________________ / 10 परस्मैधातवः 466-489] स्वोपझं धातुपारायणम् / मवति / ममाव मेवतुः मेवुः / क्विपि “मव्यवि-" 4 / 1 / 109 / इत्युपान्त्येन सहोटि म्: मुवौ मुवः। सुम्ः सुम्वौ सुम्वः / मविष्यति / एवं मन्नादिष्वपि // 481 गुर्वै उद्यमे / “भ्वादेः-" 2 / 1 / 63 / इति दीर्घ गूर्वति / जुगूर्व / गर्विता। ऐदित्त्वात् तयोर्नेट् , गूर्णः गूर्णवान् / विपि गूः गुरौ गुरः / / 482 पिवु 483 मिवु 484 निवु सेचने / सेवने इत्येके। त्रयोऽप्युदितः। उदित्त्वाद् / ने पिन्वति / पिपिन्व / मिन्वति / मिमिन्व। निन्वति / निनिन्व / पिन्विता / मिन्विता। निन्विता। मन्नादिषु पूर्ववत् // 485 हिवु 486 दिवु 487 जिवु प्रोणने / त्रयोऽप्युदितः / उदित्त्वाद् ने हिन्वति / जिहिन्व / दिन्वति / दिदिन्व / जिन्वति / जिजिन्व / हिन्विता / दिन्विता / जिन्विता / मन्नादिषु पूर्ववत् // 488 इवु व्याप्तौ च / चकारात् प्रीणने / उदित्त्वाद् ने इन्वति / इन्वाञ्चकार / अनटि "वोत्तरपदान्तन-" 2 / 3 / 75 / इति वा णत्वे प्रेण्वनम् , प्रेन्वनम् / णके इन्विका मृगशीर्षशिरस्तारकाः / सुपूर्वात् मनि "अनुनासिके च-" 4 / 1 / 108 / इत्यूटि स्विनोमा। वनि “य्वोः-" 4 / 4 / 121 / इति वलोपे “वन्याङ्-" 4 / 2 / 65 / इति नस्यात्वे यत्वे च सुयावा। विचि “य्वोः-" 4 / 4 / 121 // इति वलुकि गुणे च स्वे स्वेनौ स्वेनः / विपि वस्योटि स्पिनूः / इन्विता / इन्वितुम् / वान्तोऽय-15 मिति धुड्वर्गाभावात् "नाम्-" 1 / 3 / 39 / इति नकारस्य मो न भवति // 489 अव रक्षण-गति-कान्ति-प्रीति-तृप्ति-अवगमन-प्रवेश-श्रवण-स्वाम्यर्थ-याचन-क्रिया-इच्छा-दीप्ति-अवाप्ति-आलिङ्गन-हिंसा-दहन-भाव-वृद्धिषु। एकोनविंशतावर्थेषु। कैश्चित् कान्तिवर्जमष्टादशसु / अन्यैस्तु रक्षण-गति-कान्ति-प्रीति-तृप्ति-वृद्धिषु षट्सु / अवति / आव आवतुः आवुः / अविता / विपि “मव्यवि-" 4 / 1 / 109 / इत्यूटि ऊः उवौ उवः / क्तौ ऊतिः / उणादौ "दिव्यवि-" 20 (उ० 142) इति अटे अवटः / “जीण-शी-दी-" (उ० 261) इति किति ने ऊनः / “श्या-कठि-" (उ० 282) इति इने अविनं जलम् / “अवेईस्वश्च वा" (उ० 342) इति किति मे उमा, ॐ मम् / “मह्यविभ्यां टित्” (उ० 547) इति इषे अविषः समुद्रः, अविषी द्यौः / “पदि-पठि-" (उ० 607) इति इः, अविः / “सदि-वृत्यमि-" (उ० 680) इति अनौ अवनिः / “तृ-स्तृ-तन्द्रि-" (उ० 711) इति ईः, अवी रजस्वला। “कृसि-कमि-" (उ० 773) इति तुनि ओतुः / “अवेर्मः' 25 (उ० 933) ओम् // अथ शान्ताः सप्त आद्याः पञ्च सेटश्च १अवगमनस्थाने अवगम दहनभावस्थाने दानभाग इति माधवीयधातु * 113 धातुअं०५९२ 12 वर्जनादष्टाप्र०३ मु०॥३आकाशं नगरं च इति खे.टि.॥४ भत्र "अनुनासिकेचच्छवः शूद" 4 / 1 / 108 // इति वस्य ऊद् //