________________ तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका पक्षोत्थापकतया दूषकत्वमिति / अन्धकारो द्रव्यं स्वातन्त्र्येण प्रतीयमानत्वात् इत्यत्र अश्रावणत्वमुपाधिः अश्रावणत्वस्य पक्षेऽपिवर्तमानत्वात् न तदभावस्य पक्षवृत्तित्वम् इति न सत्प्रतिपक्षोन्नायकत्वम्। तद्व्यतिरेकस्य कार्यत्वव्यतिरेकस्य एवमश्रावणत्वव्यतिरेकस्य पक्षावृत्तित्वादित्यनेन साध्याभावव्याप्यवत्ताग्रहस्यैव पक्षे साध्यानुमितिप्रतिबन्धात्(बन्धकत्वात्) इति / नायम् [इति]। अयं पक्षवृत्तिः नोपाधिः नोपाधित्वेन सङ्ग्राह्यः इति न च। तल्लक्षणसत्त्वात्। लक्षणं तु साध्यसमानाधिकरणत्वे सति साध्यव्यभिचारिसाधनाव्यापकत्वरूपस्य तल्लक्षणस्य सत्त्वात् / तथा च तस्योपाधित्वेनासङ्ग्रहो न वक्तुं शक्यः इति / न चोक्तरूपसत्प्रतिपक्षोन्नायकत्वरूपदूषकताबीजविरहरूपाधिकत्वंवाच्यम्। इत्यतआह-अन्यथेति।अन्यथासत्प्रतिपक्षोन्नयनभिन्नप्रकारेण स्वव्यभिचारेण व्यभिचारोन्नयनद्वारा सम्भवात् / पक्षवृत्तित्वज्ञानदशायामिति टीका। तथा चोपाधेः पक्षवृत्तित्वनिश्चयेनोपाध्यभावस्य पक्ष(क्षा)वृत्तित्वनिर्णयो भवितुमर्हति, प्रतियोगिज्ञानस्यैव विरोधिनो वर्तमानत्वात्। ननु ह्रदो वह्निमान् धूमात् इत्यत्र वह्रिसामग्रीरूपोपाधौ भवन्मते उपाधित्वं न स्यात्, वह्निसामा या धूमाव्यापकत्वविरहात्। तथा चास्मन्मते तु तस्य सत्प्रतिपक्षोन्नायकतया दूषकत्वं सम्भवत्येव। तथा च भवता तस्योपाधित्वेनाङ्गीकारे भवतोक्तोपाधिद्वयस्यापि पक्षवृत्तेः मया न स्वीकरणीयमित्यत आह - किञ्चेति मूलम् / साध्यव्याप्याव्यापकत्वेनायोगोलकं धूमवत् वहेः इत्यत्र भवताअयोगोलके आर्टेन्धनव्यतिरेकेणधूमाभावः साधनीयः, तन्नसम्भवति।धूमव्याप्यवहेरव्यापकत्वेनाइँन्धनस्य धूमाव्यापकत्वं साधनीयम् / तथा चार्टेन्धनाभावो न धूमाव्याप्यः, व्यापकाभ्रावस्य व्याप्यत्वात् / धूमाव्याप्याव्यापकत्वेनाइँन्धनस्य धूमाव्यापकत्वात् / एतच्च ज्ञानगतिमनुरुध्य, न तु वस्तुगतिमनुरुध्येति / वस्तुतः वढेधूमव्याप्यत्वात् इति भावः / अव्यापकव्यतिरेकात् अव्याप्यव्यतिरेको न साधनीयः / एतदपि व्याप्यवृत्तिप्रतियोगिकाभावमनुरुध्य वक्तव्यम्, अन्यथा आकाशस्याव्याप्यत्वेऽपिघटाभावेन तदभावसाधनात् / नहि आकाशंघटस्य व्याप्यम्। एवं घटाभावेन संयोगाभावसाधनात्।नहि तत्रघटसंयोगयोः व्याप्यव्यापकभावः / इदं पुनरिहाभिधेयम् इत्थं ज्ञानगतिमनुरुध्य / तथा च साध्यव्याप्याव्यापकत्वेनोपाधिरपि साध्याव्यापकत्वे सत्प्रतिपक्षोन्नयनवत् व्यभिचारोन्नायकतयापि दूषकत्वं न स्यात्, व्यापकव्यभिचारेणैव व्याप्यव्यभिचारावश्यंभावात्। न हि अव्यापकव्यभिचारेणाव्याप्यव्यभिचार उन्नेय इति [40B] त्वदुक्तरीत्या व्यभिचारोन्नयनमपि नस्यात्।वस्तुगत्यावह्वेधूमस्याव्याप्यत्वेन न तदव्यापकत्वेनाइँन्धनस्य धूमाव्यापकत्वमिति चेत् तर्हि प्रकृतेऽपि दीयतां दृष्टिरिति ध्येयम् / प्रकारान्तरेणोपाधेर्दूषकत्वमुपन्यस्य दूषयति। नापिव्याप्तिविरहरूपतया, असिद्धत्वेनानौपाधिकत्वस्यव्याप्तित्वनिरासात्। नाप्यनौपाधिकत्वज्ञानस्यव्याप्तिधीहेतुत्वस्यतत्त्वेनव्याप्तिज्ञानकारणविघटकतयाव्याप्यत्वासिद्धेरन्तर्भावः, नान्यस्य साध्यव्यापकत्व-साधनाव्यापकत्वज्ञानं अन्यस्य व्याप्तिज्ञाने