वात्। तथाचइत्थमेव कार्यकारणभावेनानुकूलतर्केणार्टेन्धनस्यधूमव्यापकत्वेन निश्चिते दूषकताबीजचिन्तनं व्यभिचारोन्नयनचिन्तनम्। इत्थं चधूमार्टेन्धनयोः कार्यकारणभावमूलकतर्केणधूमव्यापकत्वेनाइँन्धनस्य निर्णयये (र्णये) न वह्नयव्यापकत्वेनाइँन्धनस्य धूमाव्यापकत्वं सम्भवति, विरोधिनः प्रतियोगितावच्छेदकावच्छिन्ननिर्णयस्य विद्यमानत्वात् / तदा वह्नौ धूमव्याप्यत्वग्रहः धूमनिरूपितव्याप्यताग्राहकानुकूलतर्कविरहात् इति पूर्वोक्तदूषणोद्धार इति भावः / तथा च व्यभिचारोन्नायकतयोपाधेर्दूषकत्वं सम्भवत्येव व्यापकव्यभिचारे व्याप्यव्यभिचारित्वनियमात् इति भावः / निश्चितोपाधीति / सन्दिग्धोपाधौ साध्यव्यापकत्वसाधनाव्यापकत्वनिश्चियविरहात् / निश्चितोपाधौ यदि व्यभिचारोन्नायकत्वेन दूषकत्वमागतं तर्हि सन्दिग्धोपाधिस्थले व्यभिचारसंशयद्वारा दूषकत्वं भविष्यतीत्याकरभावार्थः /