________________ 83 उपाधिवादः इत्यस्वरसादाह - अपिचेतिमूलम्। एवं सत्प्रतिपक्षोत्थापकतया दूषकत्वे। बाधोनीतेति। बाधानुन्नीतपक्षेतरत्वस्योपाधित्वेनासङ्ग्रहेण बाधोनीतेति / यथा वहिरनुष्णः कृतकत्वात् इत्यत्र वहीतरत्वमुपाधिः स एव बाधोनीत इति / [39 B] व्यतिरेके इति मूलम् / व्यतिरेके साध्याभावसाधने यथा वह्निरुष्णः वहीतरत्वविरहात् इत्यत्रवहीतरत्वे उपाधित्वंन स्यात्। तस्याभावेवहीतरत्वविरहे असाधारण्यस्यपक्षमात्रवृत्तित्वस्य सपक्षविपक्षव्यावृत्तस्य सत्त्वेन न साध्याभावसाधनत्वं तथा च न सत्प्रतिपक्षोत्थापकतया दूषकत्वमिति भावः। एतत् त्विति टीका / एतत् सन्दिग्धोपाधे(धेः) व्यतिरेकस्य पक्षे सन्दिग्धत्वम् / पक्षे गर्भस्थमित्रातनये साधनाव्यापकसन्देहेन साध्यव्यापकत्वेन गृहीतस्यशाकपाकजत्वस्य पक्षेगर्भस्थमित्रातनये अव्यापकत्वसन्देहात् पक्षवृत्तित्वसन्देहः तथा च शाकपाकजत्वाभावस्य नरत्वावच्छिन्नश्यामत्वाभावव्याप्यत्वेऽपि न पक्षवृत्तित्वनिर्णयः / तथा च न श्यामत्वाभावसाधकत्वमिति भावः / तद्वयतिरेके इति टीका। तद्वयतिरेके बाधोनीतपक्षेतरव्यतिरेकेनअसाधारण्यं न सपक्षविपक्षव्यावृत्तत्वं बाधग्रहदशायां पक्षस्यैव सपक्षत्वात् तत्रैव साध्याभावरूपसाध्यस्य निर्णयात्। सपक्षीभूतेति। साध्यवत्त्वेन निर्णीतस्य तस्य वह्नः पक्षस्य वहिरनुष्णः कृतकत्वात् इत्यादौ बाधास्फूर्तिदशायामाप्तवाक्यादिना वहीतस्त्वस्योपाधित्वेन ग्रहदशायामसाधारण्यं स्यात् इत्यभिप्रायेणेदमित्यस्यार्थः इति वाच्यम्।नचतत्रापीति टीका।यत्र बाधो न गृहीतस्तत्रापिव्यतिरेकिणोपाधिव्यतिरेकेण वहीतरत्वविरहेण सत्प्रतिपक्षसम्भवात् / यथा वह्निः अनुष्णत्वव्याप्यकृतकत्ववानयम् अनुष्णत्वाभावव्याप्यवहीतरत्वाभाववांश्चेतिसत्प्रतिपक्षसम्भवात्।नचासाधारण्यमितिटीकां।अत्राप्यसाधारण्यं पक्षसपक्षविपक्षव्यावृत्तत्वात् / पक्षे बाधास्फूर्तितः पक्षस्य न सपक्षत्वम् / तस्यापि असाधारण्यस्यापि सत्प्रतिपक्षोत्थापकतया दूषकत्वम् / यथा सपक्षव्यावृत्तत्वेनसाध्यवदवृत्तितया साध्याभावव्याप्यत्वमागतंसाध्याभाववद्व्यावर्त(वृत्त)त्वेन साध्याभाववदवृत्तितया साध्यव्याप्यत्वमागतं तथा चेत्थंभूतसाधनस्य पक्षवृत्तित्वग्रहदशायां साध्याभावव्याप्यवत्ताग्रहत्वेन वहीतरत्वविरहग्रहस्य साध्यानुमितिप्रतिबन्धकत्वम् / एवं साध्यव्याप्यवत्ताग्रहत्वेन तस्यैव वहीतरत्वविरहग्रहस्य साध्याभावानुमितिप्रतिबन्धकत्वम् / इत्थं वासाधारण्येऽपि सत्प्रतिपक्षोत्थापकतया दूषकत्वे न किञ्चिदनुपपन्नमिति भावः। इत्यपरितोषाद् दूषणान्तरमाह - पक्षवृत्तिश्चेति मूलम् / तथा च पक्षे उपाध्यभावस्यावर्तमानत्वेन न तस्य सत्प्रतिपक्षोत्थापकतया(कता) सम्भवति / पक्षे साध्याभावव्याप्यवत्ताज्ञानस्यैव साध्यानुमितिप्रतिबन्धात्(बन्धकत्वात्) / तच्च प्रकृते न सम्भवति, साध्याभावव्याप्यस्योपाध्यभावस्य पक्षेऽपि वृत्तित्वात् / तथा च प्रसिद्धोपाधौ पक्षवृत्तौ अव्याप्तिः, तदेव दृष्टान्तेन द्रढयति - यथेति / घटोऽनित्यः द्रव्यत्वात् इत्यत्र कार्यत्वस्य [40A] पक्षवृत्तित्वात् न तदभावस्य साध्याभावव्याप्यत्वेऽपि पक्षवृत्तित्वं नवापक्षे साध्याभावः इति न सत्प्रति