________________ आचार्यश्रीहेमचन्द्रविरचित [भूषादिगणे तिलति / तिलण स्नेहने तेलयति // तिल्ल। तिल्लति / तितिल्ल। तिल्लिता // पल्ल। पल्लति / पपल्ल / पल्लिष्यति / उणादौ "पदि-पठि-" (उ०६०७) इति इः, पल्लिः॥ वेल्ल। वेल्लति / विवेल्ल / वेल्लिता। क्ते वेल्लितम् / णौ डे अविवेल्लत् // 443 वेल. 444 चेल. 445 केल. 446 क्वेल. 447 खेल 448 स्खल चलने / 5 वेलति / विवेल / वेलिता। ऋदित्त्वात् अविवेलत् / अचि वेला / वेल कालण उपदेशे वेलयति // चेल। चेलति / चिचेल / चेलिता / ऋदित्त्वात् अचिचेलत् , अचिचेलम् / चिलत् वसने चिलति / घनि चेलम् // केल। केलति / चिकेल ।केलिता। ऋदित्वात् अचिकेलत् ।क्ते केलितम् / किलत् श्वैत्य-क्रीडनयोः किलति / उणादौ "किलि-पिलि–' (उ० 608) इति इः, केलिः / कील बन्धे इत्यस्य तु कीलति, कीलितम् , कीलिः // क्वेल / केलति / चिक्केल / केलि10 ता / ऋदित्त्वात् अचिकेलत् // खेल। खेलति / चिखेल / खेलिता / ऋदित्त्वात् अचिखेलत् / अचि खेलः, खेला खुरलिः, पृषोदरादित्वाद् इस्वे खिलम् // स्खल / स्खलति / चस्खाल। स्खलिता, अचि स्खलः / “चाल-शब्दार्थाद्-" 5 / 2 / 43 // इत्यने स्खलनशीलः स्खलनः। ते स्खलितम् // 449 खल सञ्चये च / चकारात् चलने / खलति / चखाल / खलिता / “गोचर-" 5 / 3 / 131 / 15 इति निपातनाद् घे खल्यन्ते-सञ्चीयन्ते यशांसि धान्यानि वा यत्रेति खलः खलं रणाजिरम् धान्यपव नस्थानं च, खलो दुर्जनः / अचि खलति–सश्चिनोति पापम् चलति वा गुणेभ्य इति खलो नीचः / उणादौ “खलि-हिंसिभ्यामीनः" (उ० 286) खलीनम् / “लटि-खटि-" (उ० 505) इति वे खत्वं निम्नम् , खल्वा दृतिः। “कपाट-विराट-" (उ० 148) इति निपातनात् खल्वाटः / “ह-पृ-भृ-" (उ० 207) इति अते खलतः खल्वाटः। “पदि-पठि-" (उ० 607) इति इः, खलिः पिण्याकः / 20 "खल्यमि-"(उ० 653) इति अतौ खलतिः // 450 श्वल 451 श्वल्ल आशुगतौ / तालव्यादी / श्वलति / “वद-व्रज-" 4 / 3 / 48 / इति वृद्धौ अश्वालीत् // श्वल्ल / श्वल्लति / अश्वल्लीत् / शलिमप्यत्र एके पठन्ति, स ज्वलादिपाठेनैव गतार्थ इति नेहाधीतः // 452 गल 453 चर्व अदने / गलति / जगाल / गलिष्यति / अचि गलः कण्ठः / सवणेऽ25 प्ययमनेकार्थत्वात् , गलत्युदकं कुण्डिकायाः / उणादौ “कलि-गलेरस्योच्च" (उ० 315) इति फे गुल्फः / “बहुलमेतन्निदर्शनम् " इति गलिण लावणे गालयते उद्गालयते // 1 कीलितम् स्थाने कीलनम् सं . सं 2 तपा० / मुद्रिते तु उभयमपि // 2 "खल्यन्ते-संचीयन्ते धान्यानि अत्र खलं त्रिलिङ्गः, “गोचर-सश्चर-" 5 / 3 / 131 इति निपातनाद् घः" इति स्वोपज्ञाभिधानचिन्तामणिटीकायाम् / कां. 4 श्लो०३५॥