________________ परस्मैधातवः 490-498] स्वोपझं धातुपारायणम् / र्णिगि कर्मत्वम् / “ऋदुपान्त्या-'" 5 / 1 / 41 // इति क्यपि दृश्यम् / “घ्रा-ध्मा-" 5 / 1 / 58 / इति शे पश्यः, उत्पश्यः। “लिहादि-" 5 / 1 / 50 / अचि दर्शः। "कर्मणो-" 5 / 3 / 14 / अणि देवदर्शः। "असूर्योग्रा-" 5 / 1 / 126 // इति खशि असूर्यम्पश्या राजदाराः, उग्रम्पश्यो राजा / “त्यदाद्यन्य-" 5 / 1 / 152 / इति टक्-सक्-क्किप्सु “अन्य-त्यदादे:-" 3 / 2 / 152 / इत्यात्वे च तादृशः, तादृशी, तादृक्षः, तादृक् / “दृग्-दृश-दृक्षे” 3 / 2 / 151 / इति समानस्य सत्वे सदृक्, सपृशः, सदृक्षः / “दृशः 5 क्वनिप्" 5 / 1 / 166 / मेरुदृश्वा; स्त्रियां “णखराघोषा-” 2 / 4 / 4 / इति ड्याम् नस्य रत्वे च तत्त्वदृश्वरी। “शासू-युधि-'" 5 / 3 / 141 / इत्यने सुदर्शनः / “विद्-दृग्भ्यः कान्ये णम्" 5 / 4 / 54 / कन्यादर्श वरयति / पशुरिति तु स्पैशेः "स्पशि-प्रस्जेः स्लुक् च” (उ०७३१) इति उप्रत्यये रूपम् // 496 दंशं दशने / दशनं दन्तकर्म / “दंश-सञ्जः-" 4 / 2 / 49 / इति नलुकि दशति / क्ये दश्यते। ददंश / संयोगान्तत्वाद् “इन्ध्यसंयोगा-" 4 / 3 / 21 / इति परोक्षायाः कित्त्वाभावे ददंशतः ददंशुः। 10 अनुस्वारेत्त्वाद् नेट्, दंष्टा दंष्टुम् / “व्यञ्जनानाम्-" 4 / 3 / 45 / इति वृद्धौ अदाङ्क्षीत् / “गृ-लुप-" 3 / 4 / 12 / इति यङि गर्हितं दशति दन्दश्यते, यङ्लुपि दन्दशीति, सूत्रे कृतनलोपस्य निर्देशाद् अत्र नो लुक् / “यजि-जपि-"५।२।४७। इति ऊके दन्दशूकः / “कर्मणो-" ५।३।१४।अणि दृषं-- मूषिकं दशति वृषदंशो बिडालः / “दशेस्त्रः" 5 / 2 / 90 / दंष्ट्रो / अचि दंशः, दंशी / घनि उपदंशः। "दशना-ऽवोदैधोद्म-" 4 / 2 / 54 / इति निपातनाद् अनटि दशनम् , दशनो दन्तः / "दंशेस्तृतीयया-" 15 5 / 4 / 73 / इति णमि मूलकेनोपदंशं मूलकोपदंशं भुङ्क्ते, अत्र "तृतीयोक्तं वा” 3 / 1 / 50 / इति वा तत्पुरुषः / उणादौ "लू-पू-यु-" (उ०९०१) इति किति अनि दश घटाः // __ अथ षान्ता एकचत्वारिंशत् कृषवर्जाः सेटश्च. 497 घुष शब्दे / घोषति / जुघोष / ऋदित्त्वाद् वाऽङि अघुषत् , पक्षे अघोषीत् / “घुषेरविशब्दे" 4 / 4 / 68 / इति क्तयोर्नेट् , घुष्टा रज्जुः; विशब्दने त्विटि अवघुषितं वाक्यमाह। सम्पूर्वात् 20 "श्वस-जप-" 4 / 4 / 15 / इति वेटि सङ्घष्टा सङ्घषिता रज्जुः, सङ्घष्टं सघुषितं वाक्यम् / घुघण् विशब्दने घोषयति / आऊँः क्रन्दे आघोषयति / उणादौ "हृषि-पुषि-" (उ० 797) इति इलौ . घोषयित्नुः शब्दः // 498 चूष पाने / चूषति / चुचूष। चूषिता / क्ते निचूषितम् / चूषित्वा / / 1 वामनस्तु उपसर्गपूर्वकात् इच्छति, तथा च तद्वचः-उपसर्ग इति केचिन्नानुवर्तयन्ति इति॥ 2 सूर्यमपि न पश्यन्ति इति असूर्यम्पश्याः; गुप्तिपरं चैतत् , एवं नाम गुप्ता यदपरिहार्यदर्शनं सूर्यमपि न पश्यन्ति, अत्र दृशिना सम्बद्धस्य ननः सूर्येण सहासामर्थ्यपि वाक्यार्थप्रतिपादकत्वात् समासः // 3 यां यां कन्यां पश्यति तां तां सर्वा वरयति इत्यर्थः // 4 स्पशि बाधन-ग्रथनयोश्च चाद् गो, सौत्रोऽयम् // 5 दशत्यनया इति दंष्ट्रा / / 6 विशब्दनं विशब्दः नाना शन्दनं प्रतिज्ञानं च / “विशब्दनं प्रतिज्ञानम् / तच्च शब्देन स्वाभिप्रायप्रकाशनम् इति न्यासे"माध० धातु पृ० 119 धातुअं० 643 / 7 सम्बद्धावयवा इत्यर्थः // 8 नानाशब्दितं प्रतिज्ञातं वा वाक्यं ब्रत इत्यर्थः // 9 आङ्पूर्वको घुषण क्रन्दे इत्यर्थः //