________________ परस्मैधातवः 443-465] स्वोपशं धातुपारायणम् / अथ वान्ताः सप्तत्रिंशत सेटश्चचर्व / चर्वति / चचर्व / चर्विता। ते चर्वितः / उणादौ “मवाक-" (उ० 37) इति निपातनाद् आके चार्वाकः / “बहुलमेतन्निदर्शनम्" इति चुरादित्वे चर्वयति // __454 पूर्व 455 पर्व 456 मर्ज पूरणे / पूर्वति / पुपूर्व / पूर्विता / अचि पूर्वः // पर्व / पर्वति / पपर्व / पविता। विचि सुपः सुपरौ सुपरः, “य्वोः प्वव्यञ्जने-' 4 / 4 / 121 // इति 5 वलोपः / उणादौ "ह-पृभृ-' (उ० 207) इति अते पर्वतः // मर्व / मर्वति। ममर्व / मर्विता // 457 मर्व 458 धवु 459 शव गतौ / मर्वति ममर्व / मर्विता // धवु / उदित्त्वाद् ने धन्वति / धन्विष्यति / उणादौ "उक्षि-तक्षि-" (उ० 900) इति अनि धन्वा // "शवतिर्गतिकर्मा काम्बोजेषु भाष्यते / विकार एवैनमार्या आहुः" [ महाभा० आ० 1,5] / शवति / 10 अचि शवः, शवम् , सुष्ठु शवतीति सुशवः, स्त्रियां गौरादित्वाद् ड्याम् सुशवी / क्विपि “अनुनासिके च-" 4 / 1 / 108 / इति वस्योट्, ततः “ऊटा" 1 / 2 / 13 / इत्यस्यौत्वे शौः / शविष्यति // 460 कर्व 461 खर्व 462 गर्व दपै / कर्वति, खर्वति, गर्वति, चकर्व, चखर्व, जगर्व / अचि घञि वा कर्वः, खर्वः, गर्वः // ___463 ष्ठिवू 464 क्षिवू निरसने / “षः सो-" 2 / 3 / 98 / इत्यत्र ष्ठिवो वर्जनात् षस्य सत्वा- 1b भावे "ष्ठिवू-क्लम्वा-" 4 / 2 / 110 / इति दीर्घ च ष्ठीवति / “तिर्वा ष्ठिवः" 4 / 1 / 43 // इति पूर्वस्य वा तित्वे तिष्ठेव टिष्ठेव / यङि तेष्ठीव्यते, टेष्ठीव्यते / ठेविता। ऊदित्त्वात् क्त्वि वेट् , प्ठ्यूत्वा ठेवित्वा। - "इवृध-'' 4 / 4 / 47 / इति सनि वेट्, तुष्ठ्यूषति दुष्ठ्यूषति; पक्षे तिष्ठेविषति टिष्ठेविषति / वेट्त्वात् क्तयोर्नेट , ष्ठ्यूतः, ष्ठ्यूतवान् / मनि “अनुनासिके च-" 4 / 1 / 108 / इत्यूट्त्वे सुष्ठयोमा / वनि सुष्ठयोवा / विपि सुष्ठ्यूः / विचि सुष्ठेः / “ष्ठिव्-सिवोऽनटि वा” 4 / 2 / 112 / इति वा दीर्घ ष्ठीव- 20 नम् , ठेवनम् // क्षिवू / क्षेवति / चिक्षेव / क्षेविता / उदित्त्वात् क्ष्यूत्वा, क्षेवित्वा / क्तयोः क्ष्यूतः क्ष्यूतवान् / क्षीवमप्येके पठन्ति क्षीवति / णौ डे अचिक्षीवम् / ते क्षीवितः। ष्ठिवू क्षिवच निरसने ठीव्यति / क्षीव्यति // 465 जीव प्राणधारणे / जीवति / जिजीव / जीविता / णौ डे "भ्राज-भास-" 4 / 2 / 36 / 1 महाभाष्ये तु-"कम्बोजेष्वेव भाषितो भवति विकार एनमार्या भाषन्ते शव इति" इति पाठभेदः / २"ष्ठिव'-क्लम्वाचमः" 4 / 2 / 110 / इत्यत्र सूत्रे 'टिवू इति ऊकारनिर्देशात् यङ्लुपि न भवति' इति कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिपादाः / श्रीगुणरतसूरयस्तु "ष्ठिवू-क्लम्वा-" 4 / 2 / 110 / इत्यत्र अत्यादाबधिकाराद् यङ्लुपि त्यादौ न दीर्घः, तेष्टेति, अत्र “य्वोः-" 4 / 4 / 121 / इति व्लुक्, तेष्ठिवीति तेष्ठयतः तेष्ठिवति, एवं टेष्ठेतीत्याद्यपि" इति आहुः-क्रियारत्नस. पृ. 78 धातुअं० 126 / सायणोऽपि 'ऊडभाविनां वकारान्तानां यङ्लुङ् नास्ति' इत्याह-माध० धातु• पृ० 108 धातुअं०५५३ / 3 अत्र "उपान्त्ये" 4334 / इति सनः कित्वे ऊटि द्वित्वे "तिर्वा ष्ठिवः” 41 // 43 // इत्यत्र तेरिकारस्योच्चारणार्थत्वात् वा ठस्य तत्वे च रूपम् // ४क्षीवम प्र. मु०॥ 5 पाणिनीयाः-माध. धातु. पृ० 109 धातुअं. 560 / 6 प्राणलक्षणस्य कर्मणो धात्वर्थेनोपसङ्ग्रहणादकमकोऽयम् //