________________ 86 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका ज्ञानस्यान्यसाध्यसाधनीयस्य न साक्षात् प्रतिबन्धकत्वं न वा परम्परया / साक्षाद् विरोधिनो ज्ञानस्य कारणीभूतज्ञानविघटनद्वारैव प्रतिबन्धकत्वनियमात् / अत एवोक्तं कारणीभूतज्ञानविघटकातयैव ज्ञानस्य प्रतिबन्धकत्वम्।तच्चनसम्भवति, अनौपाधिकत्वज्ञानस्यव्याप्तिग्रहेऽकारणत्वात्।व्याप्तिग्रहोपायेप्रपञ्चितमित्यलमतिविस्तरेण। यद्यपीति टीका।स्वतः प्रतिबन्धकत्वं साक्षात् प्रतिबन्धकत्वम्। किन्तु अनौपाधिकत्वज्ञानविघाटानद्वारा / तथा च अनौपाधिकत्वज्ञानं चेत् व्याप्तिग्रहे कारणं भवति तदा तस्य विघटनद्वारा व्याप्तिग्रहाभावेऽज्ञानरूपासिद्धौ उपाधिज्ञानं यथाकथञ्चिदुपयुज्येत। तच्चन सम्भवति, सिद्धयसिद्धिपराहतत्वादिति भावः / वस्तुतस्तु स्वतइति मूलम् / साक्षाद् विरोधिनो ज्ञानस्य कारणीभूतज्ञानविघटनद्वारैव प्रतिबन्धकत्वमिति व्याप्तिस्फोरणाय / तथा चोपाधिज्ञानस्य साक्षात् प्रतिबन्धकत्वं नास्तीति साक्षाद् विरोधित्वं वर्तते एवेति स्फोरणाय स्वत इति / अन्यथापि व्याप्यत्वासिद्धिग्रहद्वारोपाधिज्ञानस्य प्रतिबन्धकत्वमाशङ्कते। नचेति मूलम्।साध्यस्य धूमस्य व्यापको य उपाधिरान्धनं तस्य वढेरव्याप्यत्वेन धूमव्याप्यत्वं वह्रौ ग्रहीतुं न शक्यते।साध्यव्यापकाव्याप्यत्वग्रहस्यैव प्रतिबन्धकत्वात्। तथा च व्याप्यत्वस्य व्याप्तेरज्ञानरूपासिद्धिद्वारैव साध्यव्यापकाव्याप्यत्वरूपप्रकारकोपाधिज्ञानं व्याप्तिग्रहप्रतिबन्धकमिति भावः / इत्याशङ्कार्थः। न हि साध्यव्यापकव्याप्यत्वज्ञानं व्याप्तिज्ञानकारणं येन तत्प्रतिबन्धकं स्यात्, किन्तु साध्यव्यापकव्यभिचारित्वेनसाध्यव्यभिचारित्वज्ञानद्वारा।नापिव्यभिचारोनायकत्वेन. यथा हि साध्यव्यापकव्यभिचारितया साधनस्य साध्यव्यभिचारित्वमनुमेयं तथा साध्यव्याप्यव्यभिचारित्वेन साध्यव्यभिचारित्वमुपाधेरप्यनुमेयं व्याप्तिग्राहकसाम्यात्। नापि साध्यव्यापकाव्याप्यत्वेन व्याप्तिविरहोनायकतया, साध्यव्याप्याव्यापकत्वेनोपाधेरेव साध्याव्यापकत्वसाधनात्, तस्मात् उपाधिः हेत्वाभासान्तरमिति। समाधत्ते - न हीति / साध्यव्यापकाव्याप्यत्वज्ञानं न साक्षात् प्रतिबन्धकं स्वाभावाद्यविषयकत्वात् इति पूर्वोक्तयुक्तेः / तथा च साध्यव्यापकाव्याप्यात्वज्ञान] च व्याप्तिग्रहस्य साक्षाद् विरोधीति कारणीभूतज्ञानविघटनद्वारैव तस्य प्रतिबन्धकत्वं वाच्यम्, साक्षाद् विरोधे(धि)नो ज्ञानस्येत्यादि उक्तव्याप्तेः / तथा च यदि साध्यव्यापकव्याप्यत्वज्ञानं व्याप्तिग्रहकारणं भवति तदा तद्विघटनद्वारा साध्यव्यापकाव्याप्यत्वज्ञानं प्रतिबन्धकं भविष्यति / न चैवम्, साध्यव्यापकव्याप्यत्वज्ञानस्य कारणत्वस्यैवाभावात् / व्याप्तिग्रह१. व्याप्तिग्राहकतौल्यात् इति पाठान्तरम् /