________________ उपाधिवादः 85 स्वतः प्रतिबन्धकमित्युक्तम् / न च साध्यव्यापकाव्याप्यत्वज्ञाने विद्यमाने साधनस्य साध्यव्याप्यत्वज्ञानं नोत्पत्तुमर्हतीति वाच्यम्। नापीति मूलम् / व्याप्तिविरहरूपतया व्याप्यत्वासिद्धिरूपतया / यथा धूमवान् वह्नः इत्यादौ वह्निधूमाव्याप्यः सौपाधिएकात्वात् इति प्रकारेण वह्नः धूमाव्याप्यत्वं साधनीयम् / नापीत्याशङ्कार्थः / समाधत्ते - अनौपाधिकत्वेति / अनौपाधिकत्वं यदि व्याप्तिः स्यात् तदा तदभावः उपाधिः व्याप्यत्वासिद्धिः स्यात् / न चैवम्, तस्य वह्निमान् धूमात् इत्यत्र सिद्धयसिद्धिपराहतत्वात् / प्रकृते स्थले धूमलिङ्गकवह्निसाध्यकानुमाने उपाधिः यदि प्रसिद्धोऽस्ति तर्हि तदभावः कथं साधनीयः ?, तस्य प्रसिद्धत्वेन बाधितत्वात् / अप्रसिद्धश्चेत् तर्हि प्रतियोग्यप्रसिद्धयाऽभावस्यापि अप्रसिद्धेः / साध्यव्यापकत्वेन सिद्धानां साधनाव्यापकत्वविरहः एवं साधनाव्यापकत्वेन सिद्धानां साध्यव्यापकत्वविरहः [आनौपाधिकत्वमिति चेत्, तस्य निरुक्ताभावद्वयस्य साध्यव्यापकसाधनाव्यापकंयोरेव वर्तमानत्वात् साधनावृत्तित्वेन न व्याप्तित्वं सम्भवति / इति व्याप्तिवादे प्रपञ्चितम् / तथा च व्याप्यत्वासिद्धतया नोपाधेर्दूषकत्वम् / अज्ञानरूपासिद्धिद्वारा उपाधेर्दूषकत्वमाशङ्कते - नापीति। अनौपाधिकत्वज्ञानस्य व्याप्तिग्राहकत्वेन औपाधिाकत्वाज्ञाने सति प्रतियोगिज्ञानस्य वर्तमानत्वात्।न आनौपाधिकत्वज्ञानं भवितुमर्हति / तथा च कारणस्य व्याप्तिग्रहकारणस्य अनौपाधिकत्वज्ञानस्य विरहेण न व्याप्तिग्रहो भवितुमर्हति, कारणाभावे कार्याभावस्यावश्यंभावात्। अन्यथा कारणतैव न स्यात्। न हि यद्विरहेऽपि यत् सम्भवति तत् तस्य कारणम्, कारणताघटकीभूतनियमांशस्य व्यभिचारे सति विरहादित्यन्यत्र विस्तरः / व्याप्यत्वासिद्धेरन्तर्भाव: [इति] / व्याप्यत्वाज्ञानरूपा या असिद्धिः / तत्त्वेनेत्यर्थः / तथा चानुमितिकारणीभूतव्याप्तिग्रहस्य कारणाभावमुखेन व्याप्तेरज्ञानरूपासिद्धौ उपाधिज्ञानमुपयुज्यत इति भावः इति / नापीत्याशङ्कार्थः / दूषयति - न हीति / व्याप्तिग्रहे अनौपाधिएकत्वाज्ञानस्य कारणत्वं न सम्भवति सिद्धयसिद्धिपराहतत्वात् / भाव(वे) वा न हि अन्यस्य साध्येति / अयं भाव: - वह्निमान् धूमात् इत्यत्र वहिसाध्यकधूमलिङ्गकोपाधिविरहेणनवह्निसाध्यकधूमलिङ्गकानौपाधिकत्वज्ञानं सम्भवति तद्घटकीभूतोपाधेरप्रसिद्धेः। धूमवान् वः इत्यादि धूमसाध्यकवह्निलिङ्गक(क) यत् आर्टेन्धनरूपोपाधिज्ञानं [न] तद(द्) वह्निमान् धूमात् इत्यत्र प्रतिबन्धकं येन तदभावज्ञानस्य वह्निमान् धूमात् इत्यत्र कारणत्वं स्यात् / आकाङ्क्षादिज्ञानवत् कारणीभूतज्ञानविघटाकाताया] एव ज्ञानस्य प्रतिबन्धकत्वात्। तथा च अनौपाधिकत्वज्ञानस्य कारणत्वविरहात् अनौपाधिकत्वज्ञानस्य कारणीभूतज्ञानविघटकत्वेन प्रतिबन्धकत्वाम्।अनौपाधिकत्वज्ञानस्य कारणत्वविरहस्तु सिद्धयसिद्धिपराहतत्वादित्युक्त एव। न स्वत इति मूलम् [41 A] | न स्वतः न साक्षात्। तथा च स्वाभावग्रहस्य [वा] स्वाभावव्याप्यवत्ताग्रहस्य वा स्वाभावावच्छेदकवत्ताग्रहस्य वा स्वग्रहे साक्षात् प्रतिबन्धकत्वम् / व्याप्तेरभावस्य [वा] व्याप्त्यभावव्याप्यत्वस्य वा व्याप्त्यभावावच्छेदकस्य वा अविषायाकत्वेन उपाधि