________________ आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे .490 कश शब्दे / सौत्रोऽयमित्येके / कौशिकस्त्वध्यैष्टेत्यधीतः। कशति / चकाश / कशिता / अचि “वर्चस्कादिषु-" 3 / 2 / 48 इति षागमे प्रतिष्कशोऽप्रयायी दूतश्च / ___ "ग्राममद्य प्रवेक्ष्यामि, भव मे त्वं प्रतिष्कशः" [ ] कशा चर्मयष्टिः / घञि काशस्तृणजातिः / उणादौ "कशेर्मोऽन्तश्च" (उ० 420) इति ईरे 5 कश्मीराः / काशिरिति तु काशृङ् दीप्तौ इत्यस्य / वान्तोऽयमित्यन्ये, कवति // ___491 मिश 492 मश रोषे च / चकारात् शब्दे। शब्दने रोषक्रियायां चेत्यर्थः / मेशति मिमेश / मेशिता / "नाम्युपान्त्य-" 5 / 1 / 54 / इति के मिशो व्याजः // मश। मशति / ममाश / मशिता / “तिक्कृतौ नाम्नि" 5 / 1 / 71 / इति अकटि "दृ-क-नृ-" (उ० 27) इत्युणादौ अके वा मशकः // 10 493 शश प्लुतिगतौ / तालव्यादिः / प्लुतिभिर्गमने-उत्प्लुत्य गमने इत्यर्थः / शशति / शशाश शेशतुः शेशुः, अत्र "अनादेशादे:-" 4 / 1 / 24 / इत्यत एत्वम् / अचि शशः, शशकः / शशिता / शशितुम् // 494 णिश समाधौ। “पाठे-” 2 / 3 / 97 / इति णस्य नत्वे नेशति / निनेश निनिशतुः निनिशुः / “अदुरुपसर्गान्त-" 2 / 3 / 77 / इति णत्वे प्रणेशति / “नाम्युपान्त्य-" 5 / 15 / इति 15 के नेशः / “स्थादिभ्यः-" 5 / 3 / 82 // इति के नेशन्ति-समाहितमनस्का भवन्त्यस्यामिति निशा। नेशितुम् // 495 दृशं प्रेक्षणे। "श्रौति-" 4 / 2 / 108 / इति पश्यादेशे पश्यति / "समो गमृच्छि-" 3 // 3 // 84 / इत्यात्मनेपदे सम्पश्यते / ददर्श ददृशतुः ददृशुः / अनुस्वारेत्त्वाद् नेट्, द्रष्टा द्रष्टुम् / अत्र “अः सृजि-दृशो-" 4 / 4 / 111 / इत्यकारागमः / परोक्षायां "स्क्र-ऽस-वृ-भृ-" 4 / 4 / 81 / इति इटि 20 ददृशिव ददृशिम / “सृजि-दृशि-स्कृ-" 4 / 4 / 78 / इति थवि वा नेटि दद्रष्ठ ददर्शिथ। "स्वर-ग्रह-" 3 / 4 / 69 / इति वा निटि दर्शिष्यते द्रक्ष्यते / ऋदित्त्वाद् वा अङि अदर्शत् , अत्र "ऋवर्ण-" 4 / 3 / 7 / इति गुणः / पक्षे "ह-शिटो-" 3 / 4 / 55 / इत्यत्र दृशो वर्जनात् सगभावे सिचि अद्राक्षीत् / णौ डे "ऋवर्णस्य" 4 / 2 / 37 / इति गुणापवादे वा ऋदादेशे अदीदृशत् अददर्शत् / सनि “स्मृ दृशः" 3 / 3 / 72 / इत्यात्मनेपदे दिदृक्षते / “अणिक्कर्म-" 3 / 3 / 88 / इति णावात्मनेपदे पश्यन्ति 25 भृत्या राजानम् , दर्शयते राजा भृत्यान् भृत्यैर्वा, अत्र "दृश्यभिवदो:-" 2 / 2 / 9 / इति वाऽणिक्कर्तु 1 "पदि-पठि-पचि-स्थलि-हलि-कलि-" (उ०६०७) इत्यादिना इ: प्रत्ययः॥२ “अः सृजि-दृशो-" 4 / 4 / 111 // इति अः, "व्यञ्जनानामनिटि" 4 / 3 / 45 / इति तवृद्धिश्च / ननु अत्र परत्वात् "अःसृजि-दृशो-" 4 / 4 / 111 // इति पूर्वमकारागमे नाम्युपान्त्यत्वाभावात् सको न प्राप्तिः, तत्किं “ह-शिटोः नाम्युपान्त्याददृशोऽनिटः सक्” 3 // 4 // 55 // इत्यत्र दृशो वर्जनेन ? नैवम् , "नशो धुटि" 4 / 4 / 109 / इत्यतः धुटोत्यधिकारात् स्वरादिप्रत्यय "अः सृजि"-४४१११॥ इत्यकारागमो नास्ति, ततो नाम्युपान्त्यत्वात् सकि व्यत्यदृक्षन्त इत्यनिष्टं स्यात्, सिचस्तु न्यजनान्तत्वेनानकारान्तत्वात् “अनतोऽन्तोऽदात्मने" 4 / 2 / 114 / इति अन्तो अति व्यत्यदक्षत इति अमादौ च अदृशं व्यत्यहक्षातामित्यादि स्यात् , सिचितु अद्राक्षं व्यत्यरक्षातामिति भवति // 3 तान् राजैवानुकूलाचरणेन प्रयुङ्क्ते / /