________________ आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे 499 तूष तुष्टौ / तूषति / तुतूष / तूषिता / तूषितम् / क्ते सेट्त्वात् तूषा / तुषं हृपंच तुष्टौ तुष्यति // 500 पूष वृद्धौ / पूषति / पुपूष / पूर्षिता / क्ते पूषितः / उणादौ "उक्षि-तक्षि-" (उ० 900) इति अनि पूषा // 5 501 लुप 502 मूष स्तेये / लोषति / लुलोष / लोषिता / “नाम्युपान्त्य-" 5 / 1 / 54 / इति के लुषः॥ मूष / मूषति / मुमूष। मूषिता / “नाम्युपान्त्य-" 5 / 1 / 54 / इति के मूषः, मूषा तैजसावर्तनी, गौरादित्वाद् ड्यां मूषी / णके मूषकः // 503 पूष प्रसवे / “षः सो-' 2 / 3 / 98 / इति षस्य सत्वे सूषति / षोपदेशत्वात् षत्वे सुषूष / येषां तु सोपदेशस्तन्मते षत्वाभावे सुसूष / सूषिता। “नाम्युपान्त्य-" 5 / 1 / 54 / इति के सूषः, 10गौरादित्वाद् ड्यां सूषी / तालव्यादिरयमिति चारकाः, शूषा शाकम् / 504 ऊष रुजायाम्। ऊषति / “गुरुनाम्यादेः-" 3 / 4 / 48 / इत्यामादेशे ऊषाञ्चकार / "नाम्युपान्त्य-" 5 / 1 / 54 / इति के ऊषः / ऊषितुम् / अनटि ऊषणं मरिचम् , त्र्यूषणं त्रिकटुकम् / मनि अष्मा / ऊपरं क्षेत्रमिति तु ऊषाद् "रोऽश्मादेः” 6 / 2 / 79 / इति चातुरर्थिके रे, ऊषरं जलमिति तु "मध्वादिभ्यो-" 7 / 2 / 26 / इति मत्वर्थीये रे सिद्धम् / / 16 505 ईष उञ्छे / उच्छम् उच्चयनम् / ईषति / “गुरुनाम्यादेः-" 3 / 4 / 48 / इत्यामादेशे ईषा चकार / ईषिता / क्ते सेट्त्वात् "क्तटो-'" 5 / 3 / 106 / इति अः, ईषा व्रणगवेषणी मञ्चकाद्यवयवश्व / उणादौ "ऋच्युजि-" (उ० 48) इति ईके ईषीका तृणशलाका / इषीकेति तु इषत् इच्छायाम् इत्यस्य // 506 कृषं विलेखने। विलेखनम्-हलोत्कर्षणम् / कर्षति / चकर्ष। अनुस्वारेत्त्वाद् नेट क्रष्टा / 20"स्पृश-मृश-" 3 / 4 / 54 / इति वा सिचि अकार्षीत् , “स्पृशादि-" 4 / 4 / 112 / इति वा अकारागमे अक्राक्षीत् , पक्षेऽनिट्त्वात् "ह-शिटो-" 3 / 4 / 55 / इति सकि अकृक्षत् / णौ "ऋहवर्णस्य" ४।२।३७।इति वा ऋदादेशे अचीकृषत् / अचकर्षत् / “नन्द्यादिभ्यो-"५।१।५२। इति अने सकर्षणो हली; अन्यत्र “नाम्युपान्त्य-" 5 / 1 / 54 / इति के सङ्क्षः / “व्यञ्जनाद्-"५।३।१३२।घनि आकर्षो द्यूतफलहकर / “उपपीड-" 5 / 4 / 75 / इति णमि पटोपकर्ष धावति, भ्राष्ट्रोपकर्ष धानाः खादति, 25"तृतीयोक्तं वा"३।११५०। इति वा तत्पुरुषः, पक्षे पटे पटेन वोपकर्ष धावति, भ्राष्ट्र प्राष्ट्रेण वोपकर्ष धानाः खादति / उणादौ “कृषेर्गुण-वृद्धी च वा” (उ० 31) इति अके कर्षकः कार्षकः कृषकश्च कुटुम्बी / “पा-पुलि-" (उ० 41) इति किति इके कृषिकः पामरः / “घृ-वी-हा-" (उ० 183) इति किति णे कृष्णः / “नाम्युपान्त्य-" (उ० 609) इति कित् इ:, कृषिः। “कृषेश्च चादेः" . 1 जलमिति सुष्ठु // 2 क्षेत्रमिति शोभनम् , "मध्वादि-" 72 / 26 / सूत्रे तथैव दर्शनात् // 3 "समः ऋन्दि-कृषि-षिभ्यः संज्ञायामेव" इति वचनात् संज्ञायामेवायं प्रयोगः //